सञ्जय़ उवाच:
दुःशासनवलं हत्वा सव्यसाची धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ||
१ ख
सञ्जय़ उवाच:
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् |
२ क
सञ्जय़ उवाच:
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽव्रवीत् ||
२ ख
सञ्जय़ उवाच:
शिवेन ध्याहि मां व्रह्मन्स्वस्ति चैव वदस्व मे |
३ क
सञ्जय़ उवाच:
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ||
३ ख
सञ्जय़ उवाच:
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च |
४ क
सञ्जय़ उवाच:
तथा कृष्णसमश्चैव सत्यमेतद्व्रवीमि ते ||
४ ख
सञ्जय़ उवाच:
अश्वत्थामा यथा तात रक्षणीय़स्तवानघ |
५ क
सञ्जय़ उवाच:
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ||
५ ख
सञ्जय़ उवाच:
तव प्रसादादिच्छामि सिन्धुराजानमाहवे |
६ क
सञ्जय़ उवाच:
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो ||
६ ख
सञ्जय़ उवाच:
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मय़न्निव |
७ क
सञ्जय़ उवाच:
मामजित्वा न वीभत्सो शक्यो जेतुं जय़द्रथः ||
७ ख
सञ्जय़ उवाच:
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् |
८ क
सञ्जय़ उवाच:
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ||
८ ख
सञ्जय़ उवाच:
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य साय़कैः |
९ क
सञ्जय़ उवाच:
द्रोणमभ्यर्दय़द्वाणैर्घोररूपैर्महत्तरैः ||
९ ख
सञ्जय़ उवाच:
विव्याध च रणे द्रोणमनुमान्य विशां पते |
१० क
सञ्जय़ उवाच:
क्षत्रधर्मं समास्थाय़ नवभिः साय़कैः पुनः ||
१० ख
सञ्जय़ उवाच:
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ |
११ क
सञ्जय़ उवाच:
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ ||
११ ख
सञ्जय़ उवाच:
इय़ेष पाण्डवस्तस्य वाणैश्छेत्तुं शरासनम् |
१२ क
सञ्जय़ उवाच:
तस्य चिन्तय़तस्त्वेवं फल्गुनस्य महात्मनः |
१२ ख
सञ्जय़ उवाच:
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ||
१२ ग
सञ्जय़ उवाच:
विव्याध च हय़ानस्य ध्वजं सारथिमेव च |
१३ क
सञ्जय़ उवाच:
अर्जुनं च शरैर्वीरं स्मय़मानोऽभ्यवाकिरत् ||
१३ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः |
१४ क
सञ्जय़ उवाच:
विशेषय़िष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् |
१४ ख
सञ्जय़ उवाच:
मुमोच षट्शतान्वाणान्गृहीत्वैकमिव द्रुतम् ||
१४ ग
सञ्जय़ उवाच:
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् |
१५ क
सञ्जय़ उवाच:
चिक्षेपाय़ुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ||
१५ ख
सञ्जय़ उवाच:
तैः सम्यगस्तैर्वलिना कृतिना चित्रय़ोधिना |
१६ क
सञ्जय़ उवाच:
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ||
१६ ख
सञ्जय़ उवाच:
विद्रुताश्च रणे पेतुः सञ्छिन्नाय़ुधजीविताः |
१७ क
सञ्जय़ उवाच:
रथिनो रथमुख्येभ्यः सहय़ाः शरपीडिताः ||
१७ ख
सञ्जय़ उवाच:
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः |
१८ क
सञ्जय़ उवाच:
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्वुदवेश्मनाम् ||
१८ ख
सञ्जय़ उवाच:
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः |
१९ क
सञ्जय़ उवाच:
हंसा हिमवतः पृष्ठे वारिविप्रहता इव ||
१९ ख
सञ्जय़ उवाच:
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः |
२० क
सञ्जय़ उवाच:
युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः ||
२० ख
सञ्जय़ उवाच:
तं पाण्डवादित्यशरांशुजालं; कुरुप्रवीरान्युधि निष्टपन्तम् |
२१ क
सञ्जय़ उवाच:
स द्रोणमेघः शरवर्षवेगैः; प्राच्छादय़न्मेघ इवार्करश्मीन् ||
२१ ख
सञ्जय़ उवाच:
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना |
२२ क
सञ्जय़ उवाच:
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जय़म् ||
२२ ख
सञ्जय़ उवाच:
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः |
२३ क
सञ्जय़ उवाच:
धैर्यमालम्व्य वीभत्सुर्द्रोणं विव्याध पत्रिभिः ||
२३ ख
सञ्जय़ उवाच:
द्रोणस्तु पञ्चभिर्वाणैर्वासुदेवमताडय़त् |
२४ क
सञ्जय़ उवाच:
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ||
२४ ख
सञ्जय़ उवाच:
विशेषय़िष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी |
२५ क
सञ्जय़ उवाच:
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ||
२५ ख
सञ्जय़ उवाच:
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य साय़कान् |
२६ क
सञ्जय़ उवाच:
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ||
२६ ख
सञ्जय़ उवाच:
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जय़ौ |
२७ क
सञ्जय़ उवाच:
द्रोणसृष्टाः सुवहवः कङ्कपत्रपरिच्छदाः ||
२७ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवय़ोस्तदा |
२८ क
सञ्जय़ उवाच:
वासुदेवो महावुद्धिः कार्यवत्तामचिन्तय़त् ||
२८ ख
सञ्जय़ उवाच:
ततोऽव्रवीद्वासुदेवो धनञ्जय़मिदं वचः |
२९ क
सञ्जय़ उवाच:
पार्थ पार्थ महावाहो न नः कालात्ययो भवेत् ||
२९ ख
सञ्जय़ उवाच:
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् |
३० क
सञ्जय़ उवाच:
पार्थश्चाप्यव्रवीत्कृष्णं यथेष्टमिति केशव ||
३० ख
सञ्जय़ उवाच:
ततः प्रदक्षिणं कृत्वा द्रोणं प्राय़ान्महाभुजः |
३१ क
सञ्जय़ उवाच:
परिवृत्तश्च वीभत्सुरगच्छद्विसृजञ्शरान् ||
३१ ख
सञ्जय़ उवाच:
ततोऽव्रवीत्स्मय़न्द्रोणः क्वेदं पाण्डव गम्यते |
३२ क
सञ्जय़ उवाच:
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ||
३२ ख
अर्जुन उवाच:
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते |
३३ क
अर्जुन उवाच:
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजय़ेत् ||
३३ ख
सञ्जय़ उवाच:
एवं व्रुवाणो वीभत्सुर्जय़द्रथवधोत्सुकः |
३४ क
सञ्जय़ उवाच:
त्वराय़ुक्तो महावाहुस्तत्सैन्यं समुपाद्रवत् ||
३४ ख
सञ्जय़ उवाच:
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
३५ क
सञ्जय़ उवाच:
अन्वय़ातां महात्मानौ विशन्तं तावकं वलम् ||
३५ ख
सञ्जय़ उवाच:
ततो जय़ो महाराज कृतवर्मा च सात्त्वतः |
३६ क
सञ्जय़ उवाच:
काम्वोजश्च श्रुताय़ुश्च धनञ्जय़मवारय़न् ||
३६ ख
सञ्जय़ उवाच:
तेषां दशसहस्राणि रथानामनुय़ाय़िनाम् |
३७ क
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः ||
३७ ख
सञ्जय़ उवाच:
माचेल्लका ललित्थाश्च केकय़ा मद्रकास्तथा |
३८ क
सञ्जय़ उवाच:
नाराय़णाश्च गोपालाः काम्वोजानां च ये गणाः ||
३८ ख
सञ्जय़ उवाच:
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः |
३९ क
सञ्जय़ उवाच:
भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति ||
३९ ख
सञ्जय़ उवाच:
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् |
४० क
सञ्जय़ उवाच:
त्यजन्तं तुमुले प्राणान्संनद्धं चित्रय़ोधिनम् ||
४० ख
सञ्जय़ उवाच:
गाहमानमनीकानि मातङ्गमिव यूथपम् |
४१ क
सञ्जय़ उवाच:
महेष्वासं पराक्रान्तं नरव्याघ्रमवारय़न् ||
४१ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् |
४२ क
सञ्जय़ उवाच:
अन्योन्यं वै प्रार्थय़तां योधानामर्जुनस्य च ||
४२ ख
सञ्जय़ उवाच:
जय़द्रथवधप्रेप्सुमाय़ान्तं पुरुषर्षभम् |
४३ क
सञ्जय़ उवाच:
न्यवारय़न्त सहिताः क्रिय़ा व्याधिमिवोत्थितम् ||
४३ ख