chevron_left कर्ण पर्व अध्याय ६६
सञ्जय़ उवाच:
ततोऽपय़ाताः शरपातमात्र; मवस्थिताः कुरवो भिन्नसेनाः |
१ क
सञ्जय़ उवाच:
विद्युत्प्रकाशं ददृशुः समन्ता; द्धनञ्जय़ास्त्रं समुदीर्यमाणम् ||
१ ख
सञ्जय़ उवाच:
तदर्जुनास्त्रं ग्रसते स्म वीरा; न्विय़त्तथाकाशमनन्तघोषम् |
२ क
सञ्जय़ उवाच:
क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय़ कर्णस्य महाविमर्दे ||
२ ख
सञ्जय़ उवाच:
रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन |
३ क
सञ्जय़ उवाच:
तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च वाणैर्निशितैर्निजघ्ने ||
३ ख
सञ्जय़ उवाच:
ततो विमर्दः सुमहान्वभूव; तस्यार्जुनस्याधिरथेश्च राजन् |
४ क
सञ्जय़ उवाच:
अन्योन्यमासादय़तोः पृषत्कै; र्विषाणघातैर्द्विपय़ोरिवोग्रैः ||
४ ख
सञ्जय़ उवाच:
ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् |
५ क
सञ्जय़ उवाच:
रौद्रं शरं संय़ति सुप्रधौतं; पार्थार्थमत्यर्थचिराय़ गुप्तम् ||
५ ख
सञ्जय़ उवाच:
सदार्चितं चन्दनचूर्णशाय़िनं; सुवर्णनालीशय़नं महाविषम् |
६ क
सञ्जय़ उवाच:
प्रदीप्तमैरावतवंशसम्भवं; शिरो जिहीर्षुर्युधि फल्गुनस्य ||
६ ख
सञ्जय़ उवाच:
तमव्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् |
७ क
सञ्जय़ उवाच:
न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् ||
७ ख
सञ्जय़ उवाच:
अथाव्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं सन्धितेषुः प्रसह्य |
८ क
सञ्जय़ उवाच:
न सन्धत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति ||
८ ख
सञ्जय़ उवाच:
तथैवमुक्त्वा विससर्ज तं शरं; वलाहकं वर्षघनाभिपूजितम् |
९ क
सञ्जय़ उवाच:
हतोऽसि वै फल्गुन इत्यवोच; त्ततस्त्वरन्नूर्जितमुत्ससर्ज ||
९ ख
सञ्जय़ उवाच:
सन्धीय़मानं भुजगं दृष्ट्वा कर्णेन माधवः |
१० क
सञ्जय़ उवाच:
आक्रम्य स्यन्दनं पद्भ्यां वलेन वलिनां वरः ||
१० ख
सञ्जय़ उवाच:
अवगाढे रथे भूमौ जानुभ्यामगमन्हय़ाः |
११ क
सञ्जय़ उवाच:
ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ||
११ ख
सञ्जय़ उवाच:
अथार्जुनस्योत्तमगात्रभूषणं; धराविय़द्द्योसलिलेषु विश्रुतम् |
१२ क
सञ्जय़ उवाच:
वलास्त्रसर्गोत्तमय़त्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः ||
१२ ख
सञ्जय़ उवाच:
दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् |
१३ क
सञ्जय़ उवाच:
पुरन्दरार्थं तपसा प्रय़त्नतः; स्वय़ं कृतं यद्भुवनस्य सूनुना ||
१३ ख
सञ्जय़ उवाच:
महार्हरूपं द्विषतां भय़ङ्करं; विभाति चात्यर्थसुखं सुगन्धि तत् |
१४ क
सञ्जय़ उवाच:
निजघ्नुषे देवरिपून्सुरेश्वरः; स्वय़ं ददौ यत्सुमनाः किरीटिने ||
१४ ख
सञ्जय़ उवाच:
हराम्वुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसाय़कोत्तमैः |
१५ क
सञ्जय़ उवाच:
सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः ||
१५ ख
सञ्जय़ उवाच:
तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रिय़म् |
१६ क
सञ्जय़ उवाच:
पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ||
१६ ख
सञ्जय़ उवाच:
ततः किरीटं वहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो वलात् |
१७ क
सञ्जय़ उवाच:
गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् ||
१७ ख
सञ्जय़ उवाच:
मही विय़द्द्यौः सलिलानि वाय़ुना; यथा विभिन्नानि विभान्ति भारत |
१८ क
सञ्जय़ उवाच:
तथैव शव्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः ||
१८ ख
सञ्जय़ उवाच:
ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः |
१९ क
सञ्जय़ उवाच:
विभाति सम्पूर्णमरीचिभास्वता; शिरोगतेनोदय़पर्वतो यथा ||
१९ ख
सञ्जय़ उवाच:
वलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान् |
२० क
सञ्जय़ उवाच:
महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात ||
२० ख
सञ्जय़ उवाच:
तमव्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम् |
२१ क
सञ्जय़ उवाच:
ततः कृष्णः पार्थमुवाच सङ्ख्ये; महोरगं कृतवैरं जहि त्वम् ||
२१ ख
सञ्जय़ उवाच:
स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा |
२२ क
सञ्जय़ उवाच:
उवाच को न्वेष ममाद्य नागः; स्वय़ं य आगाद्गरुडस्य वक्त्रम् ||
२२ ख
कृष्ण उवाच:
योऽसौ त्वय़ा खाण्डवे चित्रभानुं; सन्तर्पय़ानेन धनुर्धरेण |
२३ क
कृष्ण उवाच:
विय़द्गतो वाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता ||
२३ ख
कृष्ण उवाच:
ततस्तु जिष्णुः परिहृत्य शेषां; श्चिच्छेद षड्भिर्निशितैः सुधारैः |
२४ क
कृष्ण उवाच:
नागं विय़त्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ ||
२४ ख
कृष्ण उवाच:
तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्वर्हिणवाजितैश्च |
२५ क
कृष्ण उवाच:
विव्याध कर्णः पुरुषप्रवीरं; धनञ्जय़ं तिर्यगवेक्षमाणम् ||
२५ ख
कृष्ण उवाच:
ततोऽर्जुनो द्वादशभिर्विमुक्तै; राकर्णमुक्तैर्निशितैः समर्प्य |
२६ क
कृष्ण उवाच:
नाराचमाशीविषतुल्यवेग; माकर्णपूर्णाय़तमुत्ससर्ज ||
२६ ख
कृष्ण उवाच:
स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः |
२७ क
कृष्ण उवाच:
कर्णस्य पीत्वा रुधिरं विवेश; वसुन्धरां शोणितवाजदिग्धः ||
२७ ख
कृष्ण उवाच:
ततो वृषो वाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा |
२८ क
कृष्ण उवाच:
तथाशुकारी व्यसृजच्छरोत्तमा; न्महाविषः सर्प इवोत्तमं विषम् ||
२८ ख
कृष्ण उवाच:
जनार्दनं द्वादशभिः पराभिन; न्नवैर्नवत्या च शरैस्तथार्जुनम् |
२९ क
कृष्ण उवाच:
शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च ||
२९ ख
कृष्ण उवाच:
तमस्य हर्षं ममृषे न पाण्डवो; विभेद मर्माणि ततोऽस्य मर्मवित् |
३० क
कृष्ण उवाच:
परं शरैः पत्रिभिरिन्द्रविक्रम; स्तथा यथेन्द्रो वलमोजसाहनत् ||
३० ख
कृष्ण उवाच:
ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः |
३१ क
कृष्ण उवाच:
शरैर्भृशाय़स्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः ||
३१ ख
कृष्ण उवाच:
मणिप्रवेकोत्तमवज्रहाटकै; रलङ्कृतं चास्य वराङ्गभूषणम् |
३२ क
कृष्ण उवाच:
प्रविद्धमुर्व्यां निपपात पत्रिभि; र्धनञ्जय़ेनोत्तमकुण्डलेऽपि च ||
३२ ख
कृष्ण उवाच:
महाधनं शिल्पिवरैः प्रय़त्नतः; कृतं यदस्योत्तमवर्म भास्वरम् |
३३ क
कृष्ण उवाच:
सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन वाणैर्वहुधा व्यशातय़त् ||
३३ ख
कृष्ण उवाच:
स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत् |
३४ क
कृष्ण उवाच:
स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः ||
३४ ख
कृष्ण उवाच:
महाधनुर्मण्डलनिःसृतैः शितैः; क्रिय़ाप्रय़त्नप्रहितैर्वलेन च |
३५ क
कृष्ण उवाच:
ततक्ष कर्णं वहुभिः शरोत्तमै; र्विभेद मर्मस्वपि चार्जुनस्त्वरन् ||
३५ ख
कृष्ण उवाच:
दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः |
३६ क
कृष्ण उवाच:
वभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः ||
३६ ख
कृष्ण उवाच:
साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः |
३७ क
कृष्ण उवाच:
प्रच्छादय़ामास दिशश्च वाणैः; सर्वप्रय़त्नात्तपनीय़पुङ्खैः ||
३७ ख
कृष्ण उवाच:
स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति |
३८ क
कृष्ण उवाच:
सुपुष्पिताशोकपलाशशाल्मलि; र्यथाचलः स्पन्दनचन्दनाय़ुतः ||
३८ ख
कृष्ण उवाच:
शरैः शरीरे वहुधा समर्पितै; र्विभाति कर्णः समरे विशां पते |
३९ क
कृष्ण उवाच:
महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् ||
३९ ख
कृष्ण उवाच:
स वाणसङ्घान्धनुषा व्यवासृज; न्विभाति कर्णः शरजालरश्मिवान् |
४० क
कृष्ण उवाच:
सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा ||
४० ख
कृष्ण उवाच:
वाह्वन्तरादाधिरथेर्विमुक्ता; न्वाणान्महाहीनिव दीप्यमानान् |
४१ क
कृष्ण उवाच:
व्यध्वंसय़न्नर्जुनवाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ||
४१ ख
कृष्ण उवाच:
ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः |
४२ क
कृष्ण उवाच:
घूर्णे रथे व्राह्मणस्याभिशापा; द्रामादुपात्तेऽप्रतिभाति चास्त्रे ||
४२ ख
कृष्ण उवाच:
अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः |
४३ क
कृष्ण उवाच:
धर्मप्रधानानभिपाति धर्म; इत्यव्रुवन्धर्मविदः सदैव |
४३ ख
कृष्ण उवाच:
ममापि निम्नोऽद्य न पाति भक्ता; न्मन्ये न नित्यं परिपाति धर्मः ||
४३ ग
कृष्ण उवाच:
एवं व्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः |
४४ क
कृष्ण उवाच:
मर्माभिघाताच्चलितः क्रिय़ासु; पुनः पुनर्धर्ममगर्हदाजौ ||
४४ ख
कृष्ण उवाच:
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे |
४५ क
कृष्ण उवाच:
हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ||
४५ ख
कृष्ण उवाच:
ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् |
४६ क
कृष्ण उवाच:
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ||
४६ ख
कृष्ण उवाच:
निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले |
४७ क
कृष्ण उवाच:
कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शय़त् ||
४७ ख
कृष्ण उवाच:
वलेनाथ स संस्तभ्य व्रह्मास्त्रं समुदैरय़त् |
४८ क
कृष्ण उवाच:
ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रय़त् ||
४८ ख
कृष्ण उवाच:
गाण्डीवं ज्यां च वाणांश्च अनुमन्त्र्य धनञ्जय़ः |
४९ क
कृष्ण उवाच:
असृजच्छरवर्षाणि वर्षाणीव पुरन्दरः ||
४९ ख
कृष्ण उवाच:
ततस्तेजोमय़ा वाणा रथात्पार्थस्य निःसृताः |
५० क