युधिष्ठिर उवाच:
सुय़ोधनो नार्हतीति क्षमामेवं न विन्दति |
४९ क
युधिष्ठिर उवाच:
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ||
४९ ख
युधिष्ठिर उवाच:
एतदात्मवतां वृत्तमेष धर्मः सनातनः |
५० क
युधिष्ठिर उवाच:
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ||
५० ख