chevron_left आदि पर्व अध्याय ६७
दुःषन्त उवाच:
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे |
१ क
दुःषन्त उवाच:
भार्या मे भव सुश्रोणि व्रूहि किं करवाणि ते ||
१ ख
दुःषन्त उवाच:
सुवर्णमाला वासांसि कुण्डले परिहाटके |
२ क
दुःषन्त उवाच:
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ||
२ ख
दुःषन्त उवाच:
आहरामि तवाद्याहं निष्कादीन्यजिनानि च |
३ क
दुःषन्त उवाच:
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ||
३ ख
दुःषन्त उवाच:
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि |
४ क
दुःषन्त उवाच:
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ||
४ ख
शकुन्तलो उवाच:
फलाहारो गतो राजन्पिता मे इत आश्रमात् |
५ क
शकुन्तलो उवाच:
तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ||
५ ख
दुःषन्त उवाच:
इच्छामि त्वां वरारोहे भजमानामनिन्दिते |
६ क
दुःषन्त उवाच:
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ||
६ ख
दुःषन्त उवाच:
आत्मनो वन्धुरात्मैव गतिरात्मैव चात्मनः |
७ क
दुःषन्त उवाच:
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ||
७ ख
दुःषन्त उवाच:
अष्टावेव समासेन विवाहा धर्मतः स्मृताः |
८ क
दुःषन्त उवाच:
व्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ||
८ ख
दुःषन्त उवाच:
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः |
९ क
दुःषन्त उवाच:
तेषां धर्मान्यथापूर्वं मनुः स्वाय़म्भुवोऽव्रवीत् ||
९ ख
दुःषन्त उवाच:
प्रशस्तांश्चतुरः पूर्वान्व्राह्मणस्योपधारय़ |
१० क
दुःषन्त उवाच:
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ||
१० ख
दुःषन्त उवाच:
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः |
११ क
दुःषन्त उवाच:
पञ्चानां तु त्रय़ो धर्म्या द्वावधर्म्यौ स्मृताविह ||
११ ख
दुःषन्त उवाच:
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन |
१२ क
दुःषन्त उवाच:
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ||
१२ ख
दुःषन्त उवाच:
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः |
१३ क
दुःषन्त उवाच:
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशय़ः ||
१३ ख
दुःषन्त उवाच:
सा त्वं मम सकामस्य सकामा वरवर्णिनि |
१४ क
दुःषन्त उवाच:
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ||
१४ ख
शकुन्तलो उवाच:
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम |
१५ क
शकुन्तलो उवाच:
प्रदाने पौरवश्रेष्ठ शृणु मे समय़ं प्रभो ||
१५ ख
शकुन्तलो उवाच:
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः |
१६ क
शकुन्तलो उवाच:
मम जाय़ेत यः पुत्रः स भवेत्त्वदनन्तरम् ||
१६ ख
शकुन्तलो उवाच:
युवराजो महाराज सत्यमेतद्व्रवीहि मे |
१७ क
शकुन्तलो उवाच:
यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वय़ा ||
१७ ख
वैशम्पाय़न उवाच:
एवमस्त्विति तां राजा प्रत्युवाचाविचारय़न् |
१८ क
वैशम्पाय़न उवाच:
अपि च त्वां नय़िष्यामि नगरं स्वं शुचिस्मिते |
१८ ख
वैशम्पाय़न उवाच:
यथा त्वमर्हा सुश्रोणि सत्यमेतद्व्रवीमि ते ||
१८ ग
वैशम्पाय़न उवाच:
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् |
१९ क
वैशम्पाय़न उवाच:
जग्राह विधिवत्पाणावुवास च तय़ा सह ||
१९ ख
वैशम्पाय़न उवाच:
विश्वास्य चैनां स प्राय़ादव्रवीच्च पुनः पुनः |
२० क
वैशम्पाय़न उवाच:
प्रेषय़िष्ये तवार्थाय़ वाहिनीं चतुरङ्गिणीम् |
२० ख
वैशम्पाय़न उवाच:
तय़ा त्वामानय़िष्यामि निवासं स्वं शुचिस्मिते ||
२० ग
वैशम्पाय़न उवाच:
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय़ |
२१ क
वैशम्पाय़न उवाच:
मनसा चिन्तय़न्प्राय़ात्काश्यपं प्रति पार्थिवः ||
२१ ख
वैशम्पाय़न उवाच:
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति |
२२ क
वैशम्पाय़न उवाच:
एवं सञ्चिन्तय़न्नेव प्रविवेश स्वकं पुरम् ||
२२ ख
वैशम्पाय़न उवाच:
मुहूर्तय़ाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् |
२३ क
वैशम्पाय़न उवाच:
शकुन्तला च पितरं ह्रिय़ा नोपजगाम तम् ||
२३ ख
वैशम्पाय़न उवाच:
विज्ञाय़ाथ च तां कण्वो दिव्यज्ञानो महातपाः |
२४ क
वैशम्पाय़न उवाच:
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ||
२४ ख
वैशम्पाय़न उवाच:
त्वय़ाद्य राजान्वय़या मामनादृत्य यत्कृतः |
२५ क
वैशम्पाय़न उवाच:
पुंसा सह समाय़ोगो न स धर्मोपघातकः ||
२५ ख
वैशम्पाय़न उवाच:
क्षत्रिय़स्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते |
२६ क
वैशम्पाय़न उवाच:
सकामाय़ाः सकामेन निर्मन्त्रो रहसि स्मृतः ||
२६ ख
वैशम्पाय़न उवाच:
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः |
२७ क
वैशम्पाय़न उवाच:
अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ||
२७ ख
वैशम्पाय़न उवाच:
महात्मा जनिता लोके पुत्रस्तव महावलः |
२८ क
वैशम्पाय़न उवाच:
य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ||
२८ ख
वैशम्पाय़न उवाच:
परं चाभिप्रय़ातस्य चक्रं तस्य महात्मनः |
२९ क
वैशम्पाय़न उवाच:
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ||
२९ ख
वैशम्पाय़न उवाच:
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमव्रवीत् |
३० क
वैशम्पाय़न उवाच:
विनिधाय़ ततो भारं संनिधाय़ फलानि च ||
३० ख
वैशम्पाय़न उवाच:
मय़ा पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः |
३१ क
वैशम्पाय़न उवाच:
तस्मै ससचिवाय़ त्वं प्रसादं कर्तुमर्हसि ||
३१ ख
कण्व उवाच:
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि |
३२ क
कण्व उवाच:
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ||
३२ ख
वैशम्पाय़न उवाच:
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा |
३३ क
वैशम्पाय़न उवाच:
शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ||
३३ ख