chevron_left अनुशासन पर्व अध्याय ६७
युधिष्ठिर उवाच:
तिलानां कीदृशं दानमथ दीपस्य चैव ह |
१ क
युधिष्ठिर उवाच:
अन्नानां वाससां चैव भूय़ एव व्रवीहि मे ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
व्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ||
२ ख
भीष्म उवाच:
मध्यदेशे महान्ग्रामो व्राह्मणानां वभूव ह |
३ क
भीष्म उवाच:
गङ्गाय़मुनय़ोर्मध्ये यामुनस्य गिरेरधः ||
३ ख
भीष्म उवाच:
पर्णशालेति विख्यातो रमणीय़ो नराधिप |
४ क
भीष्म उवाच:
विद्वांसस्तत्र भूय़िष्ठा व्राह्मणाश्चावसंस्तदा ||
४ ख
भीष्म उवाच:
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् |
५ क
भीष्म उवाच:
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ||
५ ख
भीष्म उवाच:
गच्छ त्वं व्राह्मणग्रामं ततो गत्वा तमानय़ |
६ क
भीष्म उवाच:
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ||
६ ख
भीष्म उवाच:
शमे निविष्टं विद्वांसमध्यापकमनादृतम् |
७ क
भीष्म उवाच:
मा चान्यमानय़ेथास्त्वं सगोत्रं तस्य पार्श्वतः ||
७ ख
भीष्म उवाच:
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना |
८ क
भीष्म उवाच:
अपत्येषु तथा वृत्ते समस्तेनैव धीमता |
८ ख
भीष्म उवाच:
तमानय़ यथोद्दिष्टं पूजा कार्या हि तस्य मे ||
८ ग
भीष्म उवाच:
स गत्वा प्रतिकूलं तच्चकार यमशासनम् |
९ क
भीष्म उवाच:
तमाक्रम्यानय़ामास प्रतिषिद्धो यमेन यः ||
९ ख
भीष्म उवाच:
तस्मै यमः समुत्थाय़ पूजां कृत्वा च वीर्यवान् |
१० क
भीष्म उवाच:
प्रोवाच नीय़तामेष सोऽन्य आनीय़तामिति ||
१० ख
भीष्म उवाच:
एवमुक्ते तु वचने धर्मराजेन स द्विजः |
११ क
भीष्म उवाच:
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै |
११ ख
भीष्म उवाच:
यो मे कालो भवेच्छेषस्तं वसेय़मिहाच्युत ||
११ ग
यम उवाच:
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन |
१२ क
यम उवाच:
यो हि धर्मं चरति वै तं तु जानामि केवलम् ||
१२ ख
यम उवाच:
गच्छ विप्र त्वमद्यैव आलय़ं स्वं महाद्युते |
१३ क
यम उवाच:
व्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ||
१३ ख
व्राह्मण उवाच:
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्व्रवीहि मे |
१४ क
व्राह्मण उवाच:
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ||
१४ ख
यम उवाच:
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् |
१५ क
यम उवाच:
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ||
१५ ख
यम उवाच:
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ |
१६ क
यम उवाच:
नित्यदानात्सर्वकामांस्तिला निर्वर्तय़न्त्युत ||
१६ ख
यम उवाच:
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् |
१७ क
यम उवाच:
तान्प्रय़च्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ||
१७ ख
यम उवाच:
तिला भक्षय़ितव्याश्च सदा त्वालभनं च तैः |
१८ क
यम उवाच:
कार्यं सततमिच्छद्भिः श्रेय़ः सर्वात्मना गृहे ||
१८ ख
यम उवाच:
तथापः सर्वदा देय़ाः पेय़ाश्चैव न संशय़ः |
१९ क
यम उवाच:
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानय़ेत् ||
१९ ख
यम उवाच:
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम |
२० क
यम उवाच:
आपो नित्यं प्रदेय़ास्ते पुण्यं ह्येतदनुत्तमम् ||
२० ख
यम उवाच:
प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम |
२१ क
यम उवाच:
भुक्तेऽप्यथ प्रदेय़ं ते पानीय़ं वै विशेषतः ||
२१ ख
यम उवाच:
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् |
२२ क
यम उवाच:
नीतश्चकार च तथा सर्वं तद्यमशासनम् ||
२२ ख
यम उवाच:
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा |
२३ क
यम उवाच:
यय़ौ स धर्मराजाय़ न्यवेदय़त चापि तम् ||
२३ ख
यम उवाच:
तं धर्मराजो धर्मज्ञं पूजय़ित्वा प्रतापवान् |
२४ क
यम उवाच:
कृत्वा च संविदं तेन विससर्ज यथागतम् ||
२४ ख
यम उवाच:
तस्यापि च यमः सर्वमुपदेशं चकार ह |
२५ क
यम उवाच:
प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ||
२५ ख
यम उवाच:
तथा प्रशंसते दीपान्यमः पितृहितेप्सय़ा |
२६ क
यम उवाच:
तस्माद्दीपप्रदो नित्यं सन्तारय़ति वै पितॄन् ||
२६ ख
यम उवाच:
दातव्याः सततं दीपास्तस्माद्भरतसत्तम |
२७ क
यम उवाच:
देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ||
२७ ख
यम उवाच:
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप |
२८ क
यम उवाच:
तानि विक्रीय़ यजते व्राह्मणो ह्यभय़ङ्करः ||
२८ ख
यम उवाच:
यद्वै ददाति विप्रेभ्यो व्राह्मणः प्रतिगृह्य वै |
२९ क
यम उवाच:
उभय़ोः स्यात्तदक्षय़्यं दातुरादातुरेव च ||
२९ ख
यम उवाच:
यो ददाति स्थितः स्थित्यां तादृशाय़ प्रतिग्रहम् |
३० क
यम उवाच:
उभय़ोरक्षय़ं धर्मं तं मनुः प्राह धर्मवित् ||
३० ख
यम उवाच:
वाससां तु प्रदानेन स्वदारनिरतो नरः |
३१ क
यम उवाच:
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ||
३१ ख
यम उवाच:
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः |
३२ क
यम उवाच:
वहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ||
३२ ख
यम उवाच:
विवाहांश्चैव कुर्वीत पुत्रानुत्पादय़ेत च |
३३ क
यम उवाच:
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ||
३३ ख