chevron_left सभा पर्व अध्याय ६७
वैशम्पाय़न उवाच:
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् |
१ क
वैशम्पाय़न उवाच:
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ||
१ ख
वैशम्पाय़न उवाच:
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर |
२ क
वैशम्पाय़न उवाच:
एहि पाण्डव दीव्येति पिता त्वामाह भारत ||
२ ख
युधिष्ठिर उवाच:
धातुर्निय़ोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् |
३ क
युधिष्ठिर उवाच:
न निवृत्तिस्तय़ोरस्ति देवितव्यं पुनर्यदि ||
३ ख
युधिष्ठिर उवाच:
अक्षद्यूते समाह्वानं निय़ोगात्स्थविरस्य च |
४ क
युधिष्ठिर उवाच:
जानन्नपि क्षय़करं नातिक्रमितुमुत्सहे ||
४ ख
वैशम्पाय़न उवाच:
इति व्रुवन्निववृते भ्रातृभिः सह पाण्डवः |
५ क
वैशम्पाय़न उवाच:
जानंश्च शकुनेर्माय़ां पार्थो द्यूतमिय़ात्पुनः ||
५ ख
वैशम्पाय़न उवाच:
विविशुस्ते सभां तां तु पुनरेव महारथाः |
६ क
वैशम्पाय़न उवाच:
व्यथय़न्ति स्म चेतांसि सुहृदां भरतर्षभाः ||
६ ख
वैशम्पाय़न उवाच:
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तय़े |
७ क
वैशम्पाय़न उवाच:
सर्वलोकविनाशाय़ दैवेनोपनिपीडिताः ||
७ ख
शकुनिरु उवाच:
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् |
८ क
शकुनिरु उवाच:
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ||
८ ख
शकुनिरु उवाच:
वय़ं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः |
९ क
शकुनिरु उवाच:
प्रविशेम महारण्यं रौरवाजिनवाससः ||
९ ख
शकुनिरु उवाच:
त्रय़ोदशं च सजने अज्ञाताः परिवत्सरम् |
१० क
शकुनिरु उवाच:
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||
१० ख
शकुनिरु उवाच:
अस्माभिर्वा जिता यूय़ं वने वर्षाणि द्वादश |
११ क
शकुनिरु उवाच:
वसध्वं कृष्णय़ा सार्धमजिनैः प्रतिवासिताः ||
११ ख
शकुनिरु उवाच:
त्रय़ोदशे च निर्वृत्ते पुनरेव यथोचितम् |
१२ क
शकुनिरु उवाच:
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ||
१२ ख
शकुनिरु उवाच:
अनेन व्यवसाय़ेन सहास्माभिर्युधिष्ठिर |
१३ क
शकुनिरु उवाच:
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ||
१३ ख
सभासद ऊचुः:
अहो धिग्वान्धवा नैनं वोधय़न्ति महद्भय़म् |
१४ क
सभासद ऊचुः:
वुद्ध्या वोध्यं न वुध्यन्ते स्वय़ं च भरतर्षभाः ||
१४ ख
वैशम्पाय़न उवाच:
जनप्रवादान्सुवहूनिति शृण्वन्नराधिपः |
१५ क
वैशम्पाय़न उवाच:
ह्रिय़ा च धर्मसङ्गाच्च पार्थो द्यूतमिय़ात्पुनः ||
१५ ख
वैशम्पाय़न उवाच:
जानन्नपि महावुद्धिः पुनर्द्यूतमवर्तय़त् |
१६ क
वैशम्पाय़न उवाच:
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तय़न् ||
१६ ख
युधिष्ठिर उवाच:
कथं वै मद्विधो राजा स्वधर्ममनुपालय़न् |
१७ क
युधिष्ठिर उवाच:
आहूतो विनिवर्तेत दीव्यामि शकुने त्वय़ा ||
१७ ख
शकुनिरु उवाच:
गवाश्वं वहुधेनूकमपर्यन्तमजाविकम् |
१८ क
शकुनिरु उवाच:
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ||
१८ ख
शकुनिरु उवाच:
एष नो ग्लह एवैको वनवासाय़ पाण्डवाः |
१९ क
शकुनिरु उवाच:
यूय़ं वय़ं वा विजिता वसेम वनमाश्रिताः ||
१९ ख
शकुनिरु उवाच:
अनेन व्यवसाय़ेन दीव्याम भरतर्षभ |
२० क
शकुनिरु उवाच:
समुत्क्षेपेण चैकेन वनवासाय़ भारत ||
२० ख
वैशम्पाय़न उवाच:
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौवलः |
२१ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२१ ख