chevron_left वन पर्व अध्याय ६७
दमय़न्त्यु उवाच:
मां चेदिच्छसि जीवन्तीं मातः सत्यं व्रवीमि ते |
१ क
दमय़न्त्यु उवाच:
नरवीरस्य वै तस्य नलस्यानय़ने यत ||
१ ख
वृहदश्व उवाच:
दमय़न्त्या तथोक्ता तु सा देवी भृशदुःखिता |
२ क
वृहदश्व उवाच:
वाष्पेण पिहिता राजन्नोत्तरं किञ्चिदव्रवीत् ||
२ ख
वृहदश्व उवाच:
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा |
३ क
वृहदश्व उवाच:
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ||
३ ख
वृहदश्व उवाच:
ततो भीमं महाराज भार्या वचनमव्रवीत् |
४ क
वृहदश्व उवाच:
दमय़न्ती तव सुता भर्तारमनुशोचति ||
४ ख
वृहदश्व उवाच:
अपकृष्य च लज्जां मां स्वय़मुक्तवती नृप |
५ क
वृहदश्व उवाच:
प्रय़तन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ||
५ ख
वृहदश्व उवाच:
तय़ा प्रचोदितो राजा व्राह्मणान्वशवर्तिनः |
६ क
वृहदश्व उवाच:
प्रास्थापय़द्दिशः सर्वा यतध्वं नलदर्शने ||
६ ख
वृहदश्व उवाच:
ततो विदर्भाधिपतेर्निय़ोगाद्व्राह्मणर्षभाः |
७ क
वृहदश्व उवाच:
दमय़न्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाव्रुवन् ||
७ ख
वृहदश्व उवाच:
अथ तानव्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः |
८ क
वृहदश्व उवाच:
व्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ||
८ ख
वृहदश्व उवाच:
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम |
९ क
वृहदश्व उवाच:
उत्सृज्य विपिने सुप्तामनुरक्तां प्रिय़ां प्रिय़ ||
९ ख
वृहदश्व उवाच:
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी |
१० क
वृहदश्व उवाच:
दह्यमाना भृशं वाला वस्त्रार्धेनाभिसंवृता ||
१० ख
वृहदश्व उवाच:
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव |
११ क
वृहदश्व उवाच:
प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ||
११ ख
वृहदश्व उवाच:
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मय़ि |
१२ क
वृहदश्व उवाच:
वाय़ुना धूय़मानो हि वनं दहति पावकः ||
१२ ख
वृहदश्व उवाच:
भर्तव्या रक्षणीय़ा च पत्नी हि पतिना सदा |
१३ क
वृहदश्व उवाच:
तन्नष्टमुभय़ं कस्माद्धर्मज्ञस्य सतस्तव ||
१३ ख
वृहदश्व उवाच:
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा |
१४ क
वृहदश्व उवाच:
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षय़ात् ||
१४ ख
वृहदश्व उवाच:
स कुरुष्व महेष्वास दय़ां मय़ि नरर्षभ |
१५ क
वृहदश्व उवाच:
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ||
१५ ख
वृहदश्व उवाच:
एवं व्रुवाणान्यदि वः प्रतिव्रूय़ाद्धि कश्चन |
१६ क
वृहदश्व उवाच:
स नरः सर्वथा ज्ञेय़ः कश्चासौ क्व च वर्तते ||
१६ ख
वृहदश्व उवाच:
यच्च वो वचनं श्रुत्वा व्रूय़ात्प्रतिवचो नरः |
१७ क
वृहदश्व उवाच:
तदादाय़ वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ||
१७ ख
वृहदश्व उवाच:
यथा च वो न जानीय़ाच्चरतो भीमशासनात् |
१८ क
वृहदश्व उवाच:
पुनरागमनं चैव तथा कार्यमतन्द्रितैः ||
१८ ख
वृहदश्व उवाच:
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् |
१९ क
वृहदश्व उवाच:
यदि वाप्यर्थकामः स्याज्ज्ञेय़मस्य चिकीर्षितम् ||
१९ ख
वृहदश्व उवाच:
एवमुक्तास्त्वगच्छंस्ते व्राह्मणाः सर्वतोदिशम् |
२० क
वृहदश्व उवाच:
नलं मृगय़ितुं राजंस्तथा व्यसनिनं तदा ||
२० ख
वृहदश्व उवाच:
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् |
२१ क
वृहदश्व उवाच:
अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातय़ः ||
२१ ख
वृहदश्व उवाच:
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते |
२२ क
वृहदश्व उवाच:
श्रावय़ां चक्रिरे विप्रा दमय़न्त्या यथेरितम् ||
२२ ख