विराट उवाच:
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम |
१ क
विराट उवाच:
प्रतिग्रहीतुं नेमां त्वं मय़ा दत्तामिहेच्छसि ||
१ ख
अर्जुन उवाच:
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव |
२ क
अर्जुन उवाच:
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मय़ि ||
२ ख
अर्जुन उवाच:
प्रिय़ो वहुमतश्चाहं नर्तको गीतकोविदः |
३ क
अर्जुन उवाच:
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ||
३ ख
अर्जुन उवाच:
वय़ःस्थय़ा तय़ा राजन्सह संवत्सरोषितः |
४ क
अर्जुन उवाच:
अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ||
४ ख
अर्जुन उवाच:
तस्मान्निमन्त्रय़े त्वाहं दुहितुः पृथिवीपते |
५ क
अर्जुन उवाच:
शुद्धो जितेन्द्रिय़ो दान्तस्तस्याः शुद्धिः कृता मय़ा ||
५ ख
अर्जुन उवाच:
स्नुषाय़ा दुहितुर्वापि पुत्रे चात्मनि वा पुनः |
६ क
अर्जुन उवाच:
अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ||
६ ख
अर्जुन उवाच:
अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप |
७ क
अर्जुन उवाच:
स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ||
७ ख
अर्जुन उवाच:
स्वस्रीय़ो वासुदेवस्य साक्षाद्देवशिशुर्यथा |
८ क
अर्जुन उवाच:
दय़ितश्चक्रहस्तस्य वाल एवास्त्रकोविदः ||
८ ख
अर्जुन उवाच:
अभिमन्युर्महावाहुः पुत्रो मम विशां पते |
९ क
अर्जुन उवाच:
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ||
९ ख
विराट उवाच:
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जय़े |
१० क
विराट उवाच:
य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ||
१० ख
विराट उवाच:
यत्कृत्यं मन्यसे पार्थ क्रिय़तां तदनन्तरम् |
११ क
विराट उवाच:
सर्वे कामाः समृद्धा मे सम्वन्धी यस्य मेऽर्जुनः ||
११ ख
वैशम्पाय़न उवाच:
एवं व्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः |
१२ क
वैशम्पाय़न उवाच:
अन्वजानात्स संय़ोगं समय़े मत्स्यपार्थय़ोः ||
१२ ख
वैशम्पाय़न उवाच:
ततो मित्रेषु सर्वेषु वासुदेवे च भारत |
१३ क
वैशम्पाय़न उवाच:
प्रेषय़ामास कौन्तेय़ो विराटश्च महीपतिः ||
१३ ख
वैशम्पाय़न उवाच:
ततस्त्रय़ोदशे वर्षे निवृत्ते पञ्च पाण्डवाः |
१४ क
वैशम्पाय़न उवाच:
उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ||
१४ ख
वैशम्पाय़न उवाच:
तस्मिन्वसंश्च वीभत्सुरानिनाय़ जनार्दनम् |
१५ क
वैशम्पाय़न उवाच:
आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ||
१५ ख
वैशम्पाय़न उवाच:
काशिराजश्च शैव्यश्च प्रीय़माणौ युधिष्ठिरे |
१६ क
वैशम्पाय़न उवाच:
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ||
१६ ख
वैशम्पाय़न उवाच:
अक्षौहिण्या च तेजस्वी यज्ञसेनो महावलः |
१७ क
वैशम्पाय़न उवाच:
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ||
१७ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः |
१८ क
वैशम्पाय़न उवाच:
समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः |
१८ ख
वैशम्पाय़न उवाच:
सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ||
१८ ग
वैशम्पाय़न उवाच:
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः |
१९ क
वैशम्पाय़न उवाच:
प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ||
१९ ख
वैशम्पाय़न उवाच:
ततः प्रत्युपय़ातेषु पार्थिवेषु ततस्ततः |
२० क
वैशम्पाय़न उवाच:
तत्रागमद्वासुदेवो वनमाली हलाय़ुधः |
२० ख
वैशम्पाय़न उवाच:
कृतवर्मा च हार्दिक्यो युय़ुधानश्च सात्यकिः ||
२० ग
वैशम्पाय़न उवाच:
अनाधृष्टिस्तथाक्रूरः साम्वो निशठ एव च |
२१ क
वैशम्पाय़न उवाच:
अभिमन्युमुपादाय़ सह मात्रा परन्तपाः ||
२१ ख
वैशम्पाय़न उवाच:
इन्द्रसेनादय़श्चैव रथैस्तैः सुसमाहितैः |
२२ क
वैशम्पाय़न उवाच:
आय़युः सहिताः सर्वे परिसंवत्सरोषिताः ||
२२ ख
वैशम्पाय़न उवाच:
दश नागसहस्राणि हय़ानां च शताय़ुतम् |
२३ क
वैशम्पाय़न उवाच:
रथानामर्वुदं पूर्णं निखर्वं च पदातिनाम् ||
२३ ख
वैशम्पाय़न उवाच:
वृष्ण्यन्धकाश्च वहवो भोजाश्च परमौजसः |
२४ क
वैशम्पाय़न उवाच:
अन्वय़ुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ||
२४ ख
वैशम्पाय़न उवाच:
पारिवर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् |
२५ क
वैशम्पाय़न उवाच:
स्त्रिय़ो रत्नानि वासांसि पृथक्पृथगनेकशः |
२५ ख
वैशम्पाय़न उवाच:
ततो विवाहो विधिवद्ववृते मत्स्यपार्थय़ोः ||
२५ ग
वैशम्पाय़न उवाच:
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्वरास्तथा |
२६ क
वैशम्पाय़न उवाच:
पार्थैः संय़ुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ||
२६ ख
वैशम्पाय़न उवाच:
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् |
२७ क
वैशम्पाय़न उवाच:
सुरामैरेय़पानानि प्रभूतान्यभ्यहारय़न् ||
२७ ख
वैशम्पाय़न उवाच:
गाय़नाख्यानशीलाश्च नटा वैतालिकास्तथा |
२८ क
वैशम्पाय़न उवाच:
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ||
२८ ख
वैशम्पाय़न उवाच:
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रिय़ः |
२९ क
वैशम्पाय़न उवाच:
आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ||
२९ ख
वैशम्पाय़न उवाच:
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः |
३० क
वैशम्पाय़न उवाच:
सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिय़ा ||
३० ख
वैशम्पाय़न उवाच:
परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् |
३१ क
वैशम्पाय़न उवाच:
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ||
३१ ख
वैशम्पाय़न उवाच:
तां प्रत्यगृह्णात्कौन्तेय़ः सुतस्यार्थे धनञ्जय़ः |
३२ क
वैशम्पाय़न उवाच:
सौभद्रस्यानवद्याङ्गीं विराटतनय़ां तदा ||
३२ ख
वैशम्पाय़न उवाच:
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारय़न् |
३३ क
वैशम्पाय़न उवाच:
स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ||
३३ ख
वैशम्पाय़न उवाच:
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् |
३४ क
वैशम्पाय़न उवाच:
विवाहं कारय़ामास सौभद्रस्य महात्मनः ||
३४ ख
वैशम्पाय़न उवाच:
तस्मै सप्त सहस्राणि हय़ानां वातरंहसाम् |
३५ क
वैशम्पाय़न उवाच:
द्वे च नागशते मुख्ये प्रादाद्वहु धनं तदा ||
३५ ख
वैशम्पाय़न उवाच:
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः |
३६ क
वैशम्पाय़न उवाच:
व्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ||
३६ ख
वैशम्पाय़न उवाच:
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च |
३७ क
वैशम्पाय़न उवाच:
भूषणानि च मुख्यानि यानानि शय़नानि च ||
३७ ख
वैशम्पाय़न उवाच:
तन्महोत्सवसङ्काशं हृष्टपुष्टजनावृतम् |
३८ क
वैशम्पाय़न उवाच:
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ||
३८ ख