धृतराष्ट्र उवाच:
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् |
१ क
धृतराष्ट्र उवाच:
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय़ ||
१ ख
सञ्जय़ उवाच:
विद्या राजन्न ते विद्या मम विद्या न हीय़ते |
२ क
सञ्जय़ उवाच:
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ||
२ ख
सञ्जय़ उवाच:
विद्यया तात जानामि त्रिय़ुगं मधुसूदनम् |
३ क
सञ्जय़ उवाच:
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ||
३ ख
धृतराष्ट्र उवाच:
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने |
४ क
धृतराष्ट्र उवाच:
यय़ा त्वमभिजानासि त्रिय़ुगं मधुसूदनम् ||
४ ख
सञ्जय़ उवाच:
माय़ां न सेवे भद्रं ते न वृथाधर्ममाचरे |
५ क
सञ्जय़ उवाच:
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ||
५ ख
धृतराष्ट्र उवाच:
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् |
६ क
धृतराष्ट्र उवाच:
आप्तो नः सञ्जय़स्तात शरणं गच्छ केशवम् ||
६ ख
दुर्योधन उवाच:
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति |
७ क
दुर्योधन उवाच:
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ||
७ ख
धृतराष्ट्र उवाच:
अवाग्गान्धारि पुत्रास्ते गच्छत्येष सुदुर्मतिः |
८ क
धृतराष्ट्र उवाच:
ईर्ष्युर्दुरात्मा मानी च श्रेय़सां वचनातिगः ||
८ ख
गान्धार्यु उवाच:
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग |
९ क
गान्धार्यु उवाच:
ऐश्वर्यजीविते हित्वा पितरं मां च वालिश ||
९ ख
गान्धार्यु उवाच:
वर्धय़न्दुर्हृदां प्रीतिं मां च शोकेन वर्धय़न् |
१० क
गान्धार्यु उवाच:
निहतो भीमसेनेन स्मर्तासि वचनं पितुः ||
१० ख
व्यास उवाच:
दय़ितोऽसि राजन्कृष्णस्य धृतराष्ट्र निवोध मे |
११ क
व्यास उवाच:
यस्य ते सञ्जय़ो दूतो यस्त्वां श्रेय़सि योक्ष्यते ||
११ ख
व्यास उवाच:
जानात्येष हृषीकेशं पुराणं यच्च वै नवम् |
१२ क
व्यास उवाच:
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भय़ात् ||
१२ ख
व्यास उवाच:
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः |
१३ क
व्यास उवाच:
सिता वहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ||
१३ ख
व्यास उवाच:
यमस्य वशमाय़ान्ति काममूढाः पुनः पुनः |
१४ क
व्यास उवाच:
अन्धनेत्रा यथैवान्धा नीय़मानाः स्वकर्मभिः ||
१४ ख
व्यास उवाच:
एष एकाय़नः पन्था येन यान्ति मनीषिणः |
१५ क
व्यास उवाच:
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ||
१५ ख
धृतराष्ट्र उवाच:
अङ्ग सञ्जय़ मे शंस पन्थानमकुतोभय़म् |
१६ क
धृतराष्ट्र उवाच:
येन गत्वा हृषीकेशं प्राप्नुय़ां शान्तिमुत्तमाम् ||
१६ ख
सञ्जय़ उवाच:
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् |
१७ क
सञ्जय़ उवाच:
आत्मनस्तु क्रिय़ोपाय़ो नान्यत्रेन्द्रिय़निग्रहात् ||
१७ ख
सञ्जय़ उवाच:
इन्द्रिय़ाणामुदीर्णानां कामत्यागोऽप्रमादतः |
१८ क
सञ्जय़ उवाच:
अप्रमादोऽविहिंसा च ज्ञानय़ोनिरसंशय़म् ||
१८ ख
सञ्जय़ उवाच:
इन्द्रिय़ाणां यमे यत्तो भव राजन्नतन्द्रितः |
१९ क
सञ्जय़ उवाच:
वुद्धिश्च मा ते च्यवतु निय़च्छैतां यतस्ततः ||
१९ ख
सञ्जय़ उवाच:
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रिय़धारणम् |
२० क
सञ्जय़ उवाच:
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ||
२० ख
सञ्जय़ उवाच:
अप्राप्यः केशवो राजन्निन्द्रिय़ैरजितैर्नृभिः |
२१ क
सञ्जय़ उवाच:
आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ||
२१ ख