chevron_left भीष्म पर्व अध्याय ६७
सञ्जय़ उवाच:
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् |
१ क
सञ्जय़ उवाच:
तमभ्यधावद्गाङ्गेय़मुद्यतास्त्रो धनञ्जय़ः ||
१ ख
सञ्जय़ उवाच:
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च |
२ क
सञ्जय़ उवाच:
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भय़माविशत् ||
२ ख
सञ्जय़ उवाच:
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् |
३ क
सञ्जय़ उवाच:
वहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् |
३ ख
सञ्जय़ उवाच:
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ||
३ ग
सञ्जय़ उवाच:
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्वरे |
४ क
सञ्जय़ उवाच:
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ||
४ ख
सञ्जय़ उवाच:
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः |
५ क
सञ्जय़ उवाच:
सुघोरं तलय़ोः शव्दं निघ्नतस्तव वाहिनीम् ||
५ ख
सञ्जय़ उवाच:
चण्डवातो यथा मेघः सविद्युत्स्तनय़ित्नुमान् |
६ क
सञ्जय़ उवाच:
दिशः सम्प्लावय़न्सर्वाः शरवर्षैः समन्ततः ||
६ ख
सञ्जय़ उवाच:
अभ्यधावत गाङ्गेय़ं भैरवास्त्रो धनञ्जय़ः |
७ क
सञ्जय़ उवाच:
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ||
७ ख
सञ्जय़ उवाच:
कान्दिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः |
८ क
सञ्जय़ उवाच:
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ||
८ ख
सञ्जय़ उवाच:
भीष्ममेवाभिलीय़न्त सह सर्वैस्तवात्मजैः |
९ क
सञ्जय़ उवाच:
तेषामार्ताय़नमभूद्भीष्मः शन्तनवो रणे ||
९ ख
सञ्जय़ उवाच:
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा |
१० क
सञ्जय़ उवाच:
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातय़ः ||
१० ख
सञ्जय़ उवाच:
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः |
११ क
सञ्जय़ उवाच:
सर्वसैन्यानि भीतानि व्यवलीय़न्त भारत ||
११ ख
सञ्जय़ उवाच:
अथ काम्वोजमुख्यैस्तु वृहद्भिः शीघ्रगामिभिः |
१२ क
सञ्जय़ उवाच:
गोपानां वहुसाहस्रैर्वलैर्गोवासनो वृतः ||
१२ ख
सञ्जय़ उवाच:
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते |
१३ क
सञ्जय़ उवाच:
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ||
१३ ख
सञ्जय़ उवाच:
नागा नरगणौघाश्च दुःशासनपुरःसराः |
१४ क
सञ्जय़ उवाच:
जय़द्रथश्च नृपतिः सहितः सर्वराजभिः ||
१४ ख
सञ्जय़ उवाच:
हय़ारोहवराश्चैव तव पुत्रेण चोदिताः |
१५ क
सञ्जय़ उवाच:
चतुर्दश सहस्राणि सौवलं पर्यवारय़न् ||
१५ ख
सञ्जय़ उवाच:
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः |
१६ क
सञ्जय़ उवाच:
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ||
१६ ख
सञ्जय़ उवाच:
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् |
१७ क
सञ्जय़ उवाच:
घोरमाय़ोधनं जज्ञे महाभ्रसदृशं रजः ||
१७ ख
सञ्जय़ उवाच:
तोमरप्रासनाराचगजाश्वरथय़ोधिनाम् |
१८ क
सञ्जय़ उवाच:
वलेन महता भीष्मः समसज्जत्किरीटिना ||
१८ ख
सञ्जय़ उवाच:
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः |
१९ क
सञ्जय़ उवाच:
अजातशत्रुर्मद्राणामृषभेण यशस्विना |
१९ ख
सञ्जय़ उवाच:
सहपुत्रः सहामात्यः शल्येन समसज्जत ||
१९ ग
सञ्जय़ उवाच:
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना |
२० क
सञ्जय़ उवाच:
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ||
२० ख
सञ्जय़ उवाच:
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः |
२१ क
सञ्जय़ उवाच:
द्रोणेन समसज्जन्त सपुत्रेण महात्मना |
२१ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ||
२१ ग
सञ्जय़ उवाच:
एवं प्रजविताश्वानि भ्रान्तनागरथानि च |
२२ क
सञ्जय़ उवाच:
सैन्यानि समसज्जन्त प्रय़ुद्धानि समन्ततः ||
२२ ख
सञ्जय़ उवाच:
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः |
२३ क
सञ्जय़ उवाच:
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ||
२३ ख
सञ्जय़ उवाच:
प्रववौ च महावातः पांसुवर्षं पपात च |
२४ क
सञ्जय़ उवाच:
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ||
२४ ख
सञ्जय़ उवाच:
प्रमोहः सर्वसत्त्वानामतीव समपद्यत |
२५ क
सञ्जय़ उवाच:
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ||
२५ ख
सञ्जय़ उवाच:
वीरवाहुविसृष्टानां सर्वावरणभेदिनाम् |
२६ क
सञ्जय़ उवाच:
सङ्घातः शरजालानां तुमुलः समपद्यत ||
२६ ख
सञ्जय़ उवाच:
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः |
२७ क
सञ्जय़ उवाच:
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ||
२७ ख
सञ्जय़ उवाच:
आर्षभाणि विचित्राणि रुक्मजालावृतानि च |
२८ क
सञ्जय़ उवाच:
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ||
२८ ख
सञ्जय़ उवाच:
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः |
२९ क
सञ्जय़ उवाच:
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ||
२९ ख
सञ्जय़ उवाच:
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः |
३० क
सञ्जय़ उवाच:
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ||
३० ख
सञ्जय़ उवाच:
परिपेतुर्हय़ाश्चात्र केचिच्छस्त्रकृतव्रणाः |
३१ क
सञ्जय़ उवाच:
रथान्विपरिकर्षन्तो हतेषु रथय़ोधिषु ||
३१ ख
सञ्जय़ उवाच:
शराहता भिन्नदेहा वद्धय़ोक्त्रा हय़ोत्तमाः |
३२ क
सञ्जय़ उवाच:
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ||
३२ ख
सञ्जय़ उवाच:
अदृश्यन्त ससूताश्च साश्वाः सरथय़ोधिनः |
३३ क
सञ्जय़ उवाच:
एकेन वलिना राजन्वारणेन हता रथाः ||
३३ ख
सञ्जय़ उवाच:
गन्धहस्तिमदस्रावमाघ्राय़ वहवो रणे |
३४ क
सञ्जय़ उवाच:
संनिपाते वलौघानां वीतमाददिरे गजाः ||
३४ ख
सञ्जय़ उवाच:
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः |
३५ क
सञ्जय़ उवाच:
वभूवाय़ोधनं छन्नं नाराचाभिहतैर्गजैः ||
३५ ख
सञ्जय़ उवाच:
संनिपाते वलौघानां प्रेषितैर्वरवारणैः |
३६ क
सञ्जय़ उवाच:
निपेतुर्युधि सम्भग्नाः सय़ोधाः सध्वजा रथाः ||
३६ ख
सञ्जय़ उवाच:
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संय़ुगे |
३७ क
सञ्जय़ उवाच:
व्यदृश्यन्त महाराज सम्भग्ना रथकूवराः ||
३७ ख
सञ्जय़ उवाच:
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः |
३८ क
सञ्जय़ उवाच:
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ||
३८ ख
सञ्जय़ उवाच:
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः |
३९ क
सञ्जय़ उवाच:
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशव्दगाः ||
३९ ख
सञ्जय़ उवाच:
तेषां तथा कर्षतां च गजानां रूपमावभौ |
४० क
सञ्जय़ उवाच:
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ||
४० ख
सञ्जय़ उवाच:
एवं सञ्छादितं तत्र वभूवाय़ोधनं महत् |
४१ क
सञ्जय़ उवाच:
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ||
४१ ख