chevron_left द्रोण पर्व अध्याय ६७
सञ्जय़ उवाच:
संनिरुद्धस्तु तैः पार्थो महावलपराक्रमः |
१ क
सञ्जय़ उवाच:
द्रुतं समनुय़ातश्च द्रोणेन रथिनां वरः ||
१ ख
सञ्जय़ उवाच:
किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः |
२ क
सञ्जय़ उवाच:
तापय़ामास तत्सैन्यं देहं व्याधिगणो यथा ||
२ ख
सञ्जय़ उवाच:
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः |
३ क
सञ्जय़ उवाच:
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ||
३ ख
सञ्जय़ उवाच:
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः |
४ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलं युद्धं न प्राज्ञाय़त किञ्चन ||
४ ख
सञ्जय़ उवाच:
तेषामाय़च्छतां सङ्ख्ये परस्परमजिह्मगैः |
५ क
सञ्जय़ उवाच:
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पय़त् ||
५ ख
सञ्जय़ उवाच:
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः |
६ क
सञ्जय़ उवाच:
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ||
६ ख
सञ्जय़ उवाच:
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः |
७ क
सञ्जय़ उवाच:
अन्तेवासिनमाचार्यो महेष्वासं समर्दय़त् ||
७ ख
सञ्जय़ उवाच:
तं तूर्णमिव वीभत्सुः सर्वशस्त्रभृतां वरः |
८ क
सञ्जय़ उवाच:
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ||
८ ख
सञ्जय़ उवाच:
तस्याशु क्षिपतो भल्लान्भल्लैः संनतपर्वभिः |
९ क
सञ्जय़ उवाच:
प्रत्यविध्यदमेय़ात्मा व्रह्मास्त्रं समुदीरय़न् ||
९ ख
सञ्जय़ उवाच:
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि |
१० क
सञ्जय़ उवाच:
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ||
१० ख
सञ्जय़ उवाच:
क्षरन्निव महामेघो वारिधाराः सहस्रशः |
११ क
सञ्जय़ उवाच:
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ||
११ ख
सञ्जय़ उवाच:
अर्जुनः शरवर्षं तद्व्रह्मास्त्रेणैव मारिष |
१२ क
सञ्जय़ उवाच:
प्रतिजग्राह तेजस्वी वाणैर्वाणान्विशातय़न् ||
१२ ख
सञ्जय़ उवाच:
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दय़त् |
१३ क
सञ्जय़ उवाच:
वासुदेवं च सप्तत्या वाह्वोरुरसि चाशुगैः ||
१३ ख
सञ्जय़ उवाच:
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् |
१४ क
सञ्जय़ उवाच:
विसृजन्तं शितान्वाणानवारय़त तं युधि ||
१४ ख
सञ्जय़ उवाच:
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ |
१५ क
सञ्जय़ उवाच:
आवर्जय़ेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ||
१५ ख
सञ्जय़ उवाच:
वर्जय़न्निशितान्वाणान्द्रोणचापविनिःसृतान् |
१६ क
सञ्जय़ उवाच:
किरीटमाली कौन्तेय़ो भोजानीकं न्यपातय़त् ||
१६ ख
सञ्जय़ उवाच:
सोऽन्तरा कृतवर्माणं काम्वोजं च सुदक्षिणम् |
१७ क
सञ्जय़ उवाच:
अभ्ययाद्वर्जय़न्द्रोणं मैनाकमिव पर्वतम् ||
१७ ख
सञ्जय़ उवाच:
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम |
१८ क
सञ्जय़ उवाच:
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ||
१८ ख
सञ्जय़ उवाच:
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा |
१९ क
सञ्जय़ उवाच:
पुनश्चान्यैस्त्रिभिर्वाणैर्मोहय़न्निव सात्वतम् ||
१९ ख
सञ्जय़ उवाच:
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् |
२० क
सञ्जय़ उवाच:
एकैकं पञ्चविंशत्या साय़कानां समार्पय़त् ||
२० ख
सञ्जय़ उवाच:
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः |
२१ क
सञ्जय़ उवाच:
शरैरग्निशिखाकारैः क्रुद्धाशीविषसंनिभैः ||
२१ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ कृतवर्मा महारथः |
२२ क
सञ्जय़ उवाच:
पञ्चभिः साय़कैस्तूर्णं विव्याधोरसि भारत ||
२२ ख
सञ्जय़ उवाच:
पुनश्च निशितैर्वाणैः पार्थं विव्याध पञ्चभिः |
२३ क
सञ्जय़ उवाच:
तं पार्थो नवभिर्वाणैराजघान स्तनान्तरे ||
२३ ख
सञ्जय़ उवाच:
विषक्तं दृश्य कौन्तेय़ं कृतवर्मरथं प्रति |
२४ क
सञ्जय़ उवाच:
चिन्तय़ामास वार्ष्णेय़ो न नः कालात्ययो भवेत् ||
२४ ख
सञ्जय़ उवाच:
ततः कृष्णोऽव्रवीत्पार्थं कृतवर्मणि मा दय़ाम् |
२५ क
सञ्जय़ उवाच:
कुरुसाम्वन्धिकं कृत्वा प्रमथ्यैनं विशातय़ ||
२५ ख
सञ्जय़ उवाच:
ततः स कृतवर्माणं मोहय़ित्वार्जुनः शरैः |
२६ क
सञ्जय़ उवाच:
अभ्यगाज्जवनैरश्वैः काम्वोजानामनीकिनीम् ||
२६ ख
सञ्जय़ उवाच:
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने |
२७ क
सञ्जय़ उवाच:
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ||
२७ ख
सञ्जय़ उवाच:
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ |
२८ क
सञ्जय़ उवाच:
पर्यवारय़दाय़ान्तौ कृतवर्मा रथेषुभिः ||
२८ ख
सञ्जय़ उवाच:
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः |
२९ क
सञ्जय़ उवाच:
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ||
२९ ख
सञ्जय़ उवाच:
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः |
३० क
सञ्जय़ उवाच:
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ||
३० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ हार्दिक्यः क्रोधमूर्छितः |
३१ क
सञ्जय़ उवाच:
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ||
३१ ख
सञ्जय़ उवाच:
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः |
३२ क
सञ्जय़ उवाच:
तेनान्तरेण वीभत्सुर्विवेशामित्रवाहिनीम् ||
३२ ख
सञ्जय़ उवाच:
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा |
३३ क
सञ्जय़ उवाच:
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ||
३३ ख
सञ्जय़ उवाच:
अनीकान्यर्दय़न्युद्धे त्वरितः श्वेतवाहनः |
३४ क
सञ्जय़ उवाच:
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ||
३४ ख
सञ्जय़ उवाच:
तं दृष्ट्वा तु तथाय़ान्तं शूरो राजा श्रुताय़ुधः |
३५ क
सञ्जय़ उवाच:
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ||
३५ ख
सञ्जय़ उवाच:
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् |
३६ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडय़त् ||
३६ ख
सञ्जय़ उवाच:
तमर्जुनो नवत्या तु शराणां नतपर्वणाम् |
३७ क
सञ्जय़ उवाच:
आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् ||
३७ ख
सञ्जय़ उवाच:
स तन्न ममृषे राजन्पाण्डवेय़स्य विक्रमम् |
३८ क
सञ्जय़ उवाच:
अथैनं सप्तसप्तत्या नाराचानां समार्पय़त् ||
३८ ख
सञ्जय़ उवाच:
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च |
३९ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ||
३९ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ स राजा क्रोधमूर्छितः |
४० क
सञ्जय़ उवाच:
वासविं नवभिर्वाणैर्वाह्वोरुरसि चार्पय़त् ||
४० ख
सञ्जय़ उवाच:
ततोऽर्जुनः स्मय़न्नेव श्रुताय़ुधमरिन्दमः |
४१ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैः पीडय़ामास भारत ||
४१ ख
सञ्जय़ उवाच:
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः |
४२ क
सञ्जय़ उवाच:
विव्याध चैनं सप्तत्या नाराचानां महावलः ||
४२ ख
सञ्जय़ उवाच:
हताश्वं रथमुत्सृज्य स तु राजा श्रुताय़ुधः |
४३ क
सञ्जय़ उवाच:
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ||
४३ ख
सञ्जय़ उवाच:
वरुणस्यात्मजो वीरः स तु राजा श्रुताय़ुधः |
४४ क
सञ्जय़ उवाच:
पर्णाशा जननी यस्य शीततोय़ा महानदी ||
४४ ख
सञ्जय़ उवाच:
तस्य माताव्रवीद्वाक्यं वरुणं पुत्रकारणात् |
४५ क
सञ्जय़ उवाच:
अवध्योऽय़ं भवेल्लोके शत्रूणां तनय़ो मम ||
४५ ख
सञ्जय़ उवाच:
वरुणस्त्वव्रवीत्प्रीतो ददाम्यस्मै वरं हितम् |
४६ क
सञ्जय़ उवाच:
दिव्यमस्त्रं सुतस्तेऽय़ं यनावध्यो भविष्यति ||
४६ ख
सञ्जय़ उवाच:
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन |
४७ क
सञ्जय़ उवाच:
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ||
४७ ख
सञ्जय़ उवाच:
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा |
४८ क
सञ्जय़ उवाच:
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ||
४८ ख
सञ्जय़ उवाच:
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् |
४९ क
सञ्जय़ उवाच:
यामासाद्य दुराधर्षः सर्वलोके श्रुताय़ुधः ||
४९ ख
सञ्जय़ उवाच:
उवाच चैनं भगवान्पुनरेव जलेश्वरः |
५० क
सञ्जय़ उवाच:
अय़ुध्यति न मोक्तव्या सा त्वय़्येव पतेदिति ||
५० ख