chevron_left कर्ण पर्व अध्याय ६७
सञ्जय़ उवाच:
अथाव्रवीद्वासुदेवो रथस्थो; राधेय़ दिष्ट्या स्मरसीह धर्मम् |
१ क
सञ्जय़ उवाच:
प्राय़ेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत् ||
१ ख
सञ्जय़ उवाच:
यद्द्रौपदीमेकवस्त्रां सभाय़ा; मानाय़्य त्वं चैव सुय़ोधनश्च |
२ क
सञ्जय़ उवाच:
दुःशासनः शकुनिः सौवलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः ||
२ ख
सञ्जय़ उवाच:
यदा सभाय़ां कौन्तेय़मनक्षज्ञं युधिष्ठिरम् |
३ क
सञ्जय़ उवाच:
अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ||
३ ख
सञ्जय़ उवाच:
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् |
४ क
सञ्जय़ उवाच:
सभाय़ां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ||
४ ख
सञ्जय़ उवाच:
राज्यलुव्धः पुनः कर्ण समाह्वय़सि पाण्डवम् |
५ क
सञ्जय़ उवाच:
गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ||
५ ख
सञ्जय़ उवाच:
एवमुक्ते तु राधेय़े वासुदेवेन पाण्डवम् |
६ क
सञ्जय़ उवाच:
मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनञ्जय़म् ||
६ ख
सञ्जय़ उवाच:
तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः |
७ क
सञ्जय़ उवाच:
प्रादुरासन्महाराज तदद्भुतमिवाभवत् ||
७ ख
सञ्जय़ उवाच:
तं समीक्ष्य ततः कर्णो व्रह्मास्त्रेण धनञ्जय़म् |
८ क
सञ्जय़ उवाच:
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने |
८ ख
सञ्जय़ उवाच:
तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ||
८ ग
सञ्जय़ उवाच:
ततोऽन्यदस्त्रं कौन्तेय़ो दय़ितं जातवेदसः |
९ क
सञ्जय़ उवाच:
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ||
९ ख
सञ्जय़ उवाच:
वारुणेन ततः कर्णः शमय़ामास पावकम् |
१० क
सञ्जय़ उवाच:
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ||
१० ख
सञ्जय़ उवाच:
पाण्डवेय़स्त्वसम्भ्रान्तो वाय़व्यास्त्रेण वीर्यवान् |
११ क
सञ्जय़ उवाच:
अपोवाह तदाभ्राणि राधेय़स्य प्रपश्यतः ||
११ ख
सञ्जय़ उवाच:
तं हस्तिकक्ष्याप्रवरं च वाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् |
१२ क
सञ्जय़ उवाच:
कालप्रय़त्नोत्तमशिल्पिय़त्नैः; कृतं सुरूपं वितमस्कमुच्चैः ||
१२ ख
सञ्जय़ उवाच:
ऊर्जस्करं तव सैन्यस्य नित्य; ममित्रवित्रासनमीड्यरूपम् |
१३ क
सञ्जय़ उवाच:
विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः ||
१३ ख
सञ्जय़ उवाच:
ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः |
१४ क
सञ्जय़ उवाच:
श्रिय़ा ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा ||
१४ ख
सञ्जय़ उवाच:
यशश्च धर्मश्च जय़श्च मारिष; प्रिय़ाणि सर्वाणि च तेन केतुना |
१५ क
सञ्जय़ उवाच:
तदा कुरूणां हृदय़ानि चापत; न्वभूव हाहेति च निस्वनो महान् ||
१५ ख
सञ्जय़ उवाच:
अथ त्वरन्कर्णवधाय़ पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् |
१६ क
सञ्जय़ उवाच:
आदत्त पार्थोऽञ्जलिकं निषङ्गा; त्सहस्ररश्मेरिव रश्मिमुत्तमम् ||
१६ ख
सञ्जय़ उवाच:
मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् |
१७ क
सञ्जय़ उवाच:
नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम् ||
१७ ख
सञ्जय़ उवाच:
सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम् |
१८ क
सञ्जय़ उवाच:
पिनाकनाराय़णचक्रसंनिभं; भय़ङ्करं प्राणभृतां विनाशनम् ||
१८ ख
सञ्जय़ उवाच:
युक्त्वा महास्त्रेण परेण मन्त्रवि; द्विकृष्य गाण्डीवमुवाच सस्वनम् |
१९ क
सञ्जय़ उवाच:
अय़ं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः ||
१९ ख
सञ्जय़ उवाच:
तपोऽस्ति तप्तं गुरवश्च तोषिता; मय़ा यदिष्टं सुहृदां तथा श्रुतम् |
२० क
सञ्जय़ उवाच:
अनेन सत्येन निहन्त्वय़ं शरः; सुदंशितः कर्णमरिं ममाजितः ||
२० ख
सञ्जय़ उवाच:
इत्यूचिवांस्तं स मुमोच वाणं; धनञ्जय़ः कर्णवधाय़ घोरम् |
२१ क
सञ्जय़ उवाच:
कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि ||
२१ ख
सञ्जय़ उवाच:
व्रुवन्किरीटी तमतिप्रहृष्टो; अय़ं शरो मे विजय़ावहोऽस्तु |
२२ क
सञ्जय़ उवाच:
जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नय़तां यमाय़ ||
२२ ख
सञ्जय़ उवाच:
तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजय़ावहेन |
२३ क
सञ्जय़ उवाच:
जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमातताय़ी ||
२३ ख
सञ्जय़ उवाच:
तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् |
२४ क
सञ्जय़ उवाच:
वराङ्गमुर्व्यामपतच्चमूपते; र्दिवाकरोऽस्तादिव रक्तमण्डलः ||
२४ ख
सञ्जय़ उवाच:
तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः |
२५ क
सञ्जय़ उवाच:
परेण कृच्छ्रेण शरीरमत्यज; द्गृहं महर्द्धीव ससङ्गमीश्वरः ||
२५ ख
सञ्जय़ उवाच:
शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम् |
२६ क
सञ्जय़ उवाच:
स्रवद्व्रणं गैरिकतोय़विस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा ||
२६ ख
सञ्जय़ उवाच:
देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण |
२७ क
सञ्जय़ उवाच:
तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे ||
२७ ख
सञ्जय़ उवाच:
तं सोमकाः प्रेक्ष्य हतं शय़ानं; प्रीता नादं सह सैन्यैरकुर्वन् |
२८ क
सञ्जय़ उवाच:
तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च |
२८ ख
सञ्जय़ उवाच:
वलान्विताश्चाप्यपरे ह्यनृत्य; न्नन्योन्यमाश्लिष्य नदन्त ऊचुः ||
२८ ग
सञ्जय़ उवाच:
दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्साय़केनावभिन्नम् |
२९ क
सञ्जय़ उवाच:
महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शय़ने निशान्ते ||
२९ ख
सञ्जय़ उवाच:
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः |
३० क
सञ्जय़ उवाच:
विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ||
३० ख
सञ्जय़ उवाच:
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः |
३१ क
सञ्जय़ उवाच:
वलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ||
३१ ख
सञ्जय़ उवाच:
अस्तं गच्छन्यथादित्यः प्रभामादाय़ गच्छति |
३२ क
सञ्जय़ उवाच:
एवं जीवितमादाय़ कर्णस्येषुर्जगाम ह ||
३२ ख
सञ्जय़ उवाच:
अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष |
३३ क
सञ्जय़ उवाच:
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ||
३३ ख
सञ्जय़ उवाच:
उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा |
३४ क
सञ्जय़ उवाच:
शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ||
३४ ख
सञ्जय़ उवाच:
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |
३५ क
सञ्जय़ उवाच:
दृष्ट्वा शय़ानं भुवि मद्रराज; श्छिन्नध्वजेनापय़यौ रथेन ||
३५ ख
सञ्जय़ उवाच:
कर्णे हते कुरवः प्राद्रवन्त; भय़ार्दिता गाढविद्धाश्च सङ्ख्ये |
३६ क
सञ्जय़ उवाच:
अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् ||
३६ ख
सञ्जय़ उवाच:
सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् |
३७ क
सञ्जय़ उवाच:
सहस्ररश्मिर्दिनसङ्क्षय़े यथा; तथापतत्तस्य शिरो वसुन्धराम् ||
३७ ख