chevron_left आदि पर्व अध्याय ६८
वैशम्पाय़न उवाच:
सुसंरव्धोऽपि रामाणां न व्रूय़ादप्रिय़ं वुधः |
५० क
वैशम्पाय़न उवाच:
रतिं प्रीतिं च धर्मं च तास्वाय़त्तमवेक्ष्य च ||
५० ख
वैशम्पाय़न उवाच:
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् |
५१ क
वैशम्पाय़न उवाच:
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ||
५१ ख
वैशम्पाय़न उवाच:
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः |
५२ क
वैशम्पाय़न उवाच:
पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ||
५२ ख
वैशम्पाय़न उवाच:
स त्वं स्वय़मनुप्राप्तं साभिलाषमिमं सुतम् |
५३ क
वैशम्पाय़न उवाच:
प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ||
५३ ख
वैशम्पाय़न उवाच:
अण्डानि विभ्रति स्वानि न भिन्दन्ति पिपीलिकाः |
५४ क
वैशम्पाय़न उवाच:
न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ||
५४ ख
वैशम्पाय़न उवाच:
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः |
५५ क
वैशम्पाय़न उवाच:
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ||
५५ ख
वैशम्पाय़न उवाच:
व्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् |
५६ क
वैशम्पाय़न उवाच:
गुरुर्गरीय़सां श्रेष्ठः पुत्रः स्पर्शवतां वरः ||
५६ ख
वैशम्पाय़न उवाच:
स्पृशतु त्वां समाश्लिष्य पुत्रोऽय़ं प्रिय़दर्शनः |
५७ क
वैशम्पाय़न उवाच:
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ||
५७ ख
वैशम्पाय़न उवाच:
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिन्दम |
५८ क
वैशम्पाय़न उवाच:
इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ||
५८ ख
वैशम्पाय़न उवाच:
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव |
५९ क
वैशम्पाय़न उवाच:
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ||
५९ ख
वैशम्पाय़न उवाच:
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः |
६० क
वैशम्पाय़न उवाच:
मूर्ध्नि पुत्रानुपाघ्राय़ प्रतिनन्दन्ति मानवाः ||
६० ख
वैशम्पाय़न उवाच:
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातय़ः |
६१ क
वैशम्पाय़न उवाच:
जातकर्मणि पुत्राणां तवापि विदितं तथा ||
६१ ख
वैशम्पाय़न उवाच:
अङ्गादङ्गात्सम्भवसि हृदय़ादभिजाय़से |
६२ क
वैशम्पाय़न उवाच:
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ||
६२ ख
वैशम्पाय़न उवाच:
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षय़म् |
६३ क
वैशम्पाय़न उवाच:
तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ||
६३ ख
वैशम्पाय़न उवाच:
त्वदङ्गेभ्यः प्रसूतोऽय़ं पुरुषात्पुरुषोऽपरः |
६४ क
वैशम्पाय़न उवाच:
सरसीवामलेऽऽत्मानं द्वितीय़ं पश्य मे सुतम् ||
६४ ख
वैशम्पाय़न उवाच:
यथा ह्याहवनीय़ोऽग्निर्गार्हपत्यात्प्रणीय़ते |
६५ क
वैशम्पाय़न उवाच:
तथा त्वत्तः प्रसूतोऽय़ं त्वमेकः सन्द्विधा कृतः ||
६५ ख
वैशम्पाय़न उवाच:
मृगापकृष्टेन हि ते मृगय़ां परिधावता |
६६ क
वैशम्पाय़न उवाच:
अहमासादिता राजन्कुमारी पितुराश्रमे ||
६६ ख
वैशम्पाय़न उवाच:
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका |
६७ क
वैशम्पाय़न उवाच:
विश्वाची च घृताची च षडेवाप्सरसां वराः ||
६७ ख
वैशम्पाय़न उवाच:
तासां मां मेनका नाम व्रह्मय़ोनिर्वराप्सराः |
६८ क
वैशम्पाय़न उवाच:
दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ||
६८ ख
वैशम्पाय़न उवाच:
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः |
६९ क
वैशम्पाय़न उवाच:
अवकीर्य च मां याता परात्मजमिवासती ||
६९ ख
वैशम्पाय़न उवाच:
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि |
७० क
वैशम्पाय़न उवाच:
यदहं वान्धवैस्त्यक्ता वाल्ये सम्प्रति च त्वय़ा ||
७० ख
वैशम्पाय़न उवाच:
कामं त्वय़ा परित्यक्ता गमिष्याम्यहमाश्रमम् |
७१ क
वैशम्पाय़न उवाच:
इमं तु वालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ||
७१ ख
दुःषन्त उवाच:
न पुत्रमभिजानामि त्वय़ि जातं शकुन्तले |
७२ क
दुःषन्त उवाच:
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ||
७२ ख
दुःषन्त उवाच:
मेनका निरनुक्रोशा वन्धकी जननी तव |
७३ क
दुःषन्त उवाच:
यय़ा हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ||
७३ ख
दुःषन्त उवाच:
स चापि निरनुक्रोशः क्षत्रय़ोनिः पिता तव |
७४ क
दुःषन्त उवाच:
विश्वामित्रो व्राह्मणत्वे लुव्धः कामपराय़णः ||
७४ ख
दुःषन्त उवाच:
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता |
७५ क
दुःषन्त उवाच:
तय़ोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ||
७५ ख
दुःषन्त उवाच:
अश्रद्धेय़मिदं वाक्यं कथय़न्ती न लज्जसे |
७६ क
दुःषन्त उवाच:
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ||
७६ ख
दुःषन्त उवाच:
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका |
७७ क
दुःषन्त उवाच:
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ||
७७ ख
दुःषन्त उवाच:
अतिकाय़श्च पुत्रस्ते वालोऽपि वलवानय़म् |
७८ क
दुःषन्त उवाच:
कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ||
७८ ख
दुःषन्त उवाच:
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे |
७९ क
दुःषन्त उवाच:
यदृच्छय़ा कामरागाज्जाता मेनकय़ा ह्यसि ||
७९ ख
दुःषन्त उवाच:
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि |
८० क
दुःषन्त उवाच:
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वय़ा ||
८० ख