सञ्जय़ उवाच:
वृहस्पती रोहिणीं सम्प्रपीड्य; वभूव चन्द्रार्कसमानवर्णः ||
४९ ख
सञ्जय़ उवाच:
हते कर्णे न दिशो विप्रजज्ञु; स्तमोवृता द्यौर्विचचाल भूमिः |
५० क
सञ्जय़ उवाच:
पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः ||
५० ख
सञ्जय़ उवाच:
शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातय़त् |
५१ क
सञ्जय़ उवाच:
अथान्तरिक्षे दिवि चेह चासकृ; द्वभूव हाहेति जनस्य निस्वनः ||
५१ ख
सञ्जय़ उवाच:
स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः |
५२ क
सञ्जय़ उवाच:
रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः ||
५२ ख
सञ्जय़ उवाच:
ततो रथेनाम्वुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा |
५३ क
सञ्जय़ उवाच:
पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना |
५३ ख
सञ्जय़ उवाच:
सुवर्णमुक्तामणिवज्रविद्रुमै; रलङ्कृतेनाप्रतिमानरंहसा ||
५३ ग
सञ्जय़ उवाच:
नरोत्तमौ पाण्डवकेशिमर्दना; वुदाहितावग्निदिवाकरोपमौ |
५४ क
सञ्जय़ उवाच:
रणाजिरे वीतभय़ौ विरेजतुः; समानय़ानाविव विष्णुवासवौ ||
५४ ख
सञ्जय़ उवाच:
ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान् |
५५ क
सञ्जय़ उवाच:
संसाधय़ित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च |
५५ ख
सञ्जय़ उवाच:
प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादय़न्तौ ||
५५ ग
सञ्जय़ उवाच:
सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः |
५६ क
सञ्जय़ उवाच:
चुचुम्वतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः ||
५६ ख
सञ्जय़ उवाच:
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभय़ोः |
५७ क
सञ्जय़ उवाच:
पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरय़त् ||
५७ ख
सञ्जय़ उवाच:
तौ शङ्खशव्देन निनादय़न्तौ; वनानि शैलान्सरितो दिशश्च |
५८ क
सञ्जय़ उवाच:
वित्रासय़न्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दय़तः स्म वीरौ ||
५८ ख
सञ्जय़ उवाच:
ततः प्रय़ाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम् |
५९ क
सञ्जय़ उवाच:
विहाय़ मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् ||
५९ ख
सञ्जय़ उवाच:
महाहवे तं वहु शोभमानं; धनञ्जय़ं भूतगणाः समेताः |
६० क
सञ्जय़ उवाच:
तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव ||
६० ख
सञ्जय़ उवाच:
समाचितौ कर्णशरैः परन्तपा; वुभौ व्यभातां समरेऽच्युतार्जुनौ |
६१ क
सञ्जय़ उवाच:
तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ ||
६१ ख
सञ्जय़ उवाच:
विहाय़ तान्वाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ |
६२ क
सञ्जय़ उवाच:
सुखं प्रविष्टौ शिविरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ ||
६२ ख
सञ्जय़ उवाच:
सदेवगन्धर्वमनुष्यचारणै; र्महर्षिभिर्यक्षमहोरगैरपि |
६३ क
सञ्जय़ उवाच:
जय़ाभिवृद्ध्या परय़ाभिपूजितौ; निहत्य कर्णं परमाहवे तदा ||
६३ ख