chevron_left आदि पर्व अध्याय ६८
वैशम्पाय़न उवाच:
प्रतिज्ञाय़ तु दुःषन्ते प्रतिय़ाते शकुन्तला |
१ क
वैशम्पाय़न उवाच:
गर्भं सुषाव वामोरुः कुमारममितौजसम् ||
१ ख
वैशम्पाय़न उवाच:
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् |
२ क
वैशम्पाय़न उवाच:
रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय़ ||
२ ख
वैशम्पाय़न उवाच:
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः |
३ क
वैशम्पाय़न उवाच:
तस्याथ कारय़ामास वर्धमानस्य धीमतः ||
३ ख
वैशम्पाय़न उवाच:
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा |
४ क
वैशम्पाय़न उवाच:
चक्राङ्कितकरः श्रीमान्महामूर्धा महावलः |
४ ख
वैशम्पाय़न उवाच:
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ||
४ ग
वैशम्पाय़न उवाच:
षड्वर्ष एव वालः स कण्वाश्रमपदं प्रति |
५ क
वैशम्पाय़न उवाच:
व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ||
५ ख
वैशम्पाय़न उवाच:
वद्ध्वा वृक्षेषु वलवानाश्रमस्य समन्ततः |
६ क
वैशम्पाय़न उवाच:
आरोहन्दमय़ंश्चैव क्रीडंश्च परिधावति ||
६ ख
वैशम्पाय़न उवाच:
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः |
७ क
वैशम्पाय़न उवाच:
अस्त्वय़ं सर्वदमनः सर्वं हि दमय़त्ययम् ||
७ ख
वैशम्पाय़न उवाच:
स सर्वदमनो नाम कुमारः समपद्यत |
८ क
वैशम्पाय़न उवाच:
विक्रमेणौजसा चैव वलेन च समन्वितः ||
८ ख
वैशम्पाय़न उवाच:
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् |
९ क
वैशम्पाय़न उवाच:
समय़ो यौवराज्याय़ेत्यव्रवीच्च शकुन्तलाम् ||
९ ख
वैशम्पाय़न उवाच:
तस्य तद्वलमाज्ञाय़ कण्वः शिष्यानुवाच ह |
१० क
वैशम्पाय़न उवाच:
शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् |
१० ख
वैशम्पाय़न उवाच:
भर्त्रे प्रापय़ताद्यैव सर्वलक्षणपूजिताम् ||
१० ग
वैशम्पाय़न उवाच:
नारीणां चिरवासो हि वान्धवेषु न रोचते |
११ क
वैशम्पाय़न उवाच:
कीर्तिचारित्रधर्मघ्नस्तस्मान्नय़त माचिरम् ||
११ ख
वैशम्पाय़न उवाच:
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः |
१२ क
वैशम्पाय़न उवाच:
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वय़म् ||
१२ ख
वैशम्पाय़न उवाच:
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् |
१३ क
वैशम्पाय़न उवाच:
आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ||
१३ ख
वैशम्पाय़न उवाच:
अभिसृत्य च राजानं विदिता सा प्रवेशिता |
१४ क
वैशम्पाय़न उवाच:
सह तेनैव पुत्रेण तरुणादित्यवर्चसा ||
१४ ख
वैशम्पाय़न उवाच:
पूजय़ित्वा यथान्याय़मव्रवीत्तं शकुन्तला |
१५ क
वैशम्पाय़न उवाच:
अय़ं पुत्रस्त्वय़ा राजन्यौवराज्येऽभिषिच्यताम् ||
१५ ख
वैशम्पाय़न उवाच:
त्वय़ा ह्ययं सुतो राजन्मय़्युत्पन्नः सुरोपमः |
१६ क
वैशम्पाय़न उवाच:
यथासमय़मेतस्मिन्वर्तस्व पुरुषोत्तम ||
१६ ख
वैशम्पाय़न उवाच:
यथा समागमे पूर्वं कृतः स समय़स्त्वय़ा |
१७ क
वैशम्पाय़न उवाच:
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ||
१७ ख
वैशम्पाय़न उवाच:
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि |
१८ क
वैशम्पाय़न उवाच:
अव्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ||
१८ ख
वैशम्पाय़न उवाच:
धर्मकामार्थसम्वन्धं न स्मरामि त्वय़ा सह |
१९ क
वैशम्पाय़न उवाच:
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ||
१९ ख
वैशम्पाय़न उवाच:
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी |
२० क
वैशम्पाय़न उवाच:
विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ||
२० ख
वैशम्पाय़न उवाच:
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा |
२१ क
वैशम्पाय़न उवाच:
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ||
२१ ख
वैशम्पाय़न उवाच:
आकारं गूहमाना च मन्युनाभिसमीरिता |
२२ क
वैशम्पाय़न उवाच:
तपसा सम्भृतं तेजो धारय़ामास वै तदा ||
२२ ख
वैशम्पाय़न उवाच:
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता |
२३ क
वैशम्पाय़न उवाच:
भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमव्रवीत् ||
२३ ख
वैशम्पाय़न उवाच:
जानन्नपि महाराज कस्मादेवं प्रभाषसे |
२४ क
वैशम्पाय़न उवाच:
न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ||
२४ ख
वैशम्पाय़न उवाच:
अत्र ते हृदय़ं वेद सत्यस्यैवानृतस्य च |
२५ क
वैशम्पाय़न उवाच:
कल्याण वत साक्षी त्वं मात्मानमवमन्यथाः ||
२५ ख
वैशम्पाय़न उवाच:
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते |
२६ क
वैशम्पाय़न उवाच:
किं तेन न कृतं पापं चोरेणात्मापहारिणा ||
२६ ख
वैशम्पाय़न उवाच:
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छय़ं वेत्सि मुनिं पुराणम् |
२७ क
वैशम्पाय़न उवाच:
यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ||
२७ ख
वैशम्पाय़न उवाच:
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति |
२८ क
वैशम्पाय़न उवाच:
विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ||
२८ ख
वैशम्पाय़न उवाच:
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदय़ं यमश्च |
२९ क
वैशम्पाय़न उवाच:
अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ||
२९ ख
वैशम्पाय़न उवाच:
यमो वैवस्वतस्तस्य निर्यातय़ति दुष्कृतम् |
३० क
वैशम्पाय़न उवाच:
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ||
३० ख
वैशम्पाय़न उवाच:
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः |
३१ क
वैशम्पाय़न उवाच:
तं यमः पापकर्माणं निर्यातय़ति दुष्कृतम् ||
३१ ख
वैशम्पाय़न उवाच:
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते |
३२ क
वैशम्पाय़न उवाच:
देवा न तस्य श्रेय़ांसो यस्यात्मापि न कारणम् ||
३२ ख
वैशम्पाय़न उवाच:
स्वय़ं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् |
३३ क
वैशम्पाय़न उवाच:
अर्घ्यार्हां नार्चय़सि मां स्वय़ं भार्यामुपस्थिताम् ||
३३ ख
वैशम्पाय़न उवाच:
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि |
३४ क
वैशम्पाय़न उवाच:
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ||
३४ ख
वैशम्पाय़न उवाच:
यदि मे याचमानाय़ा वचनं न करिष्यसि |
३५ क
वैशम्पाय़न उवाच:
दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ||
३५ ख
वैशम्पाय़न उवाच:
भार्यां पतिः सम्प्रविश्य स यस्माज्जाय़ते पुनः |
३६ क
वैशम्पाय़न उवाच:
जाय़ाय़ा इति जाय़ात्वं पुराणाः कवय़ो विदुः ||
३६ ख
वैशम्पाय़न उवाच:
यदागमवतः पुंसस्तदपत्यं प्रजाय़ते |
३७ क
वैशम्पाय़न उवाच:
तत्तारय़ति सन्तत्या पूर्वप्रेतान्पितामहान् ||
३७ ख
वैशम्पाय़न उवाच:
पुन्नाम्नो नरकाद्यस्मात्पितरं त्राय़ते सुतः |
३८ क
वैशम्पाय़न उवाच:
तस्मात्पुत्र इति प्रोक्तः स्वय़मेव स्वय़म्भुवा ||
३८ ख
वैशम्पाय़न उवाच:
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती |
३९ क
वैशम्पाय़न उवाच:
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ||
३९ ख
वैशम्पाय़न उवाच:
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा |
४० क
वैशम्पाय़न उवाच:
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ||
४० ख
वैशम्पाय़न उवाच:
भार्यावन्तः क्रिय़ावन्तः सभार्या गृहमेधिनः |
४१ क
वैशम्पाय़न उवाच:
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रिय़ान्विताः ||
४१ ख
वैशम्पाय़न उवाच:
सखाय़ः प्रविविक्तेषु भवन्त्येताः प्रिय़ंवदाः |
४२ क
वैशम्पाय़न उवाच:
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ||
४२ ख
वैशम्पाय़न उवाच:
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै |
४३ क
वैशम्पाय़न उवाच:
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ||
४३ ख
वैशम्पाय़न उवाच:
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् |
४४ क
वैशम्पाय़न उवाच:
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ||
४४ ख
वैशम्पाय़न उवाच:
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते |
४५ क
वैशम्पाय़न उवाच:
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ||
४५ ख
वैशम्पाय़न उवाच:
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते |
४६ क
वैशम्पाय़न उवाच:
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ||
४६ ख
वैशम्पाय़न उवाच:
आत्मात्मनैव जनितः पुत्र इत्युच्यते वुधैः |
४७ क
वैशम्पाय़न उवाच:
तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ||
४७ ख
वैशम्पाय़न उवाच:
भार्याय़ां जनितं पुत्रमादर्शे स्वमिवाननम् |
४८ क
वैशम्पाय़न उवाच:
ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ||
४८ ख
वैशम्पाय़न उवाच:
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः |
४९ क
वैशम्पाय़न उवाच:
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ||
४९ ख