chevron_left सभा पर्व अध्याय ६८
वैशम्पाय़न उवाच:
वनवासाय़ चक्रुस्ते मतिं पार्थाः पराजिताः |
१ क
वैशम्पाय़न उवाच:
अजिनान्युत्तरीय़ाणि जगृहुश्च यथाक्रमम् ||
१ ख
वैशम्पाय़न उवाच:
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् |
२ क
वैशम्पाय़न उवाच:
प्रस्थितान्वनवासाय़ ततो दुःशासनोऽव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः |
३ क
वैशम्पाय़न उवाच:
पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ||
३ ख
वैशम्पाय़न उवाच:
अद्य देवाः सम्प्रय़ाताः समैर्वर्त्मभिरस्थलैः |
४ क
वैशम्पाय़न उवाच:
गुणज्येष्ठास्तथा ज्येष्ठा भूय़ांसो यद्वय़ं परैः ||
४ ख
वैशम्पाय़न उवाच:
नरकं पातिताः पार्था दीर्घकालमनन्तकम् |
५ क
वैशम्पाय़न उवाच:
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ||
५ ख
वैशम्पाय़न उवाच:
वलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः |
६ क
वैशम्पाय़न उवाच:
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ||
६ ख
वैशम्पाय़न उवाच:
चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति |
७ क
वैशम्पाय़न उवाच:
निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौवलस्याभ्युपेताः ||
७ ख
वैशम्पाय़न उवाच:
न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितवुद्धय़ः सदा |
८ क
वैशम्पाय़न उवाच:
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ||
८ ख
वैशम्पाय़न उवाच:
अय़ं हि वासोदय़ ईदृशानां; मनस्विनां कौरव मा भवेद्वः |
९ क
वैशम्पाय़न उवाच:
अदीक्षितानामजिनानि यद्व; द्वलीय़सां पश्यत पाण्डवानाम् ||
९ ख
वैशम्पाय़न उवाच:
महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय़ |
१० क
वैशम्पाय़न उवाच:
अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीवाः पार्थाः पतय़ो याज्ञसेन्याः ||
१० ख
वैशम्पाय़न उवाच:
सूक्ष्मान्प्रावारानजिनानि चोदिता; न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् |
११ क
वैशम्पाय़न उवाच:
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ||
११ ख
वैशम्पाय़न उवाच:
एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः |
१२ क
वैशम्पाय़न उवाच:
एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽय़म् ||
१२ ख
वैशम्पाय़न उवाच:
यथाफलाः षण्ढतिला यथा चर्ममय़ा मृगाः |
१३ क
वैशम्पाय़न उवाच:
तथैव पाण्डवाः सर्वे यथा काकय़वा अपि ||
१३ ख
वैशम्पाय़न उवाच:
किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य |
१४ क
वैशम्पाय़न उवाच:
एवं नृशंसः परुषाणि पार्था; नश्रावय़द्धृतराष्ट्रस्य पुत्रः ||
१४ ख
वैशम्पाय़न उवाच:
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् |
१५ क
वैशम्पाय़न उवाच:
उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ||
१५ ख
भीमसेन उवाच:
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे |
१६ क
भीमसेन उवाच:
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ||
१६ ख
भीमसेन उवाच:
यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम् |
१७ क
भीमसेन उवाच:
तथा स्मारय़िता तेऽहं कृन्तन्मर्माणि संय़ुगे ||
१७ ख
भीमसेन उवाच:
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः |
१८ क
भीमसेन उवाच:
गोप्तारः सानुवन्धांस्तान्नेष्यामि यमसादनम् ||
१८ ख
वैशम्पाय़न उवाच:
एवं व्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म |
१९ क
वैशम्पाय़न उवाच:
मध्ये कुरूणां धर्मनिवद्धमार्गं; गौर्गौरिति स्माह्वय़न्मुक्तलज्जः ||
१९ ख
भीमसेन उवाच:
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वय़ा |
२० क
भीमसेन उवाच:
निकृत्या हि धनं लव्ध्वा को विकत्थितुमर्हति ||
२० ख
भीमसेन उवाच:
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः |
२१ क
भीमसेन उवाच:
यदि वक्षसि भित्त्वा ते न पिवेच्छोणितं रणे ||
२१ ख
भीमसेन उवाच:
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् |
२२ क
भीमसेन उवाच:
शमं गन्तास्मि नचिरात्सत्यमेतद्व्रवीमि वः ||
२२ ख
वैशम्पाय़न उवाच:
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् |
२३ क
वैशम्पाय़न उवाच:
गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभाय़ाः ||
२३ ख
वैशम्पाय़न उवाच:
नैतावता कृतमित्यव्रवीत्तं; वृकोदरः संनिवृत्तार्धकाय़ः |
२४ क
वैशम्पाय़न उवाच:
शीघ्रं हि त्वा निहतं सानुवन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ||
२४ ख
वैशम्पाय़न उवाच:
एतत्समीक्ष्यात्मनि चावमानं; निय़म्य मन्युं वलवान्स मानी |
२५ क
वैशम्पाय़न उवाच:
राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ||
२५ ख
वैशम्पाय़न उवाच:
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जय़ः |
२६ क
वैशम्पाय़न उवाच:
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ||
२६ ख
वैशम्पाय़न उवाच:
इदं च भूय़ो वक्ष्यामि सभामध्ये वृहद्वचः |
२७ क
वैशम्पाय़न उवाच:
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ||
२७ ख
वैशम्पाय़न उवाच:
सुय़ोधनमिमं पापं हन्तास्मि गदय़ा युधि |
२८ क
वैशम्पाय़न उवाच:
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ||
२८ ख
वैशम्पाय़न उवाच:
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः |
२९ क
वैशम्पाय़न उवाच:
दुःशासनस्य रुधिरं पातास्मि मृगराडिव ||
२९ ख
अर्जुन उवाच:
नैव वाचा व्यवसितं भीम विज्ञाय़ते सताम् |
३० क
अर्जुन उवाच:
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ||
३० ख
अर्जुन उवाच:
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |
३१ क
अर्जुन उवाच:
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||
३१ ख
अर्जुन उवाच:
असूय़ितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् |
३२ क
अर्जुन उवाच:
भीमसेन निय़ोगात्ते हन्ताहं कर्णमाहवे ||
३२ ख
अर्जुन उवाच:
अर्जुनः प्रतिजानीते भीमस्य प्रिय़काम्यया |
३३ क
अर्जुन उवाच:
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ||
३३ ख
अर्जुन उवाच:
ये चान्ये प्रतिय़ोत्स्यन्ति वुद्धिमोहेन मां नृपाः |
३४ क
अर्जुन उवाच:
तांश्च सर्वाञ्शितैर्वाणैर्नेतास्मि यमसादनम् ||
३४ ख
अर्जुन उवाच:
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः |
३५ क
अर्जुन उवाच:
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ||
३५ ख
अर्जुन उवाच:
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे |
३६ क
अर्जुन उवाच:
दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ||
३६ ख
वैशम्पाय़न उवाच:
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः |
३७ क
वैशम्पाय़न उवाच:
प्रगृह्य विपुलं वाहुं सहदेवः प्रतापवान् ||
३७ ख
वैशम्पाय़न उवाच:
सौवलस्य वधं प्रेप्सुरिदं वचनमव्रवीत् |
३८ क
वैशम्पाय़न उवाच:
क्रोधसंरक्तनय़नो निःश्वसन्निव पन्नगः ||
३८ ख
वैशम्पाय़न उवाच:
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर |
३९ क
वैशम्पाय़न उवाच:
नैतेऽक्षा निशिता वाणास्त्वय़ैते समरे वृताः ||
३९ ख
वैशम्पाय़न उवाच:
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सवान्धवम् |
४० क
वैशम्पाय़न उवाच:
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ||
४० ख
वैशम्पाय़न उवाच:
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सवान्धवम् |
४१ क
वैशम्पाय़न उवाच:
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौवल ||
४१ ख
वैशम्पाय़न उवाच:
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते |
४२ क
वैशम्पाय़न उवाच:
दर्शनीय़तमो नॄणामिदं वचनमव्रवीत् ||
४२ ख
वैशम्पाय़न उवाच:
सुतेय़ं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः |
४३ क
वैशम्पाय़न उवाच:
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिय़े ||
४३ ख
वैशम्पाय़न उवाच:
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् |
४४ क
वैशम्पाय़न उवाच:
दर्शय़िष्यामि भूय़िष्ठमहं वैवस्वतक्षय़म् ||
४४ ख
वैशम्पाय़न उवाच:
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् |
४५ क
वैशम्पाय़न उवाच:
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ||
४५ ख
वैशम्पाय़न उवाच:
एवं ते पुरुषव्याघ्राः सर्वे व्याय़तवाहवः |
४६ क
वैशम्पाय़न उवाच:
प्रतिज्ञा वहुलाः कृत्वा धृतराष्ट्रमुपागमन् ||
४६ ख