वृहदश्व उवाच:
अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः |
१ क
वृहदश्व उवाच:
प्रत्येत्य नगरं भैमीमिदं वचनमव्रवीत् ||
१ ख
वृहदश्व उवाच:
नैषधं मृगय़ानेन दमय़न्ति दिवानिशम् |
२ क
वृहदश्व उवाच:
अय़ोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ||
२ ख
वृहदश्व उवाच:
श्रावितश्च मय़ा वाक्यं त्वदीय़ं स महाजने |
३ क
वृहदश्व उवाच:
ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ||
३ ख
वृहदश्व उवाच:
तच्छ्रुत्वा नाव्रवीत्किञ्चिदृतुपर्णो नराधिपः |
४ क
वृहदश्व उवाच:
न च पारिषदः कश्चिद्भाष्यमाणो मय़ासकृत् ||
४ ख
वृहदश्व उवाच:
अनुज्ञातं तु मां राज्ञा विजने कश्चिदव्रवीत् |
५ क
वृहदश्व उवाच:
ऋतुपर्णस्य पुरुषो वाहुको नाम नामतः ||
५ ख
वृहदश्व उवाच:
सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्ववाहुकः |
६ क
वृहदश्व उवाच:
शीघ्रय़ाने सुकुशलो मृष्टकर्ता च भोजने ||
६ ख
वृहदश्व उवाच:
स विनिःश्वस्य वहुशो रुदित्वा च मुहुर्मुहुः |
७ क
वृहदश्व उवाच:
कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ||
७ ख
वृहदश्व उवाच:
वैषम्यमपि सम्प्राप्ता गोपाय़न्ति कुलस्त्रिय़ः |
८ क
वृहदश्व उवाच:
आत्मानमात्मना सत्यो जितस्वर्गा न संशय़ः |
८ ख
वृहदश्व उवाच:
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ||
८ ग
वृहदश्व उवाच:
विषमस्थेन मूढेन परिभ्रष्टसुखेन च |
९ क
वृहदश्व उवाच:
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ||
९ ख
वृहदश्व उवाच:
प्राणय़ात्रां परिप्रेप्सोः शकुनैर्हृतवाससः |
१० क
वृहदश्व उवाच:
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ||
१० ख
वृहदश्व उवाच:
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् |
११ क
वृहदश्व उवाच:
भ्रष्टराज्यं श्रिय़ा हीनं श्यामा न क्रोद्धुमर्हति ||
११ ख
वृहदश्व उवाच:
तस्य तद्वचनं श्रुत्वा त्वरितोऽहमिहागतः |
१२ क
वृहदश्व उवाच:
श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय़ ||
१२ ख
वृहदश्व उवाच:
एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते |
१३ क
वृहदश्व उवाच:
दमय़न्ती रहोऽभ्येत्य मातरं प्रत्यभाषत ||
१३ ख
वृहदश्व उवाच:
अय़मर्थो न संवेद्यो भीमे मातः कथञ्चन |
१४ क
वृहदश्व उवाच:
त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ||
१४ ख
वृहदश्व उवाच:
यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् |
१५ क
वृहदश्व उवाच:
तथा त्वय़ा प्रय़त्तव्यं मम चेत्प्रिय़मिच्छसि ||
१५ ख
वृहदश्व उवाच:
यथा चाहं समानीता सुदेवेनाशु वान्धवान् |
१६ क
वृहदश्व उवाच:
तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् |
१६ ख
वृहदश्व उवाच:
समानेतुं नलं मातरय़ोध्यां नगरीमितः ||
१६ ग
वृहदश्व उवाच:
विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् |
१७ क
वृहदश्व उवाच:
अर्चय़ामास वैदर्भी धनेनातीव भामिनी ||
१७ ख
वृहदश्व उवाच:
नले चेहागते विप्र भूय़ो दास्यामि ते वसु |
१८ क
वृहदश्व उवाच:
त्वय़ा हि मे वहु कृतं यथा नान्यः करिष्यति |
१८ ख
वृहदश्व उवाच:
यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ||
१८ ग
वृहदश्व उवाच:
एवमुक्तोऽर्चय़ित्वा तामाशीर्वादैः सुमङ्गलैः |
१९ क
वृहदश्व उवाच:
गृहानुपय़यौ चापि कृतार्थः स महामनाः ||
१९ ख
वृहदश्व उवाच:
ततश्चानाय़्य तं विप्रं दमय़न्ती युधिष्ठिर |
२० क
वृहदश्व उवाच:
अव्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ||
२० ख
वृहदश्व उवाच:
गत्वा सुदेव नगरीमय़ोध्यावासिनं नृपम् |
२१ क
वृहदश्व उवाच:
ऋतुपर्णं वचो व्रूहि पतिमन्यं चिकीर्षती |
२१ ख
वृहदश्व उवाच:
आस्थास्यति पुनर्भैमी दमय़न्ती स्वय़ंवरम् ||
२१ ग
वृहदश्व उवाच:
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः |
२२ क
वृहदश्व उवाच:
यथा च गणितः कालः श्वोभूते स भविष्यति ||
२२ ख
वृहदश्व उवाच:
यदि सम्भावनीय़ं ते गच्छ शीघ्रमरिन्दम |
२३ क
वृहदश्व उवाच:
सूर्योदय़े द्वितीय़ं सा भर्तारं वरय़िष्यति |
२३ ख
वृहदश्व उवाच:
न हि स ज्ञाय़ते वीरो नलो जीवन्मृतोऽपि वा ||
२३ ग
वृहदश्व उवाच:
एवं तय़ा यथोक्तं वै गत्वा राजानमव्रवीत् |
२४ क
वृहदश्व उवाच:
ऋतुपर्णं महाराज सुदेवो व्राह्मणस्तदा ||
२४ ख