chevron_left भीष्म पर्व अध्याय ६८
सञ्जय़ उवाच:
शिखण्डी सह मत्स्येन विराटेन विशां पते |
१ क
सञ्जय़ उवाच:
भीष्ममाशु महेष्वासमाससाद सुदुर्जय़म् ||
१ ख
सञ्जय़ उवाच:
द्रोणं कृपं विकर्णं च महेष्वासान्महावलान् |
२ क
सञ्जय़ उवाच:
राज्ञश्चान्यान्रणे शूरान्वहूनार्छद्धनञ्जय़ः ||
२ ख
सञ्जय़ उवाच:
सैन्धवं च महेष्वासं सामात्यं सह वन्धुभिः |
३ क
सञ्जय़ उवाच:
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ||
३ ख
सञ्जय़ उवाच:
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् |
४ क
सञ्जय़ उवाच:
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ||
४ ख
सञ्जय़ उवाच:
सहदेवस्तु शकुनिमुलूकं च महारथम् |
५ क
सञ्जय़ उवाच:
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जय़ौ ||
५ ख
सञ्जय़ उवाच:
युधिष्ठिरो महाराज गजानीकं महारथः |
६ क
सञ्जय़ उवाच:
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ||
६ ख
सञ्जय़ उवाच:
माद्रीपुत्रस्तु नकुलः शूरः सङ्क्रन्दनो युधि |
७ क
सञ्जय़ उवाच:
त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ||
७ ख
सञ्जय़ उवाच:
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकय़ान् |
८ क
सञ्जय़ उवाच:
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ||
८ ख
सञ्जय़ उवाच:
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः |
९ क
सञ्जय़ उवाच:
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जय़ाः ||
९ ख
सञ्जय़ उवाच:
सेनापतिरमेय़ात्मा धृष्टद्युम्नो महावलः |
१० क
सञ्जय़ उवाच:
द्रोणेन समरे राजन्समिय़ाय़ेन्द्रकर्मणा ||
१० ख
सञ्जय़ उवाच:
एवमेते महेष्वासास्तावकाः पाण्डवैः सह |
११ क
सञ्जय़ उवाच:
समेत्य समरे शूराः सम्प्रहारं प्रचक्रिरे ||
११ ख
सञ्जय़ उवाच:
मध्यन्दिनगते सूर्ये नभस्याकुलतां गते |
१२ क
सञ्जय़ उवाच:
कुरवः पाण्डवेय़ाश्च निजघ्नुरितरेतरम् ||
१२ ख
सञ्जय़ उवाच:
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे |
१३ क
सञ्जय़ उवाच:
सपताका रथा रेजुर्वैय़ाघ्रपरिवारणाः ||
१३ ख
सञ्जय़ उवाच:
समेतानां च समरे जिगीषूणां परस्परम् |
१४ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दः सिंहानामिव नर्दताम् ||
१४ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम् |
१५ क
सञ्जय़ उवाच:
यमकुर्वन्रणे वीराः सृञ्जय़ाः कुरुभिः सह ||
१५ ख
सञ्जय़ उवाच:
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन |
१६ क
सञ्जय़ उवाच:
विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ||
१६ ख
सञ्जय़ उवाच:
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् |
१७ क
सञ्जय़ उवाच:
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ||
१७ ख
सञ्जय़ उवाच:
कवचानां विचित्राणां भूषणानां प्रभास्तथा |
१८ क
सञ्जय़ उवाच:
खं दिशः प्रदिशश्चैव भासय़ामासुरोजसा |
१८ ख
सञ्जय़ उवाच:
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ||
१८ ग
सञ्जय़ उवाच:
रथसिंहासनव्याघ्राः समाय़ान्तश्च संय़ुगे |
१९ क
सञ्जय़ उवाच:
विरेजुः समरे राजन्ग्रहा इव नभस्तले ||
१९ ख
सञ्जय़ उवाच:
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महावलम् |
२० क
सञ्जय़ उवाच:
अवारय़त सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ||
२० ख
सञ्जय़ उवाच:
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः |
२१ क
सञ्जय़ उवाच:
अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ||
२१ ख
सञ्जय़ उवाच:
तस्य शक्तिं महावेगां भीमसेनो महावलः |
२२ क
सञ्जय़ उवाच:
क्रुद्धाशीविषसङ्काशां प्रेषय़ामास भारत ||
२२ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् |
२३ क
सञ्जय़ उवाच:
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ||
२३ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन पीतेन निशितेन च |
२४ क
सञ्जय़ उवाच:
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ||
२४ ख
सञ्जय़ उवाच:
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संय़ुगे |
२५ क
सञ्जय़ उवाच:
शरैर्वहुभिरानर्छत्पितरं ते जनेश्वर ||
२५ ख
सञ्जय़ उवाच:
ततः सन्धाय़ वै तीक्ष्णं शरं परमदारुणम् |
२६ क
सञ्जय़ उवाच:
वार्ष्णेय़स्य रथाद्भीष्मः पातय़ामास सारथिम् ||
२६ ख
सञ्जय़ उवाच:
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ |
२७ क
सञ्जय़ उवाच:
तेन तेनैव धावन्ति मनोमारुतरंहसः ||
२७ ख
सञ्जय़ उवाच:
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् |
२८ क
सञ्जय़ उवाच:
हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ||
२८ ख
सञ्जय़ उवाच:
अभिद्रवत गृह्णीत हय़ान्यच्छत धावत |
२९ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दो युय़ुधानरथं प्रति ||
२९ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु भीष्मः शान्तनवः पुनः |
३० क
सञ्जय़ उवाच:
व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ||
३० ख
सञ्जय़ उवाच:
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह |
३१ क
सञ्जय़ उवाच:
आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ||
३१ ख
सञ्जय़ उवाच:
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे |
३२ क
सञ्जय़ उवाच:
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ||
३२ ख
सञ्जय़ उवाच:
तथैव तावका राजन्भीष्मद्रोणमुखाः परान् |
३३ क
सञ्जय़ उवाच:
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ||
३३ ख