chevron_left द्रोण पर्व अध्याय ६८
सञ्जय़ उवाच:
हते सुदक्षिणे राजन्वीरे चैव श्रुताय़ुधे |
१ क
सञ्जय़ उवाच:
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ||
१ ख
सञ्जय़ उवाच:
अभीषाहाः शूरसेनाः शिवय़ोऽथ वसातय़ः |
२ क
सञ्जय़ उवाच:
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जय़म् ||
२ ख
सञ्जय़ उवाच:
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः |
३ क
सञ्जय़ उवाच:
ते स्म भीताः पलाय़न्त व्याघ्रात्क्षुद्रमृगा इव ||
३ ख
सञ्जय़ उवाच:
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारय़न् |
४ क
सञ्जय़ उवाच:
रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि ||
४ ख
सञ्जय़ उवाच:
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः |
५ क
सञ्जय़ उवाच:
शिरांसि पातय़ामास वाहूंश्चैव धनञ्जय़ः ||
५ ख
सञ्जय़ उवाच:
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा |
६ क
सञ्जय़ उवाच:
अभ्रच्छाय़ेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि ||
६ ख
सञ्जय़ उवाच:
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ |
७ क
सञ्जय़ उवाच:
श्रुताय़ुश्चाच्युताय़ुश्च धनञ्जय़मय़ुध्यताम् ||
७ ख
सञ्जय़ उवाच:
वलिनौ स्पर्धिनौ वीरौ कुलजौ वाहुशालिनौ |
८ क
सञ्जय़ उवाच:
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ||
८ ख
सञ्जय़ उवाच:
त्वराय़ुक्तौ महाराज प्रार्थय़ानौ महद्यशः |
९ क
सञ्जय़ उवाच:
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ||
९ ख
सञ्जय़ उवाच:
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् |
१० क
सञ्जय़ उवाच:
पूरय़ामासतुः क्रुद्धौ तडागं जलदौ यथा ||
१० ख
सञ्जय़ उवाच:
श्रुताय़ुश्च ततः क्रुद्धस्तोमरेण धनञ्जय़म् |
११ क
सञ्जय़ उवाच:
आजघान रथश्रेष्ठः पीतेन निशितेन च ||
११ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता शत्रुणा शत्रुकर्शनः |
१२ क
सञ्जय़ उवाच:
आजगाम परं मोहं मोहय़न्केशवं रणे ||
१२ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु सोऽच्युताय़ुर्महारथः |
१३ क
सञ्जय़ उवाच:
शूलेन भृशतीक्ष्णेन ताडय़ामास पाण्डवम् ||
१३ ख
सञ्जय़ उवाच:
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः |
१४ क
सञ्जय़ उवाच:
पार्थोऽपि भृशसंविद्धो ध्वजय़ष्टिं समाश्रितः ||
१४ ख
सञ्जय़ उवाच:
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |
१५ क
सञ्जय़ उवाच:
सिंहनादो महानासीद्धतं मत्वा धनञ्जय़म् ||
१५ ख
सञ्जय़ उवाच:
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम् |
१६ क
सञ्जय़ उवाच:
आश्वासय़त्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जय़म् ||
१६ ख
सञ्जय़ उवाच:
ततस्तौ रथिनां श्रेष्ठौ लव्धलक्षौ धनञ्जय़म् |
१७ क
सञ्जय़ उवाच:
वासुदेवं च वार्ष्णेय़ं शरवर्षैः समन्ततः ||
१७ ख
सञ्जय़ उवाच:
सचक्रकूवररथं साश्वध्वजपताकिनम् |
१८ क
सञ्जय़ उवाच:
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ||
१८ ख
सञ्जय़ उवाच:
प्रत्याश्वस्तस्तु वीभत्सुः शनकैरिव भारत |
१९ क
सञ्जय़ उवाच:
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ||
१९ ख
सञ्जय़ उवाच:
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् |
२० क
सञ्जय़ उवाच:
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ||
२० ख
सञ्जय़ उवाच:
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः |
२१ क
सञ्जय़ उवाच:
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ||
२१ ख
सञ्जय़ उवाच:
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च साय़कान् |
२२ क
सञ्जय़ उवाच:
विचेरुराकाशगताः पार्थवाणविदारिताः ||
२२ ख
सञ्जय़ उवाच:
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः |
२३ क
सञ्जय़ उवाच:
प्रतस्थे तत्र तत्रैव योधय़न्वै महारथान् ||
२३ ख
सञ्जय़ उवाच:
तौ च फल्गुनवाणौघैर्विवाहुशिरसौ कृतौ |
२४ क
सञ्जय़ उवाच:
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ||
२४ ख
सञ्जय़ उवाच:
श्रुताय़ुषश्च निधनं वधश्चैवाच्युताय़ुषः |
२५ क
सञ्जय़ उवाच:
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ||
२५ ख
सञ्जय़ उवाच:
तय़ोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् |
२६ क
सञ्जय़ उवाच:
अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ||
२६ ख
सञ्जय़ उवाच:
श्रुताय़ुषं च निहतं प्रेक्ष्य चैवाच्युताय़ुषम् |
२७ क
सञ्जय़ उवाच:
अय़ुताय़ुश्च सङ्क्रुद्धो दीर्घाय़ुश्चैव भारत ||
२७ ख
सञ्जय़ उवाच:
पुत्रौ तय़ोर्नरश्रेष्ठौ कौन्तेय़ं प्रतिजग्मतुः |
२८ क
सञ्जय़ उवाच:
किरन्तौ विविधान्वाणान्पितृव्यसनकर्शितौ ||
२८ ख
सञ्जय़ उवाच:
तावर्जुनो मुहूर्तेन शरैः संनतपर्वभिः |
२९ क
सञ्जय़ उवाच:
प्रेषय़त्परमक्रुद्धो यमस्य सदनं प्रति ||
२९ ख
सञ्जय़ उवाच:
लोडय़न्तमनीकानि द्विपं पद्मसरो यथा |
३० क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं पार्थं क्षत्रिय़पुङ्गवाः ||
३० ख
सञ्जय़ उवाच:
अङ्गास्तु गजवारेण पाण्डवं पर्यवारय़न् |
३१ क
सञ्जय़ उवाच:
क्रुद्धाः सहस्रशो राजञ्शिखिता हस्तिसादिनः ||
३१ ख
सञ्जय़ उवाच:
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः |
३२ क
सञ्जय़ उवाच:
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ||
३२ ख
सञ्जय़ उवाच:
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः |
३३ क
सञ्जय़ उवाच:
निचकर्त शिरांस्युग्रौ वाहूनपि सुभूषणान् ||
३३ ख
सञ्जय़ उवाच:
तैः शिरोभिर्मही कीर्णा वाहुभिश्च सहाङ्गदैः |
३४ क
सञ्जय़ उवाच:
वभौ कनकपाषाणा भुजगैरिव संवृता ||
३४ ख
सञ्जय़ उवाच:
वाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च |
३५ क
सञ्जय़ उवाच:
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ||
३५ ख
सञ्जय़ उवाच:
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः |
३६ क
सञ्जय़ उवाच:
व्यदृश्यन्ताद्रय़ः काले गैरिकाम्वुस्रवा इव ||
३६ ख
सञ्जय़ उवाच:
निहताः शेरते स्मान्ये वीभत्सोर्निशितैः शरैः |
३७ क
सञ्जय़ उवाच:
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ||
३७ ख
सञ्जय़ उवाच:
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः |
३८ क
सञ्जय़ उवाच:
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ||
३८ ख
सञ्जय़ उवाच:
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः |
३९ क
सञ्जय़ उवाच:
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ||
३९ ख
सञ्जय़ उवाच:
चुक्रुशुश्च निपेतुश्च वभ्रमुश्चापरे दिशः |
४० क
सञ्जय़ उवाच:
भृशं त्रस्ताश्च वहुधा स्वानेन ममृदुर्गजाः |
४० ख
सञ्जय़ उवाच:
सान्तराय़ुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः ||
४० ग
सञ्जय़ उवाच:
विदन्त्यसुरमाय़ां ये सुघोरा घोरचक्षुषः |
४१ क
सञ्जय़ उवाच:
यवनाः पारदाश्चैव शकाश्च सुनिकैः सह ||
४१ ख
सञ्जय़ उवाच:
गोय़ोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः |
४२ क
सञ्जय़ उवाच:
दार्वाभिसारा दरदाः पुण्ड्राश्च सह वाह्लिकैः ||
४२ ख
सञ्जय़ उवाच:
न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः |
४३ क
सञ्जय़ उवाच:
वृष्टिस्तथाविधा ह्यासीच्छलभानामिवाय़तिः ||
४३ ख
सञ्जय़ उवाच:
अभ्रच्छाय़ामिव शरैः सैन्ये कृत्वा धनञ्जय़ः |
४४ क
सञ्जय़ उवाच:
मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् |
४४ ख
सञ्जय़ उवाच:
म्लेच्छानशातय़त्सर्वान्समेतानस्त्रमाय़या ||
४४ ग
सञ्जय़ उवाच:
शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः |
४५ क
सञ्जय़ उवाच:
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ||
४५ ख
सञ्जय़ उवाच:
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः |
४६ क
सञ्जय़ उवाच:
वडाः कङ्का वृका भूमावपिवन्रुधिरं मुदा ||
४६ ख
सञ्जय़ उवाच:
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् |
४७ क
सञ्जय़ उवाच:
शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् |
४७ ख
सञ्जय़ उवाच:
प्रावर्तय़न्नदीमुग्रां शोणितौघतरङ्गिणीम् ||
४७ ग
सञ्जय़ उवाच:
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम् |
४८ क
सञ्जय़ उवाच:
अकरोद्गजसम्वाधां नदीमुत्तरशोणिताम् |
४८ ख
सञ्जय़ उवाच:
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ||
४८ ग