सञ्जय़ उवाच:
शल्यस्तु कर्णार्जुनय़ोर्विमर्दे; वलानि दृष्ट्वा मृदितानि वाणैः |
१ क
सञ्जय़ उवाच:
दुर्योधनं यान्तमवेक्षमाणो; सन्दर्शय़द्भारत युद्धभूमिम् ||
१ ख
सञ्जय़ उवाच:
निपातितस्यन्दनवाजिनागं; दृष्ट्वा वलं तद्धतसूतपुत्रम् |
२ क
सञ्जय़ उवाच:
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः ||
२ ख
सञ्जय़ उवाच:
कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |
३ क
सञ्जय़ उवाच:
यदृच्छय़ा सूर्यमिवावनिस्थं; दिदृक्षवः सम्परिवार्य तस्थुः ||
३ ख
सञ्जय़ उवाच:
प्रहृष्टवित्रस्तविषण्णविस्मृता; स्तथापरे शोकगता इवाभवन् |
४ क
सञ्जय़ उवाच:
परे त्वदीय़ाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् ||
४ ख
सञ्जय़ उवाच:
प्रविद्धवर्माभरणाम्वराय़ुधं; धनञ्जय़ेनाभिहतं हतौजसम् |
५ क
सञ्जय़ उवाच:
निशम्य कर्णं कुरवः प्रदुद्रुवु; र्हतर्षभा गाव इवाकुलाकुलाः ||
५ ख
सञ्जय़ उवाच:
कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम् |
६ क
सञ्जय़ उवाच:
दृष्ट्वा शय़ानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् ||
६ ख
सञ्जय़ उवाच:
मद्राधिपश्चापि विमूढचेता; स्तूर्णं रथेनापहृतध्वजेन |
७ क
सञ्जय़ उवाच:
दुर्योधनस्यान्तिकमेत्य शीघ्रं; सम्भाष्य दुःखार्तमुवाच वाक्यम् ||
७ ख
सञ्जय़ उवाच:
विशीर्णनागाश्वरथप्रवीरं; वलं त्वदिय़ं यमराष्ट्रकल्पम् |
८ क
सञ्जय़ उवाच:
अन्योन्यमासाद्य हतं महद्भि; र्नराश्वनागैर्गिरिकूटकल्पैः ||
८ ख
सञ्जय़ उवाच:
नैतादृशं भारत युद्धमासी; द्यथाद्य कर्णार्जुनय़ोर्वभूव |
९ क
सञ्जय़ उवाच:
ग्रस्तौ हि कर्णेन समेत्य कृष्णा; वन्ये च सर्वे तव शत्रवो ये ||
९ ख
सञ्जय़ उवाच:
दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान् |
१० क
सञ्जय़ उवाच:
तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः ||
१० ख
सञ्जय़ उवाच:
कुवेरवैवस्वतवासवानां; तुल्यप्रभावाम्वुपतेश्च वीराः |
११ क
सञ्जय़ उवाच:
वीर्येण शौर्येण वलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः ||
११ ख
सञ्जय़ उवाच:
अवध्यकल्पा निहता नरेन्द्रा; स्तवार्थकामा युधि पाण्डवेय़ैः |
१२ क
सञ्जय़ उवाच:
तन्मा शुचो भारत दिष्टमेत; त्पर्याय़सिद्धिर्न सदास्ति सिद्धिः ||
१२ ख
सञ्जय़ उवाच:
एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य |
१३ क
सञ्जय़ उवाच:
दुर्योधनो दीनमना विसञ्ज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः ||
१३ ख
सञ्जय़ उवाच:
तं ध्यानमूकं कृपणं भृशार्त; मार्ताय़निर्दीनमुवाच वाक्यम् |
१४ क
सञ्जय़ उवाच:
पश्येदमुग्रं नरवाजिनागै; राय़ोधनं वीरहतैः प्रपन्नम् ||
१४ ख
सञ्जय़ उवाच:
महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः |
१५ क
सञ्जय़ उवाच:
तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तय़न्त्राय़ुधवर्मय़ोधैः ||
१५ ख
सञ्जय़ उवाच:
वज्रापविद्धैरिव चाचलेन्द्रै; र्विभिन्नपाषाणमृगद्रुमौषधैः |
१६ क
सञ्जय़ उवाच:
प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसम्प्लुतैः ||
१६ ख
सञ्जय़ उवाच:
शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः |
१७ क
सञ्जय़ उवाच:
दीनैः स्तनद्भिः परिवृत्तनेत्रै; र्महीं दशद्भिः कृपणं नदद्भिः ||
१७ ख
सञ्जय़ उवाच:
तथापविद्धैर्गजवाजिय़ोधै; र्मन्दासुभिश्चैव गतासुभिश्च |
१८ क
सञ्जय़ उवाच:
नराश्वनागैश्च रथैश्च मर्दितै; र्मही महावैतरणीव दुर्दृशा ||
१८ ख
सञ्जय़ उवाच:
गजैर्निकृत्तापरहस्तगात्रै; रुद्वेपमानैः पतितैः पृथिव्याम् |
१९ क
सञ्जय़ उवाच:
यशस्विभिर्नागरथाश्वय़ोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः |
१९ ख
सञ्जय़ उवाच:
विशीर्णवर्माभरणाम्वराय़ुधै; र्वृता निशान्तैरिव पावकैर्मही ||
१९ ग
सञ्जय़ उवाच:
शरप्रहाराभिहतैर्महावलै; रवेक्ष्यमाणैः पतितैः सहस्रशः |
२० क
सञ्जय़ उवाच:
प्रनष्टसञ्ज्ञैः पुनरुच्छ्वसद्भि; र्मही वभूवानुगतैरिवाग्निभिः |
२० ख
सञ्जय़ उवाच:
दिवश्च्युतैर्भूरतिदीप्तिमद्भि; र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ||
२० ग
सञ्जय़ उवाच:
शरास्तु कर्णार्जुनवाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् |
२१ क
सञ्जय़ उवाच:
प्राणान्निरस्याशु महीमतीय़ु; र्महोरगा वासमिवाभितोऽस्त्रैः ||
२१ ख
सञ्जय़ उवाच:
हतैर्मनुष्याश्वगजैश्च सङ्ख्ये; शरावभिन्नैश्च रथैर्वभूव |
२२ क
सञ्जय़ उवाच:
धनञ्जय़स्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा ||
२२ ख
सञ्जय़ उवाच:
रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववराय़ुधध्वजैः |
२३ क
सञ्जय़ उवाच:
विशीर्णशस्त्रैर्विनिकृत्तवन्धुरै; र्निकृत्तचक्राक्षय़ुगत्रिवेणुभिः ||
२३ ख
सञ्जय़ उवाच:
विमुक्तय़न्त्रैर्निहतैरय़स्मय़ै; र्हतानुषङ्गैर्विनिषङ्गवन्धुरैः |
२४ क
सञ्जय़ उवाच:
प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः ||
२४ ख
सञ्जय़ उवाच:
विकृष्यमणैर्जवनैरलङ्कृतै; र्हतेश्वरैराजिरथैः सुकल्पितैः |
२५ क
सञ्जय़ उवाच:
मनुष्यमातङ्गरथाश्वराशिभि; र्द्रुतं व्रजन्तो वहुधा विचूर्णिताः ||
२५ ख
सञ्जय़ उवाच:
सहेमपट्टाः परिघाः परश्वधाः; कडङ्गराय़ोमुसलानि पट्टिशाः |
२६ क
सञ्जय़ उवाच:
पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्वूनदपट्टवद्धाः ||
२६ ख
सञ्जय़ उवाच:
चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः |
२७ क
सञ्जय़ उवाच:
ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः ||
२७ ख
सञ्जय़ उवाच:
छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः |
२८ क
सञ्जय़ उवाच:
कुथाः पताकाम्वरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः ||
२८ ख
सञ्जय़ उवाच:
प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः |
२९ क
सञ्जय़ उवाच:
आपीडकेय़ूरवराङ्गदानि; ग्रैवेय़निष्काः ससुवर्णसूत्राः ||
२९ ख
सञ्जय़ उवाच:
मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि |
३० क
सञ्जय़ उवाच:
गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि ||
३० ख
सञ्जय़ उवाच:
देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि |
३१ क
सञ्जय़ उवाच:
स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीय़ुः ||
३१ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः |
३२ क
सञ्जय़ उवाच:
हा कर्ण हा कर्ण इति व्रुवाण; आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः ||
३२ ख
सञ्जय़ उवाच:
तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रय़ान्ति |
३३ क
सञ्जय़ उवाच:
निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् ||
३३ ख
सञ्जय़ उवाच:
नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः |
३४ क
सञ्जय़ उवाच:
रक्ताम्वरस्रक्तपनीय़योगा; न्नारी प्रकाशा इव सर्वगम्या ||
३४ ख
सञ्जय़ उवाच:
प्रच्छन्नरूपा रुधिरेण राज; न्रौद्रे मुहूर्तेऽतिविराजमानाः |
३५ क
सञ्जय़ उवाच:
नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे ||
३५ ख
सञ्जय़ उवाच:
वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति व्रुवाणाः |
३६ क
सञ्जय़ उवाच:
द्रुतं प्रय़ाताः शिविराणि राज; न्दिवाकरं रक्तमवेक्षमाणाः ||
३६ ख
सञ्जय़ उवाच:
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः |
३७ क
सञ्जय़ उवाच:
शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली ||
३७ ख
सञ्जय़ उवाच:
कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान् |
३८ क
सञ्जय़ उवाच:
स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् ||
३८ ख
सञ्जय़ उवाच:
इतीव सञ्चिन्त्य सुरर्षिसङ्घाः; सम्प्रस्थिता यान्ति यथानिकेतम् |
३९ क
सञ्जय़ उवाच:
सञ्चिन्तय़ित्वा च जना विसस्रु; र्यथासुखं खं च महीतलं च ||
३९ ख
सञ्जय़ उवाच:
तदद्भुतं प्राणभृतां भय़ङ्करं; निशम्य युद्धं कुरुवीरमुख्ययोः |
४० क
सञ्जय़ उवाच:
धनञ्जय़स्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रय़युस्तदा जनाः ||
४० ख
सञ्जय़ उवाच:
शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम् |
४१ क
सञ्जय़ उवाच:
गतासुमपि राधेय़ं नैव लक्ष्मीर्व्यमुञ्चत ||
४१ ख
सञ्जय़ उवाच:
नानाभरणवान्राजन्मृष्टजाम्वूनदाङ्गदः |
४२ क
सञ्जय़ उवाच:
हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ||
४२ ख
सञ्जय़ उवाच:
कनकोत्तमसङ्काशः प्रदीप्त इव पावकः |
४३ क
सञ्जय़ उवाच:
सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा |
४३ ख
सञ्जय़ उवाच:
प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ||
४३ ग
सञ्जय़ उवाच:
ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः |
४४ क
सञ्जय़ उवाच:
सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ||
४४ ख
सञ्जय़ उवाच:
यस्य व्राह्मणसात्सर्वमात्मार्थं न महात्मनः |
४५ क
सञ्जय़ उवाच:
नादेय़ं व्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ||
४५ ख
सञ्जय़ उवाच:
सदा नॄणां प्रिय़ो दाता प्रिय़दानो दिवं गतः |
४६ क
सञ्जय़ उवाच:
आदाय़ तव पुत्राणां जय़ाशां शर्म वर्म च ||
४६ ख
सञ्जय़ उवाच:
हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः |
४७ क
सञ्जय़ उवाच:
ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदिय़ाय़ राजन् ||
४७ ख
सञ्जय़ उवाच:
नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम् |
४८ क
सञ्जय़ उवाच:
दिशः सधूमाश्च भृशं प्रजज्वलु; र्महार्णवाश्चुक्षुभिरे च सस्वनाः ||
४८ ख
सञ्जय़ उवाच:
सकाननाः साद्रिचय़ाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष |
४९ क