शकुन्तलो उवाच:
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि |
१ क
शकुन्तलो उवाच:
आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यसि ||
१ ख
शकुन्तलो उवाच:
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् |
२ क
शकुन्तलो उवाच:
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ||
२ ख
शकुन्तलो उवाच:
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् |
३ क
शकुन्तलो उवाच:
आवय़ोरन्तरं पश्य मेरुसर्षपय़ोरिव ||
३ ख
शकुन्तलो उवाच:
महेन्द्रस्य कुवेरस्य यमस्य वरुणस्य च |
४ क
शकुन्तलो उवाच:
भवनान्यनुसंय़ामि प्रभावं पश्य मे नृप ||
४ ख
शकुन्तलो उवाच:
सत्यश्चापि प्रवादोऽय़ं यं प्रवक्ष्यामि तेऽनघ |
५ क
शकुन्तलो उवाच:
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ||
५ ख
शकुन्तलो उवाच:
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् |
६ क
शकुन्तलो उवाच:
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ||
६ ख
शकुन्तलो उवाच:
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते |
७ क
शकुन्तलो उवाच:
तदेतरं विजानाति आत्मानं नेतरं जनम् ||
७ ख
शकुन्तलो उवाच:
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते |
८ क
शकुन्तलो उवाच:
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ||
८ ख
शकुन्तलो उवाच:
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |
९ क
शकुन्तलो उवाच:
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ||
९ ख
शकुन्तलो उवाच:
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |
१० क
शकुन्तलो उवाच:
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ||
१० ख
शकुन्तलो उवाच:
अन्यान्परिवदन्साधुर्यथा हि परितप्यते |
११ क
शकुन्तलो उवाच:
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ||
११ ख
शकुन्तलो उवाच:
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् |
१२ क
शकुन्तलो उवाच:
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ||
१२ ख
शकुन्तलो उवाच:
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः |
१३ क
शकुन्तलो उवाच:
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ||
१३ ख
शकुन्तलो उवाच:
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते |
१४ क
शकुन्तलो उवाच:
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वय़म् ||
१४ ख
शकुन्तलो उवाच:
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव |
१५ क
शकुन्तलो उवाच:
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ||
१५ ख
शकुन्तलो उवाच:
स्वय़मुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते |
१६ क
शकुन्तलो उवाच:
तस्य देवाः श्रिय़ं घ्नन्ति न च लोकानुपाश्नुते ||
१६ ख
शकुन्तलो उवाच:
कुलवंशप्रतिष्ठां हि पितरः पुत्रमव्रुवन् |
१७ क
शकुन्तलो उवाच:
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ||
१७ ख
शकुन्तलो उवाच:
स्वपत्नीप्रभवान्पञ्च लव्धान्क्रीतान्विवर्धितान् |
१८ क
शकुन्तलो उवाच:
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरव्रवीत् ||
१८ ख
शकुन्तलो उवाच:
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः |
१९ क
शकुन्तलो उवाच:
त्राय़न्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ||
१९ ख
शकुन्तलो उवाच:
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि |
२० क
शकुन्तलो उवाच:
आत्मानं सत्यधर्मौ च पालय़ानो महीपते |
२० ख
शकुन्तलो उवाच:
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ||
२० ग
शकुन्तलो उवाच:
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः |
२१ क
शकुन्तलो उवाच:
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ||
२१ ख
शकुन्तलो उवाच:
अश्वमेधसहस्रं च सत्यं च तुलय़ा धृतम् |
२२ क
शकुन्तलो उवाच:
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||
२२ ख
शकुन्तलो उवाच:
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् |
२३ क
शकुन्तलो उवाच:
सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ||
२३ ख
शकुन्तलो उवाच:
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् |
२४ क
शकुन्तलो उवाच:
न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ||
२४ ख
शकुन्तलो उवाच:
राजन्सत्यं परं व्रह्म सत्यं च समय़ः परः |
२५ क
शकुन्तलो उवाच:
मा त्याक्षीः समय़ं राजन्सत्यं सङ्गतमस्तु ते ||
२५ ख
शकुन्तलो उवाच:
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वय़म् |
२६ क
शकुन्तलो उवाच:
आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ||
२६ ख
शकुन्तलो उवाच:
ऋतेऽपि त्वय़ि दुःषन्त शैलराजावतंसकाम् |
२७ क
शकुन्तलो उवाच:
चतुरन्तामिमामुर्वीं पुत्रो मे पालय़िष्यति ||
२७ ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला |
२८ क
वैशम्पाय़न उवाच:
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी |
२८ ख
वैशम्पाय़न उवाच:
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ||
२८ ग
वैशम्पाय़न उवाच:
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः |
२९ क
वैशम्पाय़न उवाच:
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||
२९ ख
वैशम्पाय़न उवाच:
रेतोधाः पुत्र उन्नय़ति नरदेव यमक्षय़ात् |
३० क
वैशम्पाय़न उवाच:
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||
३० ख
वैशम्पाय़न उवाच:
जाय़ा जनय़ते पुत्रमात्मनोऽङ्गं द्विधा कृतम् |
३१ क
वैशम्पाय़न उवाच:
तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ||
३१ ख
वैशम्पाय़न उवाच:
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् |
३२ क
वैशम्पाय़न उवाच:
शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ||
३२ ख
वैशम्पाय़न उवाच:
भर्तव्योऽय़ं त्वय़ा यस्मादस्माकं वचनादपि |
३३ क
वैशम्पाय़न उवाच:
तस्माद्भवत्वय़ं नाम्ना भरतो नाम ते सुतः ||
३३ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् |
३४ क
वैशम्पाय़न उवाच:
पुरोहितममात्यांश्च सम्प्रहृष्टोऽव्रवीदिदम् ||
३४ ख
वैशम्पाय़न उवाच:
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् |
३५ क
वैशम्पाय़न उवाच:
अहमप्येवमेवैनं जानामि स्वय़मात्मजम् ||
३५ ख
वैशम्पाय़न उवाच:
यद्यहं वचनादेव गृह्णीय़ामिममात्मजम् |
३६ क
वैशम्पाय़न उवाच:
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदय़म् ||
३६ ख
वैशम्पाय़न उवाच:
तं विशोध्य तदा राजा देवदूतेन भारत |
३७ क
वैशम्पाय़न उवाच:
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ||
३७ ख
वैशम्पाय़न उवाच:
मूर्ध्नि चैनमुपाघ्राय़ सस्नेहं परिषस्वजे |
३८ क
वैशम्पाय़न उवाच:
सभाज्यमानो विप्रैश्च स्तूय़मानश्च वन्दिभिः |
३८ ख
वैशम्पाय़न उवाच:
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ||
३८ ग
वैशम्पाय़न उवाच:
तां चैव भार्यां धर्मज्ञः पूजय़ामास धर्मतः |
३९ क
वैशम्पाय़न उवाच:
अव्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ||
३९ ख
वैशम्पाय़न उवाच:
कृतो लोकपरोक्षोऽय़ं सम्वन्धो वै त्वय़ा सह |
४० क
वैशम्पाय़न उवाच:
तस्मादेतन्मय़ा देवि त्वच्छुद्ध्यर्थं विचारितम् ||
४० ख
वैशम्पाय़न उवाच:
मन्यते चैव लोकस्ते स्त्रीभावान्मय़ि सङ्गतम् |
४१ क
वैशम्पाय़न उवाच:
पुत्रश्चाय़ं वृतो राज्ये मय़ा तस्माद्विचारितम् ||
४१ ख
वैशम्पाय़न उवाच:
यच्च कोपितय़ात्यर्थं त्वय़ोक्तोऽस्म्यप्रिय़ं प्रिय़े |
४२ क
वैशम्पाय़न उवाच:
प्रणय़िन्या विशालाक्षि तत्क्षान्तं ते मय़ा शुभे ||
४२ ख
वैशम्पाय़न उवाच:
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रिय़ाम् |
४३ क
वैशम्पाय़न उवाच:
वासोभिरन्नपानैश्च पूजय़ामास भारत ||
४३ ख
वैशम्पाय़न उवाच:
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा |
४४ क
वैशम्पाय़न उवाच:
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचय़त् ||
४४ ख
वैशम्पाय़न उवाच:
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः |
४५ क
वैशम्पाय़न उवाच:
भास्वरं दिव्यमजितं लोकसंनादनं महत् ||
४५ ख
वैशम्पाय़न उवाच:
स विजित्य महीपालांश्चकार वशवर्तिनः |
४६ क
वैशम्पाय़न उवाच:
चचार च सतां धर्मं प्राप चानुत्तमं यशः ||
४६ ख
वैशम्पाय़न उवाच:
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् |
४७ क
वैशम्पाय़न उवाच:
ईजे च वहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ||
४७ ख
वैशम्पाय़न उवाच:
याजय़ामास तं कण्वो दक्षवद्भूरिदक्षिणम् |
४८ क
वैशम्पाय़न उवाच:
श्रीमान्गोविततं नाम वाजिमेधमवाप सः |
४८ ख
वैशम्पाय़न उवाच:
यस्मिन्सहस्रं पद्मानां कण्वाय़ भरतो ददौ ||
४८ ग