युधिष्ठिर उवाच:
पार्थिवेन विशेषेण किं कार्यमवशिष्यते |
१ क
युधिष्ठिर उवाच:
कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ||
१ ख
युधिष्ठिर उवाच:
कथं चारं प्रय़ुञ्जीत वर्णान्विश्वासय़ेत्कथम् |
२ क
युधिष्ठिर उवाच:
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ||
२ ख
भीष्म उवाच:
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् |
३ क
भीष्म उवाच:
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ||
३ ख
भीष्म उवाच:
आत्मा जेय़ः सदा राज्ञा ततो जेय़ाश्च शत्रवः |
४ क
भीष्म उवाच:
अजितात्मा नरपतिर्विजय़ेत कथं रिपून् ||
४ ख
भीष्म उवाच:
एतावानात्मविजय़ः पञ्चवर्गविनिग्रहः |
५ क
भीष्म उवाच:
जितेन्द्रिय़ो नरपतिर्वाधितुं शक्नुय़ादरीन् ||
५ ख
भीष्म उवाच:
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन |
६ क
भीष्म उवाच:
नगरोपवने चैव पुरोद्यानेषु चैव ह ||
६ ख
भीष्म उवाच:
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च |
७ क
भीष्म उवाच:
मध्ये च नरशार्दूल तथा राजनिवेशने ||
७ ख
भीष्म उवाच:
प्रणिधींश्च ततः कुर्याज्जडान्धवधिराकृतीन् |
८ क
भीष्म उवाच:
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ||
८ ख
भीष्म उवाच:
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च |
९ क
भीष्म उवाच:
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ||
९ ख
भीष्म उवाच:
पुरे जनपदे चैव तथा सामन्तराजसु |
१० क
भीष्म उवाच:
यथा न विद्युरन्योन्यं प्रणिधेय़ास्तथा हि ते ||
१० ख
भीष्म उवाच:
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ |
११ क
भीष्म उवाच:
आपणेषु विहारेषु समवाय़ेषु भिक्षुषु ||
११ ख
भीष्म उवाच:
आरामेषु तथोद्याने पण्डितानां समागमे |
१२ क
भीष्म उवाच:
वेशेषु चत्वरे चैव सभास्वावसथेषु च ||
१२ ख
भीष्म उवाच:
एवं विहन्याच्चारेण परचारं विचक्षणः |
१३ क
भीष्म उवाच:
चारेण विहतं सर्वं हतं भवति पाण्डव ||
१३ ख
भीष्म उवाच:
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना |
१४ क
भीष्म उवाच:
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं वलीय़सा ||
१४ ख
भीष्म उवाच:
अज्ञाय़मानो हीनत्वे कुर्यात्सन्धिं परेण वै |
१५ क
भीष्म उवाच:
लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ||
१५ ख
भीष्म उवाच:
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये |
१६ क
भीष्म उवाच:
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालय़न् ||
१६ ख
भीष्म उवाच:
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः |
१७ क
भीष्म उवाच:
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ||
१७ ख
भीष्म उवाच:
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः |
१८ क
भीष्म उवाच:
अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ||
१८ ख
भीष्म उवाच:
यात्रां याय़ादविज्ञातमनाक्रन्दमनन्तरम् |
१९ क
भीष्म उवाच:
व्यासक्तं च प्रमत्तं च दुर्वलं च विचक्षणः ||
१९ ख
भीष्म उवाच:
यात्रामाज्ञापय़ेद्वीरः कल्यपुष्टवलः सुखी |
२० क
भीष्म उवाच:
पूर्वं कृत्वा विधानं च यात्राय़ां नगरे तथा ||
२० ख
भीष्म उवाच:
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् |
२१ क
भीष्म उवाच:
हीनश्च वलवीर्याभ्यां कर्शय़ंस्तं परावसेत् ||
२१ ख
भीष्म उवाच:
राष्ट्रं च पीडय़ेत्तस्य शस्त्राग्निविषमूर्छनैः |
२२ क
भीष्म उवाच:
अमात्यवल्लभानां च विवादांस्तस्य कारय़ेत् |
२२ ख
भीष्म उवाच:
वर्जनीय़ं सदा युद्धं राज्यकामेन धीमता ||
२२ ग
भीष्म उवाच:
उपाय़ैस्त्रिभिरादानमर्थस्याह वृहस्पतिः |
२३ क
भीष्म उवाच:
सान्त्वेनानुप्रदानेन भेदेन च नराधिप |
२३ ख
भीष्म उवाच:
यमर्थं शक्नुय़ात्प्राप्तुं तेन तुष्येद्धि पण्डितः ||
२३ ग
भीष्म उवाच:
आददीत वलिं चैव प्रजाभ्यः कुरुनन्दन |
२४ क
भीष्म उवाच:
षड्भागममितप्रज्ञस्तासामेवाभिगुप्तय़े ||
२४ ख
भीष्म उवाच:
दशधर्मगतेभ्यो यद्वसु वह्वल्पमेव च |
२५ क
भीष्म उवाच:
तन्नाददीत सहसा पौराणां रक्षणाय़ वै ||
२५ ख
भीष्म उवाच:
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशय़ः |
२६ क
भीष्म उवाच:
भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ||
२६ ख
भीष्म उवाच:
सुतं च स्थापय़ेद्राजा प्राज्ञं सर्वार्थदर्शिनम् |
२७ क
भीष्म उवाच:
व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ||
२७ ख
भीष्म उवाच:
आकरे लवणे शुल्के तरे नागवने तथा |
२८ क
भीष्म उवाच:
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ||
२८ ख
भीष्म उवाच:
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुय़ात् |
२९ क
भीष्म उवाच:
नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ||
२९ ख
भीष्म उवाच:
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् |
३० क
भीष्म उवाच:
दानशीलश्च सततं यज्ञशीलश्च भारत ||
३० ख
भीष्म उवाच:
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः |
३१ क
भीष्म उवाच:
क्रिय़ालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ||
३१ ख
भीष्म उवाच:
यदा तु पीडितो राजा भवेद्राज्ञा वलीय़सा |
३२ क
भीष्म उवाच:
त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पय़ेत् ||
३२ ख
भीष्म उवाच:
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापय़ेदपि |
३३ क
भीष्म उवाच:
प्रवेशय़ेच्च तान्सर्वाञ्शाखानगरकेष्वपि ||
३३ ख
भीष्म उवाच:
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशय़ेत् |
३४ क
भीष्म उवाच:
धनिनो वलमुख्यांश्च सान्त्वय़ित्वा पुनः पुनः ||
३४ ख
भीष्म उवाच:
सस्याभिहारं कुर्याच्च स्वय़मेव नराधिपः |
३५ क
भीष्म उवाच:
असम्भवे प्रवेशस्य दाहय़ेदग्निना भृशम् ||
३५ ख
भीष्म उवाच:
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् |
३६ क
भीष्म उवाच:
विनाशय़ेद्वा सर्वस्वं वलेनाथ स्वकेन वै ||
३६ ख
भीष्म उवाच:
नदीषु मार्गेषु सदा सङ्क्रमानवसादय़ेत् |
३७ क
भीष्म उवाच:
जलं निस्रावय़ेत्सर्वमनिस्राव्यं च दूषय़ेत् ||
३७ ख
भीष्म उवाच:
तदात्वेनाय़तीभिश्च विवदन्भूम्यनन्तरम् |
३८ क
भीष्म उवाच:
प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ||
३८ ख
भीष्म उवाच:
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारय़ेत् |
३९ क
भीष्म उवाच:
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जय़ेत् ||
३९ ख
भीष्म उवाच:
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदय़ेत्तथा |
४० क
भीष्म उवाच:
चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ||
४० ख
भीष्म उवाच:
प्रकण्ठीः कारय़ेत्सम्यगाकाशजननीस्तथा |
४१ क
भीष्म उवाच:
आपूरय़ेच्च परिखाः स्थाणुनक्रझषाकुलाः ||
४१ ख
भीष्म उवाच:
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह |
४२ क
भीष्म उवाच:
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ||
४२ ख
भीष्म उवाच:
द्वारेषु च गुरूण्येव यन्त्राणि स्थापय़ेत्सदा |
४३ क
भीष्म उवाच:
आरोपय़ेच्छतघ्नीश्च स्वाधीनानि च कारय़ेत् ||
४३ ख
भीष्म उवाच:
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानय़ेत् |
४४ क
भीष्म उवाच:
संशोधय़ेत्तथा कूपान्कृतान्पूर्वं पय़ोर्थिभिः ||
४४ ख
भीष्म उवाच:
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपय़ेत् |
४५ क
भीष्म उवाच:
निर्हरेच्च तृणं मासे चैत्रे वह्निभय़ात्पुरः ||
४५ ख
भीष्म उवाच:
नक्तमेव च भक्तानि पाचय़ेत नराधिपः |
४६ क
भीष्म उवाच:
न दिवाग्निर्ज्वलेद्गेहे वर्जय़ित्वाग्निहोत्रिकम् ||
४६ ख
भीष्म उवाच:
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः |
४७ क
भीष्म उवाच:
गृहाणि च प्रविश्याथ विधेय़ः स्याद्धुताशनः ||
४७ ख
भीष्म उवाच:
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् |
४८ क
भीष्म उवाच:
प्रघोषय़ेदथैवं च रक्षणार्थं पुरस्य वै ||
४८ ख
भीष्म उवाच:
भिक्षुकांश्चाक्रिकांश्चैव क्षीवोन्मत्तान्कुशीलवान् |
४९ क
भीष्म उवाच:
वाह्यान्कुर्यान्नरश्रेष्ठ दोषाय़ स्युर्हि तेऽन्यथा ||
४९ ख