सञ्जय़ उवाच:
विराटोऽथ त्रिभिर्वाणैर्भीष्ममार्छन्महारथम् |
१ क
सञ्जय़ उवाच:
विव्याध तुरगांश्चास्य त्रिभिर्वाणैर्महारथः ||
१ ख
सञ्जय़ उवाच:
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः |
२ क
सञ्जय़ उवाच:
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महावलः ||
२ ख
सञ्जय़ उवाच:
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः |
३ क
सञ्जय़ उवाच:
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे ||
३ ख
सञ्जय़ उवाच:
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा |
४ क
सञ्जय़ उवाच:
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ||
४ ख
सञ्जय़ उवाच:
सोऽन्यत्कार्मुकमादाय़ वेगवत्क्रोधमूर्छितः |
५ क
सञ्जय़ उवाच:
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ||
५ ख
सञ्जय़ उवाच:
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः |
६ क
सञ्जय़ उवाच:
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ||
६ ख
सञ्जय़ उवाच:
ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः |
७ क
सञ्जय़ उवाच:
दीर्घमुष्णं च निःश्वस्य चिन्तय़ित्वा मुहुर्मुहुः ||
७ ख
सञ्जय़ उवाच:
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः |
८ क
सञ्जय़ उवाच:
गाण्डीवधन्वा सङ्क्रुद्धः शितान्संनतपर्वणः |
८ ख
सञ्जय़ उवाच:
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ||
८ ग
सञ्जय़ उवाच:
तैस्तूर्णं समरेऽविध्यद्द्रौणिं वलवतां वरम् |
९ क
सञ्जय़ उवाच:
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ||
९ ख
सञ्जय़ उवाच:
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना |
१० क
सञ्जय़ उवाच:
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः |
१० ख
सञ्जय़ उवाच:
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम् ||
१० ग
सञ्जय़ उवाच:
तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः |
११ क
सञ्जय़ उवाच:
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संय़ुगे ||
११ ख
सञ्जय़ उवाच:
स हि नित्यमनीकेषु युध्यतेऽभय़मास्थितः |
१२ क
सञ्जय़ उवाच:
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ||
१२ ख
सञ्जय़ उवाच:
ममाय़माचार्यसुतो द्रोणस्यातिप्रिय़ः सुतः |
१३ क
सञ्जय़ उवाच:
व्राह्मणश्च विशेषेण माननीय़ो ममेति च ||
१३ ख
सञ्जय़ उवाच:
समास्थाय़ मतिं वीरो वीभत्सुः शत्रुतापनः |
१४ क
सञ्जय़ उवाच:
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ||
१४ ख
सञ्जय़ उवाच:
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेय़ः शत्रुतापनः |
१५ क
सञ्जय़ उवाच:
युय़ुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ||
१५ ख
सञ्जय़ उवाच:
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः |
१६ क
सञ्जय़ उवाच:
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पय़त् ||
१६ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धः परासुकरणं दृढम् |
१७ क
सञ्जय़ उवाच:
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ||
१७ ख
सञ्जय़ उवाच:
आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः |
१८ क
सञ्जय़ उवाच:
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ||
१८ ख
सञ्जय़ उवाच:
तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः |
१९ क
सञ्जय़ उवाच:
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः ||
१९ ख
सञ्जय़ उवाच:
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः |
२० क
सञ्जय़ उवाच:
नामृष्यत यथा नागस्तलशव्दं समीरितम् ||
२० ख
सञ्जय़ उवाच:
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः |
२१ क
सञ्जय़ उवाच:
भीमं विव्याध सङ्क्रुद्धस्त्रासय़ानो वरूथिनीम् ||
२१ ख
सञ्जय़ उवाच:
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ |
२२ क
सञ्जय़ उवाच:
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महावलौ ||
२२ ख
सञ्जय़ उवाच:
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा |
२३ क
सञ्जय़ उवाच:
अविध्यद्दशभिर्वाणैः पुरुमित्रं च सप्तभिः ||
२३ ख
सञ्जय़ उवाच:
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि |
२४ क
सञ्जय़ उवाच:
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ||
२४ ख
सञ्जय़ उवाच:
तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः |
२५ क
सञ्जय़ उवाच:
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ||
२५ ख
सञ्जय़ उवाच:
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् |
२६ क
सञ्जय़ उवाच:
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः |
२६ ख
सञ्जय़ उवाच:
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडय़त् ||
२६ ग
सञ्जय़ उवाच:
ततस्ते तावका वीरा राजपुत्रा महारथाः |
२७ क
सञ्जय़ उवाच:
समेत्य युधि संरव्धा विव्यधुर्निशितैः शरैः |
२७ ख
सञ्जय़ उवाच:
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ||
२७ ग
सञ्जय़ उवाच:
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव |
२८ क
सञ्जय़ उवाच:
दहन्तं समरे सैन्यं तव कक्षं यथोल्वणम् ||
२८ ख
सञ्जय़ उवाच:
अपेतशिशिरे काले समिद्धमिव पावकः |
२९ क
सञ्जय़ उवाच:
अत्यरोचत सौभद्रस्तव सैन्यानि शातय़न् ||
२९ ख
सञ्जय़ उवाच:
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते |
३० क
सञ्जय़ उवाच:
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ||
३० ख
सञ्जय़ उवाच:
अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् |
३१ क
सञ्जय़ उवाच:
विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः ||
३१ ख
सञ्जय़ उवाच:
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः |
३२ क
सञ्जय़ उवाच:
अविध्यत महाराज तदद्भुतमिवाभवत् ||
३२ ख
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा सारथिं च महावलः |
३३ क
सञ्जय़ उवाच:
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ||
३३ ख
सञ्जय़ उवाच:
हताश्वे तु रथे तुष्ठँल्लक्ष्मणः परवीरहा |
३४ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ||
३४ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा घोररूपां दुरासदाम् |
३५ क
सञ्जय़ उवाच:
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ||
३५ ख
सञ्जय़ उवाच:
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा |
३६ क
सञ्जय़ उवाच:
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ||
३६ ख
सञ्जय़ उवाच:
ततः समाकुले तस्मिन्वर्तमाने महाभय़े |
३७ क
सञ्जय़ उवाच:
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ||
३७ ख
सञ्जय़ उवाच:
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः |
३८ क
सञ्जय़ उवाच:
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ||
३८ ख
सञ्जय़ उवाच:
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः |
३९ क
सञ्जय़ उवाच:
वाहुभिः समय़ुध्यन्त सृञ्जय़ाः कुरुभिः सह ||
३९ ख
सञ्जय़ उवाच:
ततो भीष्मो महावाहुः पाण्डवानां महात्मनाम् |
४० क
सञ्जय़ उवाच:
सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महावलः ||
४० ख
सञ्जय़ उवाच:
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः |
४१ क
सञ्जय़ उवाच:
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ||
४१ ख