सञ्जय़ उवाच:
ततः प्रविष्टे कौन्तेय़े सिन्धुराजजिघांसय़ा |
१ क
सञ्जय़ उवाच:
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ||
१ ख
सञ्जय़ उवाच:
काम्वोजस्य च दाय़ादे हते राजन्सुदक्षिणे |
२ क
सञ्जय़ उवाच:
श्रुताय़ुधे च विक्रान्ते निहते सव्यसाचिना ||
२ ख
सञ्जय़ उवाच:
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः |
३ क
सञ्जय़ उवाच:
प्रभग्नं स्ववलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ||
३ ख
सञ्जय़ उवाच:
त्वरन्नेकरथेनैव समेत्य द्रोणमव्रवीत् |
४ क
सञ्जय़ उवाच:
गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ||
४ ख
सञ्जय़ उवाच:
अत्र वुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् |
५ क
सञ्जय़ उवाच:
अर्जुनस्य विघाताय़ दारुणेऽस्मिञ्जनक्षय़े ||
५ ख
सञ्जय़ उवाच:
यथा स पुरुषव्याघ्रो न हन्येत जय़द्रथः |
६ क
सञ्जय़ उवाच:
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ||
६ ख
सञ्जय़ उवाच:
असौ धनञ्जय़ाग्निर्हि कोपमारुतचोदितः |
७ क
सञ्जय़ उवाच:
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ||
७ ख
सञ्जय़ उवाच:
अतिक्रान्ते हि कौन्तेय़े भित्त्वा सैन्यं परन्तप |
८ क
सञ्जय़ उवाच:
जय़द्रथस्य गोप्तारः संशय़ं परमं गताः ||
८ ख
सञ्जय़ उवाच:
स्थिरा वुद्धिर्नरेन्द्राणामासीद्व्रह्मविदां वर |
९ क
सञ्जय़ उवाच:
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जय़ः ||
९ ख
सञ्जय़ उवाच:
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते |
१० क
सञ्जय़ उवाच:
सर्वं ह्यद्यातुरं मन्ये नैतदस्ति वलं मम ||
१० ख
सञ्जय़ उवाच:
जानामि त्वां महाभाग पाण्डवानां हिते रतम् |
११ क
सञ्जय़ उवाच:
तथा मुह्यामि च व्रह्मन्कार्यवत्तां विचिन्तय़न् ||
११ ख
सञ्जय़ उवाच:
यथाशक्ति च ते व्रह्मन्वर्तय़े वृत्तिमुत्तमाम् |
१२ क
सञ्जय़ उवाच:
प्रीणामि च यथाशक्ति तच्च त्वं नाववुध्यसे ||
१२ ख
सञ्जय़ उवाच:
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम |
१३ क
सञ्जय़ उवाच:
पाण्डवान्सततं प्रीणास्यस्माकं विप्रिय़े रतान् ||
१३ ख
सञ्जय़ उवाच:
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिय़े रतः |
१४ क
सञ्जय़ उवाच:
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ||
१४ ख
सञ्जय़ उवाच:
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे |
१५ क
सञ्जय़ उवाच:
नावारय़िष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ||
१५ ख
सञ्जय़ उवाच:
मय़ा त्वाशंसमानेन त्वत्तस्त्राणमवुद्धिना |
१६ क
सञ्जय़ उवाच:
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ||
१६ ख
सञ्जय़ उवाच:
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः |
१७ क
सञ्जय़ उवाच:
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जय़द्रथः ||
१७ ख
सञ्जय़ उवाच:
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः |
१८ क
सञ्जय़ उवाच:
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ||
१८ ख
द्रोण उवाच:
नाभ्यसूय़ामि ते वाचमश्वत्थाम्नासि मे समः |
१९ क
द्रोण उवाच:
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ||
१९ ख
द्रोण उवाच:
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हय़ोत्तमाः |
२० क
द्रोण उवाच:
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जय़ः ||
२० ख
द्रोण उवाच:
किं नु पश्यसि वाणौघान्क्रोशमात्रे किरीटिनः |
२१ क
द्रोण उवाच:
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ||
२१ ख
द्रोण उवाच:
न चाहं शीघ्रय़ानेऽद्य समर्थो वय़सान्वितः |
२२ क
द्रोण उवाच:
सेनामुखे च पार्थानामेतद्वलमुपस्थितम् ||
२२ ख
द्रोण उवाच:
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् |
२३ क
द्रोण उवाच:
एवं मय़ा प्रतिज्ञातं क्षत्रमध्ये महाभुज ||
२३ ख
द्रोण उवाच:
धनञ्जय़ेन चोत्सृष्टो वर्तते प्रमुखे मम |
२४ क
द्रोण उवाच:
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ||
२४ ख
द्रोण उवाच:
तुल्याभिजनकर्माणं शत्रुमेकं सहाय़वान् |
२५ क
द्रोण उवाच:
गत्वा योधय़ मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ||
२५ ख
द्रोण उवाच:
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः |
२६ क
द्रोण उवाच:
वीर स्वय़ं प्रय़ाह्याशु यत्र यातो धनञ्जय़ः ||
२६ ख
दुर्योधन उवाच:
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः |
२७ क
दुर्योधन उवाच:
धनञ्जय़ो मय़ा शक्य आचार्य प्रतिवाधितुम् ||
२७ ख
दुर्योधन उवाच:
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः |
२८ क
दुर्योधन उवाच:
नार्जुनः समरे शक्यो जेतुं परपुरञ्जय़ः ||
२८ ख
दुर्योधन उवाच:
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः |
२९ क
दुर्योधन उवाच:
अस्त्रप्रतापेन जितौ श्रुताय़ुश्च निवर्हितः ||
२९ ख
दुर्योधन उवाच:
सुदक्षिणश्च निहतः स च राजा श्रुताय़ुधः |
३० क
दुर्योधन उवाच:
श्रुताय़ुश्चाच्युताय़ुश्च म्लेच्छाश्च शतशो हताः ||
३० ख
दुर्योधन उवाच:
तं कथं पाण्डवं युद्धे दहन्तमहितान्वहून् |
३१ क
दुर्योधन उवाच:
प्रतिय़ोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ||
३१ ख
दुर्योधन उवाच:
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् |
३२ क
दुर्योधन उवाच:
परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ||
३२ ख
द्रोण उवाच:
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जय़ः |
३३ क
द्रोण उवाच:
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ||
३३ ख
द्रोण उवाच:
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः |
३४ क
द्रोण उवाच:
विषक्तं त्वय़ि कौन्तेय़ं वासुदेवस्य पश्यतः ||
३४ ख
द्रोण उवाच:
एष ते कवचं राजंस्तथा वध्नामि काञ्चनम् |
३५ क
द्रोण उवाच:
यथा न वाणा नास्त्राणि विषहिष्यन्ति ते रणे ||
३५ ख
द्रोण उवाच:
यदि त्वां सासुरसुराः सय़क्षोरगराक्षसाः |
३६ क
द्रोण उवाच:
योधय़न्ति त्रय़ो लोकाः सनरा नास्ति ते भय़म् ||
३६ ख
द्रोण उवाच:
न कृष्णो न च कौन्तेय़ो न चान्यः शस्त्रभृद्रणे |
३७ क
द्रोण उवाच:
शरानर्पय़ितुं कश्चित्कवचे तव शक्ष्यति ||
३७ ख
द्रोण उवाच:
स त्वं कवचमास्थाय़ क्रुद्धमद्य रणेऽर्जुनम् |
३८ क
द्रोण उवाच:
त्वरमाणः स्वय़ं याहि न चासौ त्वां सहिष्यते ||
३८ ख
सञ्जय़ उवाच:
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् |
३९ क
सञ्जय़ उवाच:
आववन्धाद्भुततमं जपन्मन्त्रं यथाविधि ||
३९ ख
सञ्जय़ उवाच:
रणे तस्मिन्सुमहति विजय़ाय़ सुतस्य ते |
४० क
सञ्जय़ उवाच:
विसिस्मापय़िषुर्लोकं विद्यया व्रह्मवित्तमः ||
४० ख
द्रोण उवाच:
करोतु स्वस्ति ते व्रह्मा स्वस्ति चापि द्विजातय़ः |
४१ क
द्रोण उवाच:
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ||
४१ ख
द्रोण उवाच:
यय़ातिर्नहुषश्चैव धुन्धुमारो भगीरथः |
४२ क
द्रोण उवाच:
तुभ्यं राजर्षय़ः सर्वे स्वस्ति कुर्वन्तु सर्वशः ||
४२ ख
द्रोण उवाच:
स्वस्ति तेऽस्त्वेकपादेभ्यो वहुपादेभ्य एव च |
४३ क
द्रोण उवाच:
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ||
४३ ख
द्रोण उवाच:
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा |
४४ क
द्रोण उवाच:
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ||
४४ ख
द्रोण उवाच:
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः |
४५ क
द्रोण उवाच:
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ||
४५ ख
द्रोण उवाच:
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः |
४६ क
द्रोण उवाच:
स्वस्ति तेऽद्य प्रय़च्छन्तु कार्त्तिकेय़श्च षण्मुखः ||
४६ ख
द्रोण उवाच:
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः |
४७ क
द्रोण उवाच:
दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ||
४७ ख
द्रोण उवाच:
अधस्ताद्धरणीं योऽसौ सदा धारय़ते नृप |
४८ क
द्रोण उवाच:
स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रय़च्छतु ||
४८ ख
द्रोण उवाच:
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः |
४९ क
द्रोण उवाच:
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ||
४९ ख
द्रोण उवाच:
हृततेजोवलाः सर्वे तदा सेन्द्रा दिवौकसः |
५० क
द्रोण उवाच:
व्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ||
५० ख