chevron_left कर्ण पर्व अध्याय ६९
सञ्जय़ उवाच:
तथा निपातिते कर्णे तव सैन्ये च विद्रुते |
१ क
सञ्जय़ उवाच:
आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमव्रवीत् ||
१ ख
सञ्जय़ उवाच:
हतो वलभिदा वृत्रस्त्वय़ा कर्णो धनञ्जय़ |
२ क
सञ्जय़ उवाच:
वधं वै कर्णवृत्राभ्यां कथय़िष्यन्ति मानवाः ||
२ ख
सञ्जय़ उवाच:
वज्रिणा निहतो वृत्रः संय़ुगे भूरितेजसा |
३ क
सञ्जय़ उवाच:
त्वय़ा तु निहतः कर्णो धनुषा निशितैः शरैः ||
३ ख
सञ्जय़ उवाच:
तमिमं विक्रमं लोके प्रथितं ते यशोवहम् |
४ क
सञ्जय़ उवाच:
निवेदय़ावः कौन्तेय़ धर्मराजाय़ धीमते ||
४ ख
सञ्जय़ उवाच:
वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम् |
५ क
सञ्जय़ उवाच:
निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ||
५ ख
सञ्जय़ उवाच:
तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः |
६ क
सञ्जय़ उवाच:
पर्यवर्तय़दव्यग्रो रथं रथवरस्य तम् ||
६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् |
७ क
सञ्जय़ उवाच:
युय़ुधानं च गोविन्द इदं वचनमव्रवीत् ||
७ ख
सञ्जय़ उवाच:
परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः |
८ क
सञ्जय़ उवाच:
यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ||
८ ख
सञ्जय़ उवाच:
स तैः शूरैरनुज्ञातो यय़ौ राजनिवेशनम् |
९ क
सञ्जय़ उवाच:
पार्थमादाय़ गोविन्दो ददर्श च युधिष्ठिरम् ||
९ ख
सञ्जय़ उवाच:
शय़ानं राजशार्दूलं काञ्चने शय़नोत्तमे |
१० क
सञ्जय़ उवाच:
अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ||
१० ख
सञ्जय़ उवाच:
तय़ोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् |
११ क
सञ्जय़ उवाच:
राधेय़ं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ||
११ ख
सञ्जय़ उवाच:
ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रिय़ंवदः |
१२ क
सञ्जय़ उवाच:
कथय़ामास कर्णस्य निधनं यदुनन्दनः ||
१२ ख
सञ्जय़ उवाच:
ईषदुत्स्मय़मानस्तु कृष्णो राजानमव्रवीत् |
१३ क
सञ्जय़ उवाच:
युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ||
१३ ख
सञ्जय़ उवाच:
दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः |
१४ क
सञ्जय़ उवाच:
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ||
१४ ख
सञ्जय़ उवाच:
मुक्ता वीरक्षय़ादस्मात्सङ्ग्रामाल्लोमहर्षणात् |
१५ क
सञ्जय़ उवाच:
क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ||
१५ ख
सञ्जय़ उवाच:
हतो वैकर्तनः क्रूरः सूतपुत्रो महावलः |
१६ क
सञ्जय़ उवाच:
दिष्ट्या जय़सि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ||
१६ ख
सञ्जय़ उवाच:
यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः |
१७ क
सञ्जय़ उवाच:
तस्याद्य सूतपुत्रस्य भूमिः पिवति शोणितम् ||
१७ ख
सञ्जय़ उवाच:
शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव |
१८ क
सञ्जय़ उवाच:
तं पश्य पुरुषव्याघ्र विभिन्नं वहुधा शरैः ||
१८ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजय़त् |
१९ क
सञ्जय़ उवाच:
दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ||
१९ ख
सञ्जय़ उवाच:
नैतच्चित्रं महावाहो त्वय़ि देवकिनन्दन |
२० क
सञ्जय़ उवाच:
त्वय़ा सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ||
२० ख
सञ्जय़ उवाच:
प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् |
२१ क
सञ्जय़ उवाच:
उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ||
२१ ख
सञ्जय़ उवाच:
नरनाराय़णौ देवौ कथितौ नारदेन ह |
२२ क
सञ्जय़ उवाच:
धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ||
२२ ख
सञ्जय़ उवाच:
असकृच्चापि मेधावी कृष्णद्वैपाय़नो मम |
२३ क
सञ्जय़ उवाच:
कथामेतां महावाहो दिव्यामकथय़त्प्रभुः ||
२३ ख
सञ्जय़ उवाच:
तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जय़ः |
२४ क
सञ्जय़ उवाच:
जय़त्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ||
२४ ख
सञ्जय़ उवाच:
जय़श्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजय़ः |
२५ क
सञ्जय़ उवाच:
यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ||
२५ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज तं रथं हेमभूषितम् |
२६ क
सञ्जय़ उवाच:
दन्तवर्णैर्हय़ैर्युक्तं कालवालैर्महारथः ||
२६ ख
सञ्जय़ उवाच:
आस्थाय़ पुरुषव्याघ्रः स्ववलेनाभिसंवृतः |
२७ क
सञ्जय़ उवाच:
कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रिय़म् ||
२७ ख
सञ्जय़ उवाच:
आगतो वहुवृत्तान्तं द्रष्टुमाय़ोधनं तदा |
२८ क
सञ्जय़ उवाच:
आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ||
२८ ख
सञ्जय़ उवाच:
स ददर्श रणे कर्णं शय़ानं पुरुषर्षभम् |
२९ क
सञ्जय़ उवाच:
गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ||
२९ ख
सञ्जय़ उवाच:
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः |
३० क
सञ्जय़ उवाच:
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ||
३० ख
सञ्जय़ उवाच:
अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह |
३१ क
सञ्जय़ उवाच:
त्वय़ा नाथेन वीरेण विदुषा परिपालितः ||
३१ ख
सञ्जय़ उवाच:
हतं दृष्ट्वा नरव्याघ्रं राधेय़मभिमानिनम् |
३२ क
सञ्जय़ उवाच:
निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति |
३२ ख
सञ्जय़ उवाच:
जीविताच्चापि राज्याच्च हते कर्णे महारथे ||
३२ ग
सञ्जय़ उवाच:
त्वत्प्रसादाद्वय़ं चैव कृतार्थाः पुरुषर्षभ |
३३ क
सञ्जय़ उवाच:
त्वं च गाण्डीवधन्वा च विजय़ी यदुनन्दन |
३३ ख
सञ्जय़ उवाच:
दिष्ट्या जय़सि गोविन्द दिष्ट्या कर्णो निपातितः ||
३३ ग
सञ्जय़ उवाच:
एवं स वहुशो हृष्टः प्रशशंस जनार्दनम् |
३४ क
सञ्जय़ उवाच:
अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ||
३४ ख
सञ्जय़ उवाच:
ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् |
३५ क
सञ्जय़ उवाच:
वर्धय़न्ति स्म राजानं हर्षय़ुक्ता महारथाः ||
३५ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः |
३६ क
सञ्जय़ उवाच:
सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ||
३६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जय़ाः |
३७ क
सञ्जय़ उवाच:
पूजय़न्ति स्म कौन्तेय़ं निहते सूतनन्दने ||
३७ ख
सञ्जय़ उवाच:
ते वर्धय़ित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् |
३८ क
सञ्जय़ उवाच:
जितकाशिनो लव्धलक्षा युद्धशौण्डाः प्रहारिणः ||
३८ ख
सञ्जय़ उवाच:
स्तुवन्तः स्तवय़ुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ |
३९ क
सञ्जय़ उवाच:
जग्मुः स्वशिविराय़ैव मुदा युक्ता महारथाः ||
३९ ख
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तः सुमहाँल्लोमहर्षणः |
४० क
सञ्जय़ उवाच:
तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ||
४० ख
वैशम्पाय़न उवाच:
श्रुत्वा तदप्रिय़ं राजन्धृतराष्ट्रो महीपतिः |
४१ क
वैशम्पाय़न उवाच:
पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् |
४१ ख
वैशम्पाय़न उवाच:
तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ||
४१ ग
वैशम्पाय़न उवाच:
तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जय़स्तथा |
४२ क
वैशम्पाय़न उवाच:
पर्याश्वासय़तश्चैवं तावुभावेव भूमिपम् ||
४२ ख
वैशम्पाय़न उवाच:
तथैवोत्थापय़ामासुर्गान्धारीं राजय़ोषितः |
४३ क
वैशम्पाय़न उवाच:
ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ||
४३ ख