वैशम्पाय़न उवाच:
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ||
४७ ख
वैशम्पाय़न उवाच:
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः |
४८ क
वैशम्पाय़न उवाच:
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ||
४८ ख
वैशम्पाय़न उवाच:
देवासुराणां च गृहं श्वेतः पर्वत उच्यते |
४९ क
वैशम्पाय़न उवाच:
गन्धर्वा निषधे शैले नीले व्रह्मर्षय़ो नृप |
४९ ख
वैशम्पाय़न उवाच:
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः ||
४९ ग
वैशम्पाय़न उवाच:
इत्येतानि महाराज सप्त वर्षाणि भागशः |
५० क
वैशम्पाय़न उवाच:
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ||
५० ख
वैशम्पाय़न उवाच:
तेषामृद्धिर्वहुविधा दृश्यते दैवमानुषी |
५१ क
वैशम्पाय़न उवाच:
अशक्या परिसङ्ख्यातुं श्रद्धेय़ा तु वुभूषता ||
५१ ख
वैशम्पाय़न उवाच:
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् |
५२ क
वैशम्पाय़न उवाच:
पार्श्वे शशस्य द्वे वर्षे उभय़े दक्षिणोत्तरे |
५२ ख
वैशम्पाय़न उवाच:
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ||
५२ ग
वैशम्पाय़न उवाच:
ताम्रवर्णः शिरो राजञ्श्रीमान्मलय़पर्वतः |
५३ क
वैशम्पाय़न उवाच:
एतद्द्वितीय़ं द्वीपस्य दृश्यते शशसंस्थितम् ||
५३ ख