सञ्जय़ उवाच:
स एवं चिन्तय़ित्वा तु द्रोणपुत्रो विशां पते |
१ क
सञ्जय़ उवाच:
अवतीर्य रथोपस्थाद्दध्यौ सम्प्रय़तः स्थितः ||
१ ख
द्रौणिरु उवाच:
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् |
२ क
द्रौणिरु उवाच:
गिरिशं वरदं देवं भवं भावनमव्ययम् ||
२ ख
द्रौणिरु उवाच:
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् |
३ क
द्रौणिरु उवाच:
विश्वरूपं विरूपाक्षं वहुरूपमुमापतिम् ||
३ ख
द्रौणिरु उवाच:
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् |
४ क
द्रौणिरु उवाच:
खट्वाङ्गधारिणं मुण्डं जटिलं व्रह्मचारिणम् ||
४ ख
द्रौणिरु उवाच:
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा |
५ क
द्रौणिरु उवाच:
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ||
५ ख
द्रौणिरु उवाच:
स्तुतं स्तुत्यं स्तूय़मानममोघं चर्मवाससम् |
६ क
द्रौणिरु उवाच:
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ||
६ ख
द्रौणिरु उवाच:
शुक्रं विश्वसृजं व्रह्म व्रह्मचारिणमेव च |
७ क
द्रौणिरु उवाच:
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ||
७ ख
द्रौणिरु उवाच:
वहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रिय़म् |
८ क
द्रौणिरु उवाच:
गणाध्यक्षेक्षितमुखं गौरीहृदय़वल्लभम् ||
८ ख
द्रौणिरु उवाच:
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् |
९ क
द्रौणिरु उवाच:
तनुवाससमत्युग्रमुमाभूषणतत्परम् ||
९ ख
द्रौणिरु उवाच:
परं परेभ्यः परमं परं यस्मान्न विद्यते |
१० क
द्रौणिरु उवाच:
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ||
१० ख
द्रौणिरु उवाच:
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् |
११ क
द्रौणिरु उवाच:
प्रपद्ये शरणं देवं परमेण समाधिना ||
११ ख
द्रौणिरु उवाच:
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् |
१२ क
द्रौणिरु उवाच:
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ||
१२ ख
द्रौणिरु उवाच:
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः |
१३ क
द्रौणिरु उवाच:
पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ||
१३ ख
द्रौणिरु उवाच:
तस्यां वेद्यां तदा राजंश्चित्रभानुरजाय़त |
१४ क
द्रौणिरु उवाच:
द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरय़न् ||
१४ ख
द्रौणिरु उवाच:
दीप्तास्यनय़नाश्चात्र नैकपादशिरोभुजाः |
१५ क
द्रौणिरु उवाच:
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ||
१५ ख
द्रौणिरु उवाच:
श्ववराहोष्ट्ररूपाश्च हय़गोमाय़ुगोमुखाः |
१६ क
द्रौणिरु उवाच:
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ||
१६ ख
द्रौणिरु उवाच:
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च |
१७ क
द्रौणिरु उवाच:
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ||
१७ ख
द्रौणिरु उवाच:
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत |
१८ क
द्रौणिरु उवाच:
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ||
१८ ख
द्रौणिरु उवाच:
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च |
१९ क
द्रौणिरु उवाच:
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ||
१९ ख
द्रौणिरु उवाच:
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च |
२० क
द्रौणिरु उवाच:
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ||
२० ख
द्रौणिरु उवाच:
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत |
२१ क
द्रौणिरु उवाच:
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ||
२१ ख
द्रौणिरु उवाच:
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च |
२२ क
द्रौणिरु उवाच:
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ||
२२ ख
द्रौणिरु उवाच:
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च |
२३ क
द्रौणिरु उवाच:
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ||
२३ ख
द्रौणिरु उवाच:
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः |
२४ क
द्रौणिरु उवाच:
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ||
२४ ख
द्रौणिरु उवाच:
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः |
२५ क
द्रौणिरु उवाच:
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः ||
२५ ख
द्रौणिरु उवाच:
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः |
२६ क
द्रौणिरु उवाच:
माहात्म्येन च संय़ुक्ताः शतशोऽथ सहस्रशः ||
२६ ख
द्रौणिरु उवाच:
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणय़ः |
२७ क
द्रौणिरु उवाच:
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ||
२७ ख
द्रौणिरु उवाच:
पृष्ठेषु वद्धेषुधय़श्चित्रवाणा रणोत्कटाः |
२८ क
द्रौणिरु उवाच:
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ||
२८ ख
द्रौणिरु उवाच:
महापाशोद्यतकरास्तथा लगुडपाणय़ः |
२९ क
द्रौणिरु उवाच:
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः |
२९ ख
द्रौणिरु उवाच:
महासर्पाङ्गदधराश्चित्राभरणधारिणः ||
२९ ग
द्रौणिरु उवाच:
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्वरस्रजः |
३० क
द्रौणिरु उवाच:
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ||
३० ख
द्रौणिरु उवाच:
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् |
३१ क
द्रौणिरु उवाच:
अवादय़न्पारिषदाः प्रहृष्टाः कनकप्रभाः ||
३१ ख
द्रौणिरु उवाच:
गाय़मानास्तथैवान्ये नृत्यमानास्तथापरे |
३२ क
द्रौणिरु उवाच:
लङ्घय़न्तः प्लवन्तश्च वल्गन्तश्च महावलाः ||
३२ ख
द्रौणिरु उवाच:
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः |
३३ क
द्रौणिरु उवाच:
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ||
३३ ख
द्रौणिरु उवाच:
सुभीमा घोररूपाश्च शूलपट्टिशपाणय़ः |
३४ क
द्रौणिरु उवाच:
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ||
३४ ख
द्रौणिरु उवाच:
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा |
३५ क
द्रौणिरु उवाच:
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ||
३५ ख
द्रौणिरु उवाच:
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः |
३६ क
द्रौणिरु उवाच:
चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ||
३६ ख
द्रौणिरु उवाच:
अतिह्रस्वातिदीर्घाश्च प्रवलाश्चातिभैरवाः |
३७ क
द्रौणिरु उवाच:
विकटाः काललम्वोष्ठा वृहच्छेफास्थिपिण्डिकाः ||
३७ ख
द्रौणिरु उवाच:
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे |
३८ क
द्रौणिरु उवाच:
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ||
३८ ख
द्रौणिरु उवाच:
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् |
३९ क
द्रौणिरु उवाच:
ये च वीतभय़ा नित्यं हरस्य भ्रुकुटीभटाः ||
३९ ख
द्रौणिरु उवाच:
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः |
४० क
द्रौणिरु उवाच:
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ||
४० ख
द्रौणिरु उवाच:
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मय़म् |
४१ क
द्रौणिरु उवाच:
येषां विस्मय़ते नित्यं भगवान्कर्मभिर्हरः ||
४१ ख
द्रौणिरु उवाच:
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः |
४२ क
द्रौणिरु उवाच:
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ||
४२ ख
द्रौणिरु उवाच:
पिवन्तोऽसृग्वसास्त्वन्ये क्रुद्धा व्रह्मद्विषां सदा |
४३ क
द्रौणिरु उवाच:
चतुर्विंशात्मकं सोमं ये पिवन्ति च नित्यदा ||
४३ ख
द्रौणिरु उवाच:
श्रुतेन व्रह्मचर्येण तपसा च दमेन च |
४४ क
द्रौणिरु उवाच:
ये समाराध्य शूलाङ्कं भवसाय़ुज्यमागताः ||
४४ ख
द्रौणिरु उवाच:
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः |
४५ क
द्रौणिरु उवाच:
सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ||
४५ ख
द्रौणिरु उवाच:
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः |
४६ क
द्रौणिरु उवाच:
संनादय़न्तस्ते विश्वमश्वत्थामानमभ्ययुः ||
४६ ख
द्रौणिरु उवाच:
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः |
४७ क
द्रौणिरु उवाच:
विवर्धय़िषवो द्रौणेर्महिमानं महात्मनः ||
४७ ख
द्रौणिरु उवाच:
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः |
४८ क
द्रौणिरु उवाच:
भीमोग्रपरिघालातशूलपट्टिशपाणय़ः |
४८ ख
द्रौणिरु उवाच:
घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः ||
४८ ग
द्रौणिरु उवाच:
जनय़ेय़ुर्भय़ं ये स्म त्रैलोक्यस्यापि दर्शनात् |
४९ क
द्रौणिरु उवाच:
तान्प्रेक्षमाणोऽपि व्यथां न चकार महावलः ||
४९ ख