वैशम्पाय़न उवाच:
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः |
१ क
वैशम्पाय़न उवाच:
शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् ||
१ ख
वैशम्पाय़न उवाच:
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः |
२ क
वैशम्पाय़न उवाच:
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ||
२ ख
वैशम्पाय़न उवाच:
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वय़म् |
३ क
वैशम्पाय़न उवाच:
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ||
३ ख
वैशम्पाय़न उवाच:
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल |
४ क
वैशम्पाय़न उवाच:
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ||
४ ख
वैशम्पाय़न उवाच:
धिगस्तु क्षात्रमाचारं धिगस्तु वलमौरसम् |
५ क
वैशम्पाय़न उवाच:
धिगस्त्वमर्षं येनेमामापदं गमिता वय़म् ||
५ ख
वैशम्पाय़न उवाच:
साधु क्षमा दमः शौचमवैरोध्यममत्सरः |
६ क
वैशम्पाय़न उवाच:
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ||
६ ख
वैशम्पाय़न उवाच:
वय़ं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः |
७ क
वैशम्पाय़न उवाच:
इमामवस्थामापन्ना राज्यलेशवुभुक्षय़ा ||
७ ख
वैशम्पाय़न उवाच:
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षय़ेत् |
८ क
वैशम्पाय़न उवाच:
वान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ||
८ ख
वैशम्पाय़न उवाच:
ते वय़ं पृथिवीहेतोरवध्यान्पृथिवीसमान् |
९ क
वैशम्पाय़न उवाच:
सम्परित्यज्य जीवामो हीनार्था हतवान्धवाः ||
९ ख
वैशम्पाय़न उवाच:
आमिषे गृध्यमानानामशुनां नः शुनामिव |
१० क
वैशम्पाय़न उवाच:
आमिषं चैव नो नष्टमामिषस्य च भोजिनः ||
१० ख
वैशम्पाय़न उवाच:
न पृथिव्या सकलय़ा न सुवर्णस्य राशिभिः |
११ क
वैशम्पाय़न उवाच:
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ||
११ ख
वैशम्पाय़न उवाच:
संय़ुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः |
१२ क
वैशम्पाय़न उवाच:
मृत्युय़ानं समारुह्य गता वैवस्वतक्षय़म् ||
१२ ख
वैशम्पाय़न उवाच:
वहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् |
१३ क
वैशम्पाय़न उवाच:
तपसा व्रह्मचर्येण वन्दनेन तितिक्षय़ा ||
१३ ख
वैशम्पाय़न उवाच:
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः |
१४ क
वैशम्पाय़न उवाच:
लभन्ते मातरो गर्भांस्तान्मासान्दश विभ्रति ||
१४ ख
वैशम्पाय़न उवाच:
यदि स्वस्ति प्रजाय़न्ते जाता जीवन्ति वा यदि |
१५ क
वैशम्पाय़न उवाच:
सम्भाविता जातवलास्ते दद्युर्यदि नः सुखम् |
१५ ख
वैशम्पाय़न उवाच:
इह चामुत्र चैवेति कृपणाः फलहेतुकाः ||
१५ ग
वैशम्पाय़न उवाच:
तासामय़ं समारम्भो निवृत्तः केवलोऽफलः |
१६ क
वैशम्पाय़न उवाच:
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ||
१६ ख
वैशम्पाय़न उवाच:
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय़ च |
१७ क
वैशम्पाय़न उवाच:
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षय़म् ||
१७ ख
वैशम्पाय़न उवाच:
यदैषामङ्ग पितरौ जातौ काममय़ाविव |
१८ क
वैशम्पाय़न उवाच:
सञ्जातवलरूपेषु तदैव निहता नृपाः ||
१८ ख
वैशम्पाय़न उवाच:
संय़ुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः |
१९ क
वैशम्पाय़न उवाच:
न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् ||
१९ ख
वैशम्पाय़न उवाच:
पाञ्चालानां कुरूणां च हता एव हि येऽहताः |
२० क
वैशम्पाय़न उवाच:
ते वय़ं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ||
२० ख
वैशम्पाय़न उवाच:
वय़मेवास्य लोकस्य विनाशे कारणं स्मृताः |
२१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ||
२१ ख
वैशम्पाय़न उवाच:
सदैव निकृतिप्रज्ञो द्वेष्टा माय़ोपजीवनः |
२२ क
वैशम्पाय़न उवाच:
मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ||
२२ ख
वैशम्पाय़न उवाच:
अंशकामा वय़ं ते च न चास्माभिर्न तैर्जितम् |
२३ क
वैशम्पाय़न उवाच:
न तैर्भुक्तेय़मवनिर्न नार्यो गीतवादितम् ||
२३ ख
वैशम्पाय़न उवाच:
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् |
२४ क
वैशम्पाय़न उवाच:
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ||
२४ ख
वैशम्पाय़न उवाच:
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः |
२५ क
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य नृपतेः सौवलेन निवेदितः ||
२५ ख
वैशम्पाय़न उवाच:
तं पिता पुत्रगृद्धित्वादनुमेनेऽनय़े स्थितम् |
२६ क
वैशम्पाय़न उवाच:
अनवेक्ष्यैव पितरं गाङ्गेय़ं विदुरं तथा |
२६ ख
वैशम्पाय़न उवाच:
असंशय़ं धृतराष्ट्रो यथैवाहं तथा गतः ||
२६ ग
वैशम्पाय़न उवाच:
अनिय़म्याशुचिं लुव्धं पुत्रं कामवशानुगम् |
२७ क
वैशम्पाय़न उवाच:
पतितो यशसो दीप्ताद्घातय़ित्वा सहोदरान् ||
२७ ख
वैशम्पाय़न उवाच:
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुय़ोधनः |
२८ क
वैशम्पाय़न उवाच:
अस्मत्प्रद्वेषसंय़ुक्तः पापवुद्धिः सदैव हि ||
२८ ख
वैशम्पाय़न उवाच:
को हि वन्धुः कुलीनः संस्तथा व्रूय़ात्सुहृज्जने |
२९ क
वैशम्पाय़न उवाच:
यथासावुक्तवान्क्षुद्रो युय़ुत्सुर्वृष्णिसंनिधौ ||
२९ ख
वैशम्पाय़न उवाच:
आत्मनो हि वय़ं दोषाद्विनष्टाः शाश्वतीः समाः |
३० क
वैशम्पाय़न उवाच:
प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ||
३० ख
वैशम्पाय़न उवाच:
सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः |
३१ क
वैशम्पाय़न उवाच:
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् |
३१ ख
वैशम्पाय़न उवाच:
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ||
३१ ग
वैशम्पाय़न उवाच:
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् |
३२ क
वैशम्पाय़न उवाच:
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ||
३२ ख
वैशम्पाय़न उवाच:
हताः शूराः कृतं पापं विषय़ः स्वो विनाशितः |
३३ क
वैशम्पाय़न उवाच:
हत्वा नो विगतो मन्युः शोको मां रुन्धय़त्ययम् ||
३३ ख
वैशम्पाय़न उवाच:
धनञ्जय़ कृतं पापं कल्याणेनोपहन्यते |
३४ क
वैशम्पाय़न उवाच:
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ||
३४ ख
वैशम्पाय़न उवाच:
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा |
३५ क
वैशम्पाय़न उवाच:
प्राप्तवर्त्मा कृतमतिर्व्रह्म सम्पद्यते तदा ||
३५ ख
वैशम्पाय़न उवाच:
स धनञ्जय़ निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः |
३६ क
वैशम्पाय़न उवाच:
वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप ||
३६ ख
वैशम्पाय़न उवाच:
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः |
३७ क
वैशम्पाय़न उवाच:
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ||
३७ ख
वैशम्पाय़न उवाच:
मय़ा निसृष्टं पापं हि परिग्रहमभीप्सता |
३८ क
वैशम्पाय़न उवाच:
जन्मक्षय़निमित्तं च शक्यं प्राप्तुमिति श्रुतिः ||
३८ ख
वैशम्पाय़न उवाच:
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च |
३९ क
वैशम्पाय़न उवाच:
गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ||
३९ ख
वैशम्पाय़न उवाच:
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् |
४० क
वैशम्पाय़न उवाच:
न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ||
४० ख
वैशम्पाय़न उवाच:
एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः |
४१ क
वैशम्पाय़न उवाच:
व्युपारमत्ततः पार्थः कनीय़ान्प्रत्यभाषत ||
४१ ख