chevron_left अनुशासन पर्व अध्याय ७
युधिष्ठिर उवाच:
कर्मणां मे समस्तानां शुभानां भरतर्षभ |
१ क
युधिष्ठिर उवाच:
फलानि महतां श्रेष्ठ प्रव्रूहि परिपृच्छतः ||
१ ख
भीष्म उवाच:
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर |
२ क
भीष्म उवाच:
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ||
२ ख
भीष्म उवाच:
येन येन शरीरेण यद्यत्कर्म करोति यः |
३ क
भीष्म उवाच:
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ||
३ ख
भीष्म उवाच:
यस्यां यस्यामवस्थाय़ां यत्करोति शुभाशुभम् |
४ क
भीष्म उवाच:
तस्यां तस्यामवस्थाय़ां भुङ्क्ते जन्मनि जन्मनि ||
४ ख
भीष्म उवाच:
न नश्यति कृतं कर्म सदा पञ्चेन्द्रिय़ैरिह |
५ क
भीष्म उवाच:
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ||
५ ख
भीष्म उवाच:
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् |
६ क
भीष्म उवाच:
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ||
६ ख
भीष्म उवाच:
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते |
७ क
भीष्म उवाच:
श्रान्ताय़ादृष्टपूर्वाय़ तस्य पुण्यफलं महत् ||
७ ख
भीष्म उवाच:
स्थण्डिले शय़मानानां गृहाणि शय़नानि च |
८ क
भीष्म उवाच:
चीरवल्कलसंवीते वासांस्याभरणानि च ||
८ ख
भीष्म उवाच:
वाहनासनय़ानानि योगात्मनि तपोधने |
९ क
भीष्म उवाच:
अग्नीनुपशय़ानस्य राजपौरुषमुच्यते ||
९ ख
भीष्म उवाच:
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति |
१० क
भीष्म उवाच:
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ||
१० ख
भीष्म उवाच:
अवाक्षिरास्तु यो लम्वेदुदवासं च यो वसेत् |
११ क
भीष्म उवाच:
सततं चैकशाय़ी यः स लभेतेप्सितां गतिम् ||
११ ख
भीष्म उवाच:
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रय़म् |
१२ क
भीष्म उवाच:
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ||
१२ ख
भीष्म उवाच:
वीरासनं वीरशय़्यां वीरस्थानमुपासतः |
१३ क
भीष्म उवाच:
अक्षय़ास्तस्य वै लोकाः सर्वकामगमास्तथा ||
१३ ख
भीष्म उवाच:
धनं लभेत दानेन मौनेनाज्ञां विशां पते |
१४ क
भीष्म उवाच:
उपभोगांश्च तपसा व्रह्मचर्येण जीवितम् ||
१४ ख
भीष्म उवाच:
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते |
१५ क
भीष्म उवाच:
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ||
१५ ख
भीष्म उवाच:
प्राय़ोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते |
१६ क
भीष्म उवाच:
स्वर्गं सत्येन लभते दीक्षय़ा कुलमुत्तमम् ||
१६ ख
भीष्म उवाच:
गवाढ्यः शाकदीक्षाय़ां स्वर्गगामी तृणाशनः |
१७ क
भीष्म उवाच:
स्त्रिय़स्त्रिषवणं स्नात्वा वाय़ुं पीत्वा क्रतुं लभेत् ||
१७ ख
भीष्म उवाच:
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः |
१८ क
भीष्म उवाच:
मरुं साधय़तो राज्यं नाकपृष्ठमनाशके ||
१८ ख
भीष्म उवाच:
उपवासं च दीक्षां च अभिषेकं च पार्थिव |
१९ क
भीष्म उवाच:
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ||
१९ ख
भीष्म उवाच:
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते |
२० क
भीष्म उवाच:
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुय़ात् ||
२० ख
भीष्म उवाच:
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः |
२१ क
भीष्म उवाच:
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ||
२१ ख
भीष्म उवाच:
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् |
२२ क
भीष्म उवाच:
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ||
२२ ख
भीष्म उवाच:
अचोद्यमानानि यथा पुष्पाणि च फलानि च |
२३ क
भीष्म उवाच:
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ||
२३ ख
भीष्म उवाच:
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः |
२४ क
भीष्म उवाच:
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ||
२४ ख
भीष्म उवाच:
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः |
२५ क
भीष्म उवाच:
प्रीणाति मातरं येन पृथिवी तेन पूजिता |
२५ ख
भीष्म उवाच:
येन प्रीणात्युपाध्याय़ं तेन स्याद्व्रह्म पूजितम् ||
२५ ग
भीष्म उवाच:
सर्वे तस्यादृता धर्मा यस्यैते त्रय़ आदृताः |
२६ क
भीष्म उवाच:
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रिय़ाः ||
२६ ख
वैशम्पाय़न उवाच:
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः |
२७ क
वैशम्पाय़न उवाच:
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ||
२७ ख
वैशम्पाय़न उवाच:
यन्मन्त्रे भवति वृथा प्रय़ुज्यमाने; यत्सोमे भवति वृथाभिषूय़माणे |
२८ क
वैशम्पाय़न उवाच:
यच्चाग्नौ भवति वृथाभिहूय़माने; तत्सर्वं भवति वृथाभिधीय़माने ||
२८ ख
वैशम्पाय़न उवाच:
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो |
२९ क
वैशम्पाय़न उवाच:
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ||
२९ ख