chevron_left आश्वमेधिक पर्व अध्याय ७
संवर्त उवाच:
कथमस्मि त्वय़ा ज्ञातः केन वा कथितोऽस्मि ते |
१ क
संवर्त उवाच:
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रिय़ं मम ||
१ ख
संवर्त उवाच:
सत्यं ते व्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः |
२ क
संवर्त उवाच:
मिथ्या तु व्रुवतो मूर्धा सप्तधा ते फलिष्यति ||
२ ख
मरुत्त उवाच:
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि |
३ क
मरुत्त उवाच:
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ||
३ ख
संवर्त उवाच:
सत्यमेतद्भवानाह स मां जानाति सत्रिणम् |
४ क
संवर्त उवाच:
कथय़स्वैतदेकं मे क्व नु सम्प्रति नारदः ||
४ ख
मरुत्त उवाच:
भवन्तं कथय़ित्वा तु मम देवर्षिसत्तमः |
५ क
मरुत्त उवाच:
ततो मामभ्यनुज्ञाय़ प्रविष्टो हव्यवाहनम् ||
५ ख
व्यास उवाच:
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परय़ा मुदा |
६ क
व्यास उवाच:
एतावदहमप्येनं कुर्यामिति तदाव्रवीत् ||
६ ख
व्यास उवाच:
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सय़न्निव |
७ क
व्यास उवाच:
रूक्षय़ा व्राह्मणो राजन्पुनः पुनरथाव्रवीत् ||
७ ख
व्यास उवाच:
वातप्रधानेन मय़ा स्वचित्तवशवर्तिना |
८ क
व्यास उवाच:
एवं विकृतरूपेण कथं याजितुमिच्छसि ||
८ ख
व्यास उवाच:
भ्राता मम समर्थश्च वासवेन च सत्कृतः |
९ क
व्यास उवाच:
वर्तते याजने चैव तेन कर्माणि कारय़ ||
९ ख
व्यास उवाच:
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः |
१० क
व्यास उवाच:
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ||
१० ख
व्यास उवाच:
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् |
११ क
व्यास उवाच:
याजय़ेय़ं कथञ्चिद्वै स हि पूज्यतमो मम ||
११ ख
व्यास उवाच:
स त्वं वृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज |
१२ क
व्यास उवाच:
ततोऽहं याजय़िष्ये त्वां यदि यष्टुमिहेच्छसि ||
१२ ख
मरुत्त उवाच:
वृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु |
१३ क
मरुत्त उवाच:
न मां कामय़ते याज्यमसौ वासववारितः ||
१३ ख
मरुत्त उवाच:
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् |
१४ क
मरुत्त उवाच:
याजय़ेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ||
१४ ख
मरुत्त उवाच:
स्पर्धते च मय़ा विप्र सदा वै स हि पार्थिवः |
१५ क
मरुत्त उवाच:
एवमस्त्विति चाप्युक्तो भ्रात्रा ते वलवृत्रहा ||
१५ ख
मरुत्त उवाच:
स मामभिगतं प्रेम्णा याज्यवन्न वुभूषति |
१६ क
मरुत्त उवाच:
देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव ||
१६ ख
मरुत्त उवाच:
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम् |
१७ क
मरुत्त उवाच:
कामय़े समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ||
१७ ख
मरुत्त उवाच:
न हि मे वर्तते वुद्धिर्गन्तुं व्रह्मन्वृहस्पतिम् |
१८ क
मरुत्त उवाच:
प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ||
१८ ख
संवर्त उवाच:
चिकीर्षसि यथाकामं सर्वमेतत्त्वय़ि ध्रुवम् |
१९ क
संवर्त उवाच:
यदि सर्वानभिप्राय़ान्कर्तासि मम पार्थिव ||
१९ ख
संवर्त उवाच:
याज्यमानं मय़ा हि त्वां वृहस्पतिपुरन्दरौ |
२० क
संवर्त उवाच:
द्विषेतां समभिक्रुद्धावेतदेकं समर्थय़ ||
२० ख
संवर्त उवाच:
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशय़ं कुरु |
२१ क
संवर्त उवाच:
कुपितस्त्वां न हीदानीं भस्म कुर्यां सवान्धवम् ||
२१ ख
मरुत्त उवाच:
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः |
२२ क
मरुत्त उवाच:
तावल्लोकान्न लभेय़ं त्यजेय़ं सङ्गतं यदि ||
२२ ख
मरुत्त उवाच:
मा चापि शुभवुद्धित्वं लभेय़मिह कर्हिचित् |
२३ क
मरुत्त उवाच:
सम्यग्ज्ञाने वैषय़े वा त्यजेय़ं सङ्गतं यदि ||
२३ ख
संवर्त उवाच:
आविक्षित शुभा वुद्धिर्धीय़तां तव कर्मसु |
२४ क
संवर्त उवाच:
याजनं हि ममाप्येवं वर्तते त्वय़ि पार्थिव ||
२४ ख
संवर्त उवाच:
संविधास्ये च ते राजन्नक्षय़ं द्रव्यमुत्तमम् |
२५ क
संवर्त उवाच:
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ||
२५ ख
संवर्त उवाच:
न तु मे वर्तते वुद्धिर्धने याज्येषु वा पुनः |
२६ क
संवर्त उवाच:
विप्रिय़ं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभय़ोः ||
२६ ख
संवर्त उवाच:
गमय़िष्यामि चेन्द्रेण समतामपि ते ध्रुवम् |
२७ क
संवर्त उवाच:
प्रिय़ं च ते करिष्यामि सत्यमेतद्व्रवीमि ते ||
२७ ख