नारद उवाच:
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता |
१ क
नारद उवाच:
स्वय़ं शक्रेण कौरव्य निर्मितार्कसमप्रभा ||
१ ख
नारद उवाच:
विस्तीर्णा योजनशतं शतमध्यर्धमाय़ता |
२ क
नारद उवाच:
वैहाय़सी कामगमा पञ्चय़ोजनमुच्छ्रिता ||
२ ख
नारद उवाच:
जराशोकक्लमापेता निरातङ्का शिवा शुभा |
३ क
नारद उवाच:
वेश्मासनवती रम्या दिव्यपादपशोभिता ||
३ ख
नारद उवाच:
तस्यां देवेश्वरः पार्थ सभाय़ां परमासने |
४ क
नारद उवाच:
आस्ते शच्या महेन्द्राण्या श्रिय़ा लक्ष्म्या च भारत ||
४ ख
नारद उवाच:
विभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः |
५ क
नारद उवाच:
विरजोम्वरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ||
५ ख
नारद उवाच:
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् |
६ क
नारद उवाच:
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः |
६ ख
नारद उवाच:
सिद्धा देवर्षय़श्चैव साध्या देवगणास्तथा ||
६ ग
नारद उवाच:
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः |
७ क
नारद उवाच:
उपासते महात्मानं देवराजमरिन्दमम् ||
७ ख
नारद उवाच:
तथा देवर्षय़ः सर्वे पार्थ शक्रमुपासते |
८ क
नारद उवाच:
अमला धूतपाप्मानो दीप्यमाना इवाग्नय़ः |
८ ख
नारद उवाच:
तेजस्विनः सोमय़ुजो विपापा विगतक्लमाः ||
८ ग
नारद उवाच:
पराशरः पर्वतश्च तथा सावर्णिगालवौ |
९ क
नारद उवाच:
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ||
९ ख
नारद उवाच:
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः |
१० क
नारद उवाच:
उद्दालकः श्वेतकेतुस्तथा शाट्याय़नः प्रभुः ||
१० ख
नारद उवाच:
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः |
११ क
नारद उवाच:
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ||
११ ख
नारद उवाच:
वातस्कन्धो विशाखश्च विधाता काल एव च |
१२ क
नारद उवाच:
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्वुरुः ||
१२ ख
नारद उवाच:
अय़ोनिजा योनिजाश्च वाय़ुभक्षा हुताशिनः |
१३ क
नारद उवाच:
ईशानं सर्वलोकस्य वज्रिणं समुपासते ||
१३ ख
नारद उवाच:
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः |
१४ क
नारद उवाच:
समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः ||
१४ ख
नारद उवाच:
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः |
१५ क
नारद उवाच:
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ||
१५ ख
नारद उवाच:
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः |
१६ क
नारद उवाच:
मुनिः कालकवृक्षीय़ आश्राव्योऽथ हिरण्यदः |
१६ ख
नारद उवाच:
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ||
१६ ग
नारद उवाच:
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती |
१७ क
नारद उवाच:
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ||
१७ ख
नारद उवाच:
जलवाहास्तथा मेघा वाय़वः स्तनय़ित्नवः |
१८ क
नारद उवाच:
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ||
१८ ख
नारद उवाच:
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा |
१९ क
नारद उवाच:
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ||
१९ ख
नारद उवाच:
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः |
२० क
नारद उवाच:
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ||
२० ख
नारद उवाच:
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः |
२१ क
नारद उवाच:
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि |
२१ ख
नारद उवाच:
रमय़न्ति स्म नृपते देवराजं शतक्रतुम् ||
२१ ग
नारद उवाच:
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा |
२२ क
नारद उवाच:
विक्रमैश्च महात्मानं वलवृत्रनिषूदनम् ||
२२ ख
नारद उवाच:
व्रह्मराजर्षय़ः सर्वे सर्वे देवर्षय़स्तथा |
२३ क
नारद उवाच:
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ||
२३ ख
नारद उवाच:
स्रग्विणो भूषिताश्चान्ये यान्ति चाय़ान्ति चापरे |
२४ क
नारद उवाच:
वृहस्पतिश्च शुक्रश्च तस्यामाय़यतुः सह ||
२४ ख
नारद उवाच:
एते चान्ये च वहवो यतात्मानो यतव्रताः |
२५ क
नारद उवाच:
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रिय़दर्शनाः |
२५ ख
नारद उवाच:
व्रह्मणो वचनाद्राजन्भृगुः सप्तर्षय़स्तथा ||
२५ ग
नारद उवाच:
एषा सभा मय़ा राजन्दृष्टा पुष्करमालिनी |
२६ क
नारद उवाच:
शतक्रतोर्महाराज याम्यां शृणु ममानघ ||
२६ ख