chevron_left विराट पर्व अध्याय ७
वैशम्पाय़न उवाच:
अथापरो भीमवलः श्रिय़ा ज्वल; न्नुपाय़यौ सिंहविलासविक्रमः |
१ क
वैशम्पाय़न उवाच:
खजं च दर्वीं च करेण धारय़; न्नसिं च कालाङ्गमकोशमव्रणम् ||
१ ख
वैशम्पाय़न उवाच:
स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासय़न् |
२ क
वैशम्पाय़न उवाच:
सुकृष्णवासा गिरिराजसारवा; न्स मत्स्यराजं समुपेत्य तस्थिवान् ||
२ ख
वैशम्पाय़न उवाच:
तं प्रेक्ष्य राजा वरय़न्नुपागतं; ततोऽव्रवीज्जानपदान्समागतान् |
३ क
वैशम्पाय़न उवाच:
सिंहोन्नतांसोऽय़मतीव रूपवा; न्प्रदृश्यते को नु नरर्षभो युवा ||
३ ख
वैशम्पाय़न उवाच:
अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कय़न्नास्य लभामि सम्पदम् |
४ क
वैशम्पाय़न उवाच:
तथास्य चित्तं ह्यपि संवितर्कय़; न्नरर्षभस्याद्य न यामि तत्त्वतः ||
४ ख
वैशम्पाय़न उवाच:
ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः |
५ क
वैशम्पाय़न उवाच:
उवाच सूदोऽस्मि नरेन्द्र वल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् ||
५ ख
विराट उवाच:
न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे |
६ क
विराट उवाच:
श्रिय़ा च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह ||
६ ख
भीम उवाच:
नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान् |
७ क
भीम उवाच:
आस्वादिता ये नृपते पुराभव; न्युधिष्ठिरेणापि नृपेण सर्वशः ||
७ ख
भीम उवाच:
वलेन तुल्यश्च न विद्यते मय़ा; निय़ुद्धशीलश्च सदैव पार्थिव |
८ क
भीम उवाच:
गजैश्च सिंहैश्च समेय़िवानहं; सदा करिष्यामि तवानघ प्रिय़म् ||
८ ख
विराट उवाच:
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे |
९ क
विराट उवाच:
न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि ||
९ ख
विराट उवाच:
यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः |
१० क
विराट उवाच:
नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मय़ा कृतः ||
१० ख
वैशम्पाय़न उवाच:
तथा स भीमो विहितो महानसे; विराटराज्ञो दय़ितोऽभवद्दृढम् |
११ क
वैशम्पाय़न उवाच:
उवास राजन्न च तं पृथग्जनो; वुवोध तत्रानुचरश्च कश्चन ||
११ ख