वैशम्पाय़न उवाच:
गते द्वारवतीं कृष्णे वलदेवे च माधवे |
१ क
वैशम्पाय़न उवाच:
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा ||
१ ख
वैशम्पाय़न उवाच:
सर्वमागमय़ामास पाण्डवानां विचेष्टितम् |
२ क
वैशम्पाय़न उवाच:
धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः ||
२ ख
वैशम्पाय़न उवाच:
स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः |
३ क
वैशम्पाय़न उवाच:
वलेन नातिमहता द्वारकामभ्ययात्पुरीम् ||
३ ख
वैशम्पाय़न उवाच:
तमेव दिवसं चापि कौन्तेय़ः पाण्डुनन्दनः |
४ क
वैशम्पाय़न उवाच:
आनर्तनगरीं रम्यां जगामाशु धनञ्जय़ः ||
४ ख
वैशम्पाय़न उवाच:
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ |
५ क
वैशम्पाय़न उवाच:
सुप्तं ददृशतुः कृष्णं शय़ानं चोपजग्मतुः ||
५ ख
वैशम्पाय़न उवाच:
ततः शय़ाने गोविन्दे प्रविवेश सुय़ोधनः |
६ क
वैशम्पाय़न उवाच:
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ||
६ ख
वैशम्पाय़न उवाच:
ततः किरीटी तस्यानु प्रविवेश महामनाः |
७ क
वैशम्पाय़न उवाच:
पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ||
७ ख
वैशम्पाय़न उवाच:
प्रतिवुद्धः स वार्ष्णेय़ो ददर्शाग्रे किरीटिनम् |
८ क
वैशम्पाय़न उवाच:
स तय़ोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च |
८ ख
वैशम्पाय़न उवाच:
तदागमनजं हेतुं पप्रच्छ मधुसूदनः ||
८ ग
वैशम्पाय़न उवाच:
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव |
९ क
वैशम्पाय़न उवाच:
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ||
९ ख
वैशम्पाय़न उवाच:
समं हि भवतः सख्यं मय़ि चैवार्जुनेऽपि च |
१० क
वैशम्पाय़न उवाच:
तथा सम्वन्धकं तुल्यमस्माकं त्वय़ि माधव ||
१० ख
वैशम्पाय़न उवाच:
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन |
११ क
वैशम्पाय़न उवाच:
पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ||
११ ख
वैशम्पाय़न उवाच:
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन |
१२ क
वैशम्पाय़न उवाच:
सततं संमतश्चैव सद्वृत्तमनुपालय़ ||
१२ ख
कृष्ण उवाच:
भवानभिगतः पूर्वमत्र मे नास्ति संशय़ः |
१३ क
कृष्ण उवाच:
दृष्टस्तु प्रथमं राजन्मय़ा पार्थो धनञ्जय़ः ||
१३ ख
कृष्ण उवाच:
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् |
१४ क
कृष्ण उवाच:
साहाय़्यमुभय़ोरेव करिष्यामि सुय़ोधन ||
१४ ख
कृष्ण उवाच:
प्रवारणं तु वालानां पूर्वं कार्यमिति श्रुतिः |
१५ क
कृष्ण उवाच:
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जय़ः ||
१५ ख
कृष्ण उवाच:
मत्संहननतुल्यानां गोपानामर्वुदं महत् |
१६ क
कृष्ण उवाच:
नाराय़णा इति ख्याताः सर्वे सङ्ग्रामय़ोधिनः ||
१६ ख
कृष्ण उवाच:
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः |
१७ क
कृष्ण उवाच:
अय़ुध्यमानः सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः ||
१७ ख
कृष्ण उवाच:
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् |
१८ क
कृष्ण उवाच:
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ||
१८ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनञ्जय़ः |
१९ क
वैशम्पाय़न उवाच:
अय़ुध्यमानं सङ्ग्रामे वरय़ामास केशवम् ||
१९ ख
वैशम्पाय़न उवाच:
सहस्राणां सहस्रं तु योधानां प्राप्य भारत |
२० क
वैशम्पाय़न उवाच:
कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम् ||
२० ख
वैशम्पाय़न उवाच:
दुर्योधनस्तु तत्सैन्यं सर्वमादाय़ पार्थिवः |
२१ क
वैशम्पाय़न उवाच:
ततोऽभ्ययाद्भीमवलो रौहिणेय़ं महावलम् ||
२१ ख
वैशम्पाय़न उवाच:
सर्वं चागमने हेतुं स तस्मै संन्यवेदय़त् |
२२ क
वैशम्पाय़न उवाच:
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ||
२२ ख
वैशम्पाय़न उवाच:
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति |
२३ क
वैशम्पाय़न उवाच:
यन्मय़ोक्तं विराटस्य पुरा वैवाहिके तदा ||
२३ ख
वैशम्पाय़न उवाच:
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन |
२४ क
वैशम्पाय़न उवाच:
मय़ा सम्वन्धकं तुल्यमिति राजन्पुनः पुनः ||
२४ ख
वैशम्पाय़न उवाच:
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत |
२५ क
वैशम्पाय़न उवाच:
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ||
२५ ख
वैशम्पाय़न उवाच:
नाहं सहाय़ः पार्थानां नापि दुर्योधनस्य वै |
२६ क
वैशम्पाय़न उवाच:
इति मे निश्चिता वुद्दिर्वासुदेवमवेक्ष्य ह ||
२६ ख
वैशम्पाय़न उवाच:
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते |
२७ क
वैशम्पाय़न उवाच:
गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ ||
२७ ख
वैशम्पाय़न उवाच:
इत्येवमुक्तः स तदा परिष्वज्य हलाय़ुधम् |
२८ क
वैशम्पाय़न उवाच:
कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जय़म् ||
२८ ख
वैशम्पाय़न उवाच:
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः |
२९ क
वैशम्पाय़न उवाच:
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ||
२९ ख
वैशम्पाय़न उवाच:
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः |
३० क
वैशम्पाय़न उवाच:
वृतः प्रतिय़यौ हृष्टः सुहृदः सम्प्रहर्षय़न् ||
३० ख
वैशम्पाय़न उवाच:
गते दुर्योधने कृष्णः किरीटिनमथाव्रवीत् |
३१ क
वैशम्पाय़न उवाच:
अय़ुध्यमानः कां वुद्धिमास्थाय़ाहं त्वय़ा वृतः ||
३१ ख
अर्जुन उवाच:
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशय़ः |
३२ क
अर्जुन उवाच:
निहन्तुमहमप्येकः समर्थः पुरुषोत्तम ||
३२ ख
अर्जुन उवाच:
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति |
३३ क
अर्जुन उवाच:
यशसा चाहमप्यर्थी तस्मादसि मय़ा वृतः ||
३३ ख
अर्जुन उवाच:
सारथ्यं तु त्वय़ा कार्यमिति मे मानसं सदा |
३४ क
अर्जुन उवाच:
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ||
३४ ख
वासुदेव उवाच:
उपपन्नमिदं पार्थ यत्स्पर्धेथा मय़ा सह |
३५ क
वासुदेव उवाच:
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव ||
३५ ख
वैशम्पाय़न उवाच:
एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा |
३६ क
वैशम्पाय़न उवाच:
वृतो दाशार्हप्रवरैः पुनराय़ाद्युधिष्ठिरम् ||
३६ ख