chevron_left भीष्म पर्व अध्याय ७
धृतराष्ट्र उवाच:
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं व्रूहि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
यावद्भूम्यवकाशोऽय़ं दृश्यते शशलक्षणे |
१ ख
धृतराष्ट्र उवाच:
तस्य प्रमाणं प्रव्रूहि ततो वक्ष्यसि पिप्पलम् ||
१ ग
वैशम्पाय़न उवाच:
एवमुक्तः स राज्ञा तु सञ्जय़ो वाक्यमव्रवीत् |
२ क
वैशम्पाय़न उवाच:
प्रागाय़ता महाराज षडेते रत्नपर्वताः |
२ ख
वैशम्पाय़न उवाच:
अवगाढा ह्युभय़तः समुद्रौ पूर्वपश्चिमौ ||
२ ग
वैशम्पाय़न उवाच:
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः |
३ क
वैशम्पाय़न उवाच:
नीलश्च वैडूर्यमय़ः श्वेतश्च रजतप्रभः |
३ ख
वैशम्पाय़न उवाच:
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ||
३ ग
वैशम्पाय़न उवाच:
एते वै पर्वता राजन्सिद्धचारणसेविताः |
४ क
वैशम्पाय़न उवाच:
तेषामन्तरविष्कम्भो योजनानि सहस्रशः ||
४ ख
वैशम्पाय़न उवाच:
तत्र पुण्या जनपदास्तानि वर्षाणि भारत |
५ क
वैशम्पाय़न उवाच:
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ||
५ ख
वैशम्पाय़न उवाच:
इदं तु भारतं वर्षं ततो हैमवतं परम् |
६ क
वैशम्पाय़न उवाच:
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ||
६ ख
वैशम्पाय़न उवाच:
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च |
७ क
वैशम्पाय़न उवाच:
प्रागाय़तो महाराज माल्यवान्नाम पर्वतः ||
७ ख
वैशम्पाय़न उवाच:
ततः परं माल्यवतः पर्वतो गन्धमादनः |
८ क
वैशम्पाय़न उवाच:
परिमण्डलस्तय़ोर्मध्ये मेरुः कनकपर्वतः ||
८ ख
वैशम्पाय़न उवाच:
आदित्यतरुणाभासो विधूम इव पावकः |
९ क
वैशम्पाय़न उवाच:
योजनानां सहस्राणि षोडशाधः किल स्मृतः ||
९ ख
वैशम्पाय़न उवाच:
उच्चैश्च चतुराशीतिर्योजनानां महीपते |
१० क
वैशम्पाय़न उवाच:
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ||
१० ख
वैशम्पाय़न उवाच:
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो |
११ क
वैशम्पाय़न उवाच:
भद्राश्वः केतुमालश्च जम्वूद्वीपश्च भारत |
११ ख
वैशम्पाय़न उवाच:
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रय़ाः ||
११ ग
वैशम्पाय़न उवाच:
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल |
१२ क
वैशम्पाय़न उवाच:
स वै विचिन्तय़ामास सौवर्णान्प्रेक्ष्य वाय़सान् ||
१२ ख
वैशम्पाय़न उवाच:
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् |
१३ क
वैशम्पाय़न उवाच:
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ||
१३ ख
वैशम्पाय़न उवाच:
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः |
१४ क
वैशम्पाय़न उवाच:
चन्द्रमाश्च सनक्षत्रो वाय़ुश्चैव प्रदक्षिणम् ||
१४ ख
वैशम्पाय़न उवाच:
स पर्वतो महाराज दिव्यपुष्पफलान्वितः |
१५ क
वैशम्पाय़न उवाच:
भवनैरावृतः सर्वैर्जाम्वूनदमय़ैः शुभैः ||
१५ ख
वैशम्पाय़न उवाच:
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः |
१६ क
वैशम्पाय़न उवाच:
अप्सरोगणसंय़ुक्ताः शैले क्रीडन्ति नित्यशः ||
१६ ख
वैशम्पाय़न उवाच:
तत्र व्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः |
१७ क
वैशम्पाय़न उवाच:
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ||
१७ ख
वैशम्पाय़न उवाच:
तुम्वुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः |
१८ क
वैशम्पाय़न उवाच:
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ||
१८ ख
वैशम्पाय़न उवाच:
सप्तर्षय़ो महात्मानः कश्यपश्च प्रजापतिः |
१९ क
वैशम्पाय़न उवाच:
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ||
१९ ख
वैशम्पाय़न उवाच:
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते |
२० क
वैशम्पाय़न उवाच:
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ||
२० ख
वैशम्पाय़न उवाच:
तस्मात्कुवेरो भगवांश्चतुर्थं भागमश्नुते |
२१ क
वैशम्पाय़न उवाच:
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रय़च्छति ||
२१ ख
वैशम्पाय़न उवाच:
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् |
२२ क
वैशम्पाय़न उवाच:
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ||
२२ ख
वैशम्पाय़न उवाच:
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः |
२३ क
वैशम्पाय़न उवाच:
उमासहाय़ो भगवान्रमते भूतभावनः ||
२३ ख
वैशम्पाय़न उवाच:
कर्णिकारमय़ीं मालां विभ्रत्पादावलम्विनीम् |
२४ क
वैशम्पाय़न उवाच:
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ||
२४ ख
वैशम्पाय़न उवाच:
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः |
२५ क
वैशम्पाय़न उवाच:
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ||
२५ ख
वैशम्पाय़न उवाच:
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर |
२६ क
वैशम्पाय़न उवाच:
त्रिंशद्वाहुपरिग्राह्या भीमनिर्घातनिस्वना ||
२६ ख
वैशम्पाय़न उवाच:
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा |
२७ क
वैशम्पाय़न उवाच:
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे |
२७ ख
वैशम्पाय़न उवाच:
तय़ा ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ||
२७ ग
वैशम्पाय़न उवाच:
तां धारय़ामास पुरा दुर्धरां पर्वतैरपि |
२८ क
वैशम्पाय़न उवाच:
शतं वर्षसहस्राणां शिरसा वै महेश्वरः ||
२८ ख
वैशम्पाय़न उवाच:
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते |
२९ क
वैशम्पाय़न उवाच:
जम्वूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ||
२९ ख
वैशम्पाय़न उवाच:
आय़ुर्दश सहस्राणि वर्षाणां तत्र भारत |
३० क
वैशम्पाय़न उवाच:
सुवर्णवर्णाश्च नराः स्त्रिय़श्चाप्सरसोपमाः ||
३० ख
वैशम्पाय़न उवाच:
अनामय़ा वीतशोका नित्यं मुदितमानसाः |
३१ क
वैशम्पाय़न उवाच:
जाय़न्ते मानवास्तत्र निष्टप्तकनकप्रभाः ||
३१ ख
वैशम्पाय़न उवाच:
गन्धमादनशृङ्गेषु कुवेरः सह राक्षसैः |
३२ क
वैशम्पाय़न उवाच:
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ||
३२ ख
वैशम्पाय़न उवाच:
गन्धमादनपादेषु परेष्वपरगण्डिकाः |
३३ क
वैशम्पाय़न उवाच:
एकादश सहस्राणि वर्षाणां परमाय़ुषः ||
३३ ख
वैशम्पाय़न उवाच:
तत्र कृष्णा नरा राजंस्तेजोय़ुक्ता महावलाः |
३४ क
वैशम्पाय़न उवाच:
स्त्रिय़श्चोत्पलपत्राभाः सर्वाः सुप्रिय़दर्शनाः ||
३४ ख
वैशम्पाय़न उवाच:
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् |
३५ क
वैशम्पाय़न उवाच:
वर्षमैरावतं नाम ततः शृङ्गवतः परम् ||
३५ ख
वैशम्पाय़न उवाच:
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे |
३६ क
वैशम्पाय़न उवाच:
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ||
३६ ख
वैशम्पाय़न उवाच:
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः |
३७ क
वैशम्पाय़न उवाच:
आय़ुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ||
३७ ख
वैशम्पाय़न उवाच:
समन्वितानि भूतानि तेषु वर्षेषु भारत |
३८ क
वैशम्पाय़न उवाच:
एवमेषा महाराज पर्वतैः पृथिवी चिता ||
३८ ख
वैशम्पाय़न उवाच:
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः |
३९ क
वैशम्पाय़न उवाच:
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ||
३९ ख
वैशम्पाय़न उवाच:
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति |
४० क
वैशम्पाय़न उवाच:
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमय़ो गिरिः ||
४० ख
वैशम्पाय़न उवाच:
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् |
४१ क
वैशम्पाय़न उवाच:
रम्यं विन्दुसरो नाम यत्र राजा भगीरथः |
४१ ख
वैशम्पाय़न उवाच:
दृष्ट्वा भागीरथीं गङ्गामुवास वहुलाः समाः ||
४१ ग
वैशम्पाय़न उवाच:
यूपा मणिमय़ास्तत्र चित्याश्चापि हिरण्मय़ाः |
४२ क
वैशम्पाय़न उवाच:
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महाय़शाः ||
४२ ख
वैशम्पाय़न उवाच:
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः |
४३ क
वैशम्पाय़न उवाच:
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः |
४३ ख
वैशम्पाय़न उवाच:
नरनाराय़णौ व्रह्मा मनुः स्थाणुश्च पञ्चमः ||
४३ ग
वैशम्पाय़न उवाच:
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता |
४४ क
वैशम्पाय़न उवाच:
व्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ||
४४ ख
वैशम्पाय़न उवाच:
वस्वोकसारा नलिनी पावना च सरस्वती |
४५ क
वैशम्पाय़न उवाच:
जम्वूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ||
४५ ख
वैशम्पाय़न उवाच:
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः |
४६ क
वैशम्पाय़न उवाच:
उपासते यत्र सत्रं सहस्रय़ुगपर्यये ||
४६ ख
वैशम्पाय़न उवाच:
दृश्यादृश्या च भवति तत्र तत्र सरस्वती |
४७ क