chevron_left द्रोण पर्व अध्याय ७
सञ्जय़ उवाच:
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् |
१ क
सञ्जय़ उवाच:
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारय़न् ||
१ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जय़ौ |
२ क
सञ्जय़ उवाच:
अव्रवीत्सर्वतो यत्तैः कुम्भय़ोनिर्निवार्यताम् ||
२ ख
सञ्जय़ उवाच:
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः |
३ क
सञ्जय़ उवाच:
पर्यगृह्णंस्ततः सर्वे समाय़ान्तं महारथाः ||
३ ख
सञ्जय़ उवाच:
केकय़ा भीमसेनश्च सौभद्रोऽथ घटोत्कचः |
४ क
सञ्जय़ उवाच:
युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ||
४ ख
सञ्जय़ उवाच:
द्रौपदेय़ाश्च संहृष्टा धृष्टकेतुः ससात्यकिः |
५ क
सञ्जय़ उवाच:
चेकितानश्च सङ्क्रुद्धो युय़ुत्सुश्च महारथः ||
५ ख
सञ्जय़ उवाच:
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुय़ाय़िनः |
६ क
सञ्जय़ उवाच:
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ||
६ ख
सञ्जय़ उवाच:
सङ्गृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे |
७ क
सञ्जय़ उवाच:
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ||
७ ख
सञ्जय़ उवाच:
स तीव्रं कोपमास्थाय़ रथे समरदुर्मदः |
८ क
सञ्जय़ उवाच:
व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ||
८ ख
सञ्जय़ उवाच:
रथानश्वान्नरान्नागानभिधावंस्ततस्ततः |
९ क
सञ्जय़ उवाच:
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ||
९ ख
सञ्जय़ उवाच:
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः |
१० क
सञ्जय़ उवाच:
आजानेय़ा हय़ा राजन्नविभ्रान्ताः श्रिय़ं दधुः ||
१० ख
सञ्जय़ उवाच:
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् |
११ क
सञ्जय़ उवाच:
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ||
११ ख
सञ्जय़ उवाच:
तेषां प्रद्रवतां भीमः पुनरावर्ततामपि |
१२ क
सञ्जय़ उवाच:
वीक्षतां तिष्ठतां चासीच्छव्दः परमदारुणः ||
१२ ख
सञ्जय़ उवाच:
शूराणां हर्षजननो भीरूणां भय़वर्धनः |
१३ क
सञ्जय़ उवाच:
द्यावापृथिव्योर्विवरं पूरय़ामास सर्वतः ||
१३ ख
सञ्जय़ उवाच:
ततः पुनरपि द्रोणो नाम विश्रावय़न्युधि |
१४ क
सञ्जय़ उवाच:
अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ||
१४ ख
सञ्जय़ उवाच:
स तथा तान्यनीकानि पाण्डवेय़स्य धीमतः |
१५ क
सञ्जय़ उवाच:
कालवन्न्यवधीद्द्रोणो युवेव स्थविरो वली ||
१५ ख
सञ्जय़ उवाच:
उत्कृत्य च शिरांस्युग्रो वाहूनपि सभूषणान् |
१६ क
सञ्जय़ उवाच:
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ||
१६ ख
सञ्जय़ उवाच:
तस्य हर्षप्रणादेन वाणवेगेन चाभिभो |
१७ क
सञ्जय़ उवाच:
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ||
१७ ख
सञ्जय़ उवाच:
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च |
१८ क
सञ्जय़ उवाच:
धनुःशव्देन चाकाशे शव्दः समभवन्महान् ||
१८ ख
सञ्जय़ उवाच:
अथास्य वहुशो वाणा निश्चरन्तः सहस्रशः |
१९ क
सञ्जय़ उवाच:
व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ||
१९ ख
सञ्जय़ उवाच:
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् |
२० क
सञ्जय़ उवाच:
द्रोणमासादय़ां चक्रुः पाञ्चालाः पाण्डवैः सह ||
२० ख
सञ्जय़ उवाच:
तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् |
२१ क
सञ्जय़ उवाच:
द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ||
२१ ख
सञ्जय़ उवाच:
तन्वता परमास्त्राणि शरान्सततमस्यता |
२२ क
सञ्जय़ उवाच:
द्रोणेन विहितं दिक्षु वाणजालमदृश्यत ||
२२ ख
सञ्जय़ उवाच:
पदातिषु रथाश्वेषु वारणेषु च सर्वशः |
२३ क
सञ्जय़ उवाच:
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ||
२३ ख
सञ्जय़ उवाच:
स केकय़ानां प्रवरांश्च पञ्च; पाञ्चालराजं च शरैः प्रमृद्य |
२४ क
सञ्जय़ उवाच:
युधिष्ठिरानीकमदीनय़ोधी; द्रोणोऽभ्ययात्कार्मुकवाणपाणिः ||
२४ ख
सञ्जय़ उवाच:
तं भीमसेनश्च धनञ्जय़श्च; शिनेश्च नप्ता द्रुपदात्मजश्च |
२५ क
सञ्जय़ उवाच:
शैव्यात्मजः काशिपतिः शिविश्च; हृष्टा नदन्तो व्यकिरञ्शरौघैः ||
२५ ख
सञ्जय़ उवाच:
तेषामथो द्रोणधनुर्विमुक्ताः; पतत्रिणः काञ्चनचित्रपुङ्खाः |
२६ क
सञ्जय़ उवाच:
भित्त्वा शरीराणि गजाश्वय़ूनां; जग्मुर्महीं शोणितदिग्धवाजाः ||
२६ ख
सञ्जय़ उवाच:
सा योधसङ्घैश्च रथैश्च भूमिः; शरैर्विभिन्नैर्गजवाजिभिश्च |
२७ क
सञ्जय़ उवाच:
प्रच्छाद्यमाना पतितैर्वभूव; समन्ततो द्यौरिव कालमेघैः ||
२७ ख
सञ्जय़ उवाच:
शैनेय़भीमार्जुनवाहिनीपा; ञ्शैव्याभिमन्यू सह काशिराज्ञा |
२८ क
सञ्जय़ उवाच:
अन्यांश्च वीरान्समरे प्रमृद्ना; द्द्रोणः सुतानां तव भूतिकामः ||
२८ ख
सञ्जय़ उवाच:
एतानि चान्यानि च कौरवेन्द्र; कर्माणि कृत्वा समरे महात्मा |
२९ क
सञ्जय़ उवाच:
प्रताप्य लोकानिव कालसूर्यो; द्रोणो गतः स्वर्गमितो हि राजन् ||
२९ ख
सञ्जय़ उवाच:
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः |
३० क
सञ्जय़ उवाच:
पाण्डवानां रणे योधान्पार्षतेन निपातितः ||
३० ख
सञ्जय़ उवाच:
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् |
३१ क
सञ्जय़ उवाच:
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ||
३१ ख
सञ्जय़ उवाच:
पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः |
३२ क
सञ्जय़ उवाच:
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ||
३२ ख
सञ्जय़ उवाच:
ततो निनादो भूतानामाकाशे समजाय़त |
३३ क
सञ्जय़ उवाच:
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ||
३३ ख
सञ्जय़ उवाच:
द्यां धरां खं दिशो वारि प्रदिशश्चानुनादय़न् |
३४ क
सञ्जय़ उवाच:
अहो धिगिति भूतानां शव्दः समभवन्महान् ||
३४ ख
सञ्जय़ उवाच:
देवताः पितरश्चैव पूर्वे ये चास्य वान्धवाः |
३५ क
सञ्जय़ उवाच:
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ||
३५ ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा सिंहनादान्प्रचक्रिरे |
३६ क
सञ्जय़ उवाच:
तेन नादेन महता समकम्पत मेदिनी ||
३६ ख