chevron_left कर्ण पर्व अध्याय ७
धृतराष्ट्र उवाच:
सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा |
१ क
धृतराष्ट्र उवाच:
तथोक्तश्च स्वय़ं राज्ञा स्निग्धं भ्रातृसमं वचः ||
१ ख
धृतराष्ट्र उवाच:
योगमाज्ञाप्य सेनाय़ा आदित्येऽभ्युदिते तदा |
२ क
धृतराष्ट्र उवाच:
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
कर्णस्य मतमाज्ञाय़ पुत्रस्ते भरतर्षभ |
३ क
सञ्जय़ उवाच:
योगमाज्ञापय़ामास नान्दीतूर्यपुरःसरम् ||
३ ख
सञ्जय़ उवाच:
महत्यपररात्रे तु तव पुत्रस्य मारिष |
४ क
सञ्जय़ उवाच:
योगो योगेति सहसा प्रादुरासीन्महास्वनः ||
४ ख
सञ्जय़ उवाच:
नागानां कल्पमानानां रथानां च वरूथिनाम् |
५ क
सञ्जय़ उवाच:
संनह्यतां पदातीनां वाजिनां च विशां पते ||
५ ख
सञ्जय़ उवाच:
क्रोशतां चापि योधानां त्वरितानां परस्परम् |
६ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दो दिवस्पृक्सुमहांस्तदा ||
६ ख
सञ्जय़ उवाच:
ततः श्वेतपताकेन वालार्काकारवाजिना |
७ क
सञ्जय़ उवाच:
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ||
७ ख
सञ्जय़ उवाच:
तूणेन शरपूर्णेन साङ्गदेन वरूथिना |
८ क
सञ्जय़ उवाच:
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ||
८ ख
सञ्जय़ उवाच:
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा |
९ क
सञ्जय़ उवाच:
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ||
९ ख
सञ्जय़ उवाच:
धमन्तं वारिजं तात हेमजालविभूषितम् |
१० क
सञ्जय़ उवाच:
विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ||
१० ख
सञ्जय़ उवाच:
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् |
११ क
सञ्जय़ उवाच:
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ||
११ ख
सञ्जय़ उवाच:
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष |
१२ क
सञ्जय़ उवाच:
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ||
१२ ख
सञ्जय़ उवाच:
ततस्तु त्वरय़न्योधाञ्शङ्खशव्देन मारिष |
१३ क
सञ्जय़ उवाच:
कर्णो निष्कासय़ामास कौरवाणां वरूथिनीम् ||
१३ ख
सञ्जय़ उवाच:
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः |
१४ क
सञ्जय़ उवाच:
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषय़ा ||
१४ ख
सञ्जय़ उवाच:
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः |
१५ क
सञ्जय़ उवाच:
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ||
१५ ख
सञ्जय़ उवाच:
द्रोणपुत्रस्तु शिरसि ग्रीवाय़ां सर्वसोदराः |
१६ क
सञ्जय़ उवाच:
मध्ये दुर्योधनो राजा वलेन महता वृतः ||
१६ ख
सञ्जय़ उवाच:
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः |
१७ क
सञ्जय़ उवाच:
नाराय़णवलैर्युक्तो गोपालैर्युद्धदुर्मदः ||
१७ ख
सञ्जय़ उवाच:
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः |
१८ क
सञ्जय़ उवाच:
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ||
१८ ख
सञ्जय़ उवाच:
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः |
१९ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं मद्रदेशसमुत्थय़ा ||
१९ ख
सञ्जय़ उवाच:
दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः |
२० क
सञ्जय़ उवाच:
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ||
२० ख
सञ्जय़ उवाच:
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा |
२१ क
सञ्जय़ उवाच:
चित्रसेनश्च चित्रश्च महत्या सेनय़ा वृतौ ||
२१ ख
सञ्जय़ उवाच:
ततः प्रय़ाते राजेन्द्र कर्णे नरवरोत्तमे |
२२ क
सञ्जय़ उवाच:
धनञ्जय़मभिप्रेक्ष्य धर्मराजोऽव्रवीदिदम् ||
२२ ख
सञ्जय़ उवाच:
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संय़ुगे |
२३ क
सञ्जय़ उवाच:
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ||
२३ ख
सञ्जय़ उवाच:
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः |
२४ क
सञ्जय़ उवाच:
फल्गुशेषा महावाहो तृणैस्तुल्या मता मम ||
२४ ख
सञ्जय़ उवाच:
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः |
२५ क
सञ्जय़ उवाच:
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः |
२५ ख
सञ्जय़ उवाच:
चराचरैस्त्रिभिर्लोकैर्योऽजय़्यो रथिनां वरः ||
२५ ग
सञ्जय़ उवाच:
तं हत्वाद्य महावाहो विजय़स्तव फल्गुन |
२६ क
सञ्जय़ उवाच:
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः |
२६ ख
सञ्जय़ उवाच:
एवं ज्ञात्वा महावाहो व्यूहं व्यूह यथेच्छसि ||
२६ ग
सञ्जय़ उवाच:
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः |
२७ क
सञ्जय़ उवाच:
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ||
२७ ख
सञ्जय़ उवाच:
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः |
२८ क
सञ्जय़ उवाच:
दक्षिणे च महेष्वासो धृष्टद्युम्नो महावलः ||
२८ ख
सञ्जय़ उवाच:
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः |
२९ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ||
२९ ख
सञ्जय़ उवाच:
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ |
३० क
सञ्जय़ उवाच:
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ||
३० ख
सञ्जय़ उवाच:
शेषा नृपतय़ो वीराः स्थिता व्यूहस्य दंशिताः |
३१ क
सञ्जय़ उवाच:
यथाभावं यथोत्साहं यथासत्त्वं च भारत ||
३१ ख
सञ्जय़ उवाच:
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |
३२ क
सञ्जय़ उवाच:
तावकाश्च महेष्वासा युद्धाय़ैव मनो दधुः ||
३२ ख
सञ्जय़ उवाच:
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संय़ुगे |
३३ क
सञ्जय़ उवाच:
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वय़ः ||
३३ ख
सञ्जय़ उवाच:
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः |
३४ क
सञ्जय़ उवाच:
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ||
३४ ख
सञ्जय़ उवाच:
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
३५ क
सञ्जय़ उवाच:
सहसैवाभ्यहन्यन्त सशव्दाश्च समन्ततः ||
३५ ख
सञ्जय़ उवाच:
सेनय़ोरुभय़ो राजन्प्रावाद्यन्त महास्वनाः |
३६ क
सञ्जय़ उवाच:
सिंहनादश्च सञ्जज्ञे शूराणां जय़गृद्धिनाम् ||
३६ ख
सञ्जय़ उवाच:
हय़हेषितशव्दाश्च वारणानां च वृंहितम् |
३७ क
सञ्जय़ उवाच:
रथनेमिस्वनाश्चोग्राः सम्वभूवुर्जनाधिप ||
३७ ख
सञ्जय़ उवाच:
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ |
३८ क
सञ्जय़ उवाच:
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ||
३८ ख
सञ्जय़ उवाच:
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे |
३९ क
सञ्जय़ उवाच:
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ||
३९ ख
सञ्जय़ उवाच:
तत्र यत्तौ सुसंरव्धौ दृष्ट्वान्योन्यं व्यवस्थितौ |
४० क
सञ्जय़ उवाच:
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ||
४० ख
सञ्जय़ उवाच:
नृत्यमाने तु ते सेने समेय़ातां परस्परम् |
४१ क
सञ्जय़ उवाच:
तय़ोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युय़ुत्सवः ||
४१ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं नरवारणवाजिनाम् |
४२ क
सञ्जय़ उवाच:
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ||
४२ ख