chevron_left शल्य पर्व अध्याय ७
सञ्जय़ उवाच:
व्यतीताय़ां रजन्यां तु राजा दुर्योधनस्तदा |
१ क
सञ्जय़ उवाच:
अव्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ||
१ ख
सञ्जय़ उवाच:
राज्ञस्तु मतमाज्ञाय़ समनह्यत सा चमूः |
२ क
सञ्जय़ उवाच:
अय़ोजय़न्रथांस्तूर्णं पर्यधावंस्तथापरे ||
२ ख
सञ्जय़ उवाच:
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तय़ः |
३ क
सञ्जय़ उवाच:
हय़ानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ||
३ ख
सञ्जय़ उवाच:
वादित्राणां च निनदः प्रादुरासीद्विशां पते |
४ क
सञ्जय़ उवाच:
वोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ||
४ ख
सञ्जय़ उवाच:
ततो वलानि सर्वाणि सेनाशिष्टानि भारत |
५ क
सञ्जय़ उवाच:
संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ||
५ ख
सञ्जय़ उवाच:
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः |
६ क
सञ्जय़ उवाच:
प्रविभज्य वलं सर्वमनीकेषु व्यवस्थिताः ||
६ ख
सञ्जय़ उवाच:
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः |
७ क
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौवलः ||
७ ख
सञ्जय़ उवाच:
अन्ये च पार्थिवाः शेषाः समय़ं चक्रिरे तदा |
८ क
सञ्जय़ उवाच:
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ||
८ ख
सञ्जय़ उवाच:
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् |
९ क
सञ्जय़ उवाच:
स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः |
९ ख
सञ्जय़ उवाच:
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ||
९ ग
सञ्जय़ उवाच:
एवं ते समय़ं कृत्वा सर्वे तत्र महारथाः |
१० क
सञ्जय़ उवाच:
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ||
१० ख
सञ्जय़ उवाच:
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे |
११ क
सञ्जय़ उवाच:
अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ||
११ ख
सञ्जय़ उवाच:
तद्वलं भरतश्रेष्ठ क्षुव्धार्णवसमस्वनम् |
१२ क
सञ्जय़ उवाच:
समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ||
१२ ख
धृतराष्ट्र उवाच:
द्रोणस्य भीष्मस्य च वै राधेय़स्य च मे श्रुतम् |
१३ क
धृतराष्ट्र उवाच:
पातनं शंस मे भूय़ः शल्यस्याथ सुतस्य मे ||
१३ ख
धृतराष्ट्र उवाच:
कथं रणे हतः शल्यो धर्मराजेन सञ्जय़ |
१४ क
धृतराष्ट्र उवाच:
भीमेन च महावाहुः पुत्रो दुर्योधनो मम ||
१४ ख
सञ्जय़ उवाच:
क्षय़ं मनुष्यदेहानां रथनागाश्वसङ्क्षय़म् |
१५ क
सञ्जय़ उवाच:
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ||
१५ ख
सञ्जय़ उवाच:
आशा वलवती राजन्पुत्राणां तेऽभवत्तदा |
१६ क
सञ्जय़ उवाच:
हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते |
१६ ख
सञ्जय़ उवाच:
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ||
१६ ग
सञ्जय़ उवाच:
तामाशां हृदय़े कृत्वा समाश्वास्य च भारत |
१७ क
सञ्जय़ उवाच:
मद्रराजं च समरे समाश्रित्य महारथम् |
१७ ख
सञ्जय़ उवाच:
नाथवन्तमथात्मानममन्यत सुतस्तव ||
१७ ग
सञ्जय़ उवाच:
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे |
१८ क
सञ्जय़ उवाच:
तदा राजन्धार्तराष्ट्रानाविवेश महद्भय़म् ||
१८ ख
सञ्जय़ उवाच:
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् |
१९ क
सञ्जय़ उवाच:
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ||
१९ ख
सञ्जय़ उवाच:
प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् |
२० क
सञ्जय़ उवाच:
विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ||
२० ख
सञ्जय़ उवाच:
रथप्रवरमास्थाय़ सैन्धवाश्वं महारथः |
२१ क
सञ्जय़ उवाच:
तस्य सीता महाराज रथस्थाशोभय़द्रथम् ||
२१ ख
सञ्जय़ उवाच:
स तेन संवृतो वीरो रथेनामित्रकर्शनः |
२२ क
सञ्जय़ उवाच:
तस्थौ शूरो महाराज पुत्राणां ते भय़प्रणुत् ||
२२ ख
सञ्जय़ उवाच:
प्रय़ाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः |
२३ क
सञ्जय़ उवाच:
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जय़ैः ||
२३ ख
सञ्जय़ उवाच:
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः |
२४ क
सञ्जय़ उवाच:
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ||
२४ ख
सञ्जय़ उवाच:
अश्वत्थामा पृष्ठतोऽभूत्काम्वोजैः परिवारितः |
२५ क
सञ्जय़ उवाच:
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ||
२५ ख
सञ्जय़ उवाच:
हय़ानीकेन महता सौवलश्चापि संवृतः |
२६ क
सञ्जय़ उवाच:
प्रय़यौ सर्वसैन्येन कैतव्यश्च महारथः ||
२६ ख
सञ्जय़ उवाच:
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः |
२७ क
सञ्जय़ उवाच:
त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ||
२७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः |
२८ क
सञ्जय़ उवाच:
शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ||
२८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः |
२९ क
सञ्जय़ उवाच:
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ||
२९ ख
सञ्जय़ उवाच:
हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा |
३० क
सञ्जय़ उवाच:
संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ||
३० ख
सञ्जय़ उवाच:
गौतमं भीमसेनो वै सोमकाश्च महारथाः |
३१ क
सञ्जय़ उवाच:
अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ||
३१ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ |
३२ क
सञ्जय़ उवाच:
ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ||
३२ ख
सञ्जय़ उवाच:
तथैवाय़ुतशो योधास्तावकाः पाण्डवान्रणे |
३३ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धा विविधाय़ुधपाणय़ः ||
३३ ख
धृतराष्ट्र उवाच:
हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे |
३४ क
धृतराष्ट्र उवाच:
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संय़ुगे ||
३४ ख
धृतराष्ट्र उवाच:
सुसंरव्धेषु पार्थेषु पराक्रान्तेषु सञ्जय़ |
३५ क
धृतराष्ट्र उवाच:
मामकानां परेषां च किं शिष्टमभवद्वलम् ||
३५ ख
सञ्जय़ उवाच:
यथा वय़ं परे राजन्युद्धाय़ समवस्थिताः |
३६ क
सञ्जय़ उवाच:
यावच्चासीद्वलं शिष्टं सङ्ग्रामे तन्निवोध मे ||
३६ ख
सञ्जय़ उवाच:
एकादश सहस्राणि रथानां भरतर्षभ |
३७ क
सञ्जय़ उवाच:
दश दन्तिसहस्राणि सप्त चैव शतानि च ||
३७ ख
सञ्जय़ उवाच:
पूर्णे शतसहस्रे द्वे हय़ानां भरतर्षभ |
३८ क
सञ्जय़ उवाच:
नरकोट्यस्तथा तिस्रो वलमेतत्तवाभवत् ||
३८ ख
सञ्जय़ उवाच:
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः |
३९ क
सञ्जय़ उवाच:
दश चाश्वसहस्राणि पत्तिकोटी च भारत ||
३९ ख
सञ्जय़ उवाच:
एतद्वलं पाण्डवानामभवच्छेषमाहवे |
४० क
सञ्जय़ उवाच:
एत एव समाजग्मुर्युद्धाय़ भरतर्षभ ||
४० ख
सञ्जय़ उवाच:
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः |
४१ क
सञ्जय़ उवाच:
पाण्डवान्प्रत्युदीय़ाम जय़गृद्धाः प्रमन्यवः ||
४१ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः शूराः समरे जितकाशिनः |
४२ क
सञ्जय़ उवाच:
उपय़ाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ||
४२ ख
सञ्जय़ उवाच:
एवमेते वलौघेन परस्परवधैषिणः |
४३ क
सञ्जय़ उवाच:
उपय़ाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ||
४३ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं घोररूपं भय़ानकम् |
४४ क
सञ्जय़ उवाच:
तावकानां परेषां च निघ्नतामितरेतरम् ||
४४ ख