वैशम्पाय़न उवाच:
सञ्जय़े प्रतिय़ाते तु धर्मराजो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ||
१ ख
वैशम्पाय़न उवाच:
अय़ं स कालः सम्प्राप्तो मित्राणां मे जनार्दन |
२ क
वैशम्पाय़न उवाच:
न च त्वदन्यं पश्यामि यो न आपत्सु तारय़ेत् ||
२ ख
वैशम्पाय़न उवाच:
त्वां हि माधव संश्रित्य निर्भय़ा मोहदर्पितम् |
३ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रं सहामात्यं स्वमंशमनुय़ुञ्ज्महे ||
३ ख
वैशम्पाय़न उवाच:
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम |
४ क
वैशम्पाय़न उवाच:
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भय़ात् ||
४ ख
भगवानु उवाच:
अय़मस्मि महावाहो व्रूहि यत्ते विवक्षितम् |
५ क
भगवानु उवाच:
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ||
५ ख
युधिष्ठिर उवाच:
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् |
६ क
युधिष्ठिर उवाच:
एतद्धि सकलं कृष्ण सञ्जय़ो मां यदव्रवीत् ||
६ ख
युधिष्ठिर उवाच:
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः |
७ क
युधिष्ठिर उवाच:
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा व्रुवन् ||
७ ख
युधिष्ठिर उवाच:
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति |
८ क
युधिष्ठिर उवाच:
लुव्धः पापेन मनसा चरन्नसममात्मनः ||
८ ख
युधिष्ठिर उवाच:
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वय़म् |
९ क
युधिष्ठिर उवाच:
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ||
९ ख
युधिष्ठिर उवाच:
स्थाता नः समय़े तस्मिन्धृतराष्ट्र इति प्रभो |
१० क
युधिष्ठिर उवाच:
नाहास्म समय़ं कृष्ण तद्धि नो व्राह्मणा विदुः ||
१० ख
युधिष्ठिर उवाच:
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति |
११ क
युधिष्ठिर उवाच:
पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ||
११ ख
युधिष्ठिर उवाच:
सुय़ोधनमते तिष्ठन्राजास्मासु जनार्दन |
१२ क
युधिष्ठिर उवाच:
मिथ्या चरति लुव्धः संश्चरन्प्रिय़मिवात्मनः ||
१२ ख
युधिष्ठिर उवाच:
इतो दुःखतरं किं नु यत्राहं मातरं ततः |
१३ क
युधिष्ठिर उवाच:
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ||
१३ ख
युधिष्ठिर उवाच:
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन |
१४ क
युधिष्ठिर उवाच:
भवता चैव नाथेन पञ्च ग्रामा वृता मय़ा ||
१४ ख
युधिष्ठिर उवाच:
कुशस्थलं वृकस्थलमासन्दी वारणावतम् |
१५ क
युधिष्ठिर उवाच:
अवसानं च गोविन्द किञ्चिदेवात्र पञ्चमम् ||
१५ ख
युधिष्ठिर उवाच:
पञ्च नस्तात दीय़न्तां ग्रामा वा नगराणि वा |
१६ क
युधिष्ठिर उवाच:
वसेम सहिता येषु मा च नो भरता नशन् ||
१६ ख
युधिष्ठिर उवाच:
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते |
१७ क
युधिष्ठिर उवाच:
स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ||
१७ ख
युधिष्ठिर उवाच:
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः |
१८ क
युधिष्ठिर उवाच:
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रिय़म् ||
१८ ख
युधिष्ठिर उवाच:
ह्रीर्हता वाधते धर्मं धर्मो हन्ति हतः श्रिय़म् |
१९ क
युधिष्ठिर उवाच:
श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ||
१९ ख
युधिष्ठिर उवाच:
अस्वतो हि निवर्तन्ते ज्ञातय़ः सुहृदर्त्विजः |
२० क
युधिष्ठिर उवाच:
अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ||
२० ख
युधिष्ठिर उवाच:
एतच्च मरणं तात यदस्मात्पतितादिव |
२१ क
युधिष्ठिर उवाच:
ज्ञातय़ो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ||
२१ ख
युधिष्ठिर उवाच:
नातः पापीय़सीं काञ्चिदवस्थां शम्वरोऽव्रवीत् |
२२ क
युधिष्ठिर उवाच:
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ||
२२ ख
युधिष्ठिर उवाच:
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् |
२३ क
युधिष्ठिर उवाच:
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ||
२३ ख
युधिष्ठिर उवाच:
ये धनादपकर्षन्ति नरं स्ववलमाश्रिताः |
२४ क
युधिष्ठिर उवाच:
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ||
२४ ख
युधिष्ठिर उवाच:
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः |
२५ क
युधिष्ठिर उवाच:
ग्रामाय़ैके वनाय़ैके नाशाय़ैके प्रवव्रजुः ||
२५ ख
युधिष्ठिर उवाच:
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् |
२६ क
युधिष्ठिर उवाच:
दास्यमेके निगच्छन्ति परेषामर्थहेतुना ||
२६ ख
युधिष्ठिर उवाच:
आपदेवास्य मरणात्पुरुषस्य गरीय़सी |
२७ क
युधिष्ठिर उवाच:
श्रिय़ो विनाशस्तद्ध्यस्य निमित्तं धर्मकामय़ोः ||
२७ ख
युधिष्ठिर उवाच:
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् |
२८ क
युधिष्ठिर उवाच:
समन्तात्सर्वभूतानां न तदत्येति कश्चन ||
२८ ख
युधिष्ठिर उवाच:
न तथा वाध्यते कृष्ण प्रकृत्या निर्धनो जनः |
२९ क
युधिष्ठिर उवाच:
यथा भद्रां श्रिय़ं प्राप्य तय़ा हीनः सुखैधितः ||
२९ ख
युधिष्ठिर उवाच:
स तदात्मापराधेन सम्प्राप्तो व्यसनं महत् |
३० क
युधिष्ठिर उवाच:
सेन्द्रान्गर्हय़ते देवान्नात्मानं च कथञ्चन ||
३० ख
युधिष्ठिर उवाच:
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् |
३१ क
युधिष्ठिर उवाच:
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूय़ति ||
३१ ख
युधिष्ठिर उवाच:
तं तदा मन्युरेवैति स भूय़ः सम्प्रमुह्यति |
३२ क
युधिष्ठिर उवाच:
स मोहवशमापन्नः क्रूरं कर्म निषेवते ||
३२ ख
युधिष्ठिर उवाच:
पापकर्मात्ययाय़ैव सङ्करं तेन पुष्यति |
३३ क
युधिष्ठिर उवाच:
सङ्करो नरकाय़ैव सा काष्ठा पापकर्मणाम् ||
३३ ख
युधिष्ठिर उवाच:
न चेत्प्रवुध्यते कृष्ण नरकाय़ैव गच्छति |
३४ क
युधिष्ठिर उवाच:
तस्य प्रवोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ||
३४ ख
युधिष्ठिर उवाच:
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते |
३५ क
युधिष्ठिर उवाच:
शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ||
३५ ख
युधिष्ठिर उवाच:
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते |
३६ क
युधिष्ठिर उवाच:
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ||
३६ ख
युधिष्ठिर उवाच:
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा |
३७ क
युधिष्ठिर उवाच:
नाधर्मे कुरुते वुद्धिं न च पापेषु वर्तते ||
३७ ख
युधिष्ठिर उवाच:
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् |
३८ क
युधिष्ठिर उवाच:
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ||
३८ ख
युधिष्ठिर उवाच:
ह्रीमानवति देवांश्च पितॄनात्मानमेव च |
३९ क
युधिष्ठिर उवाच:
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ||
३९ ख
युधिष्ठिर उवाच:
तदिदं मय़ि ते दृष्टं प्रत्यक्षं मधुसूदन |
४० क
युधिष्ठिर उवाच:
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ||
४० ख
युधिष्ठिर उवाच:
ते वय़ं न श्रिय़ं हातुमलं न्याय़ेन केनचित् |
४१ क
युधिष्ठिर उवाच:
अत्र नो यतमानानां वधश्चेदपि साधु तत् ||
४१ ख
युधिष्ठिर उवाच:
तत्र नः प्रथमः कल्पो यद्वय़ं ते च माधव |
४२ क
युधिष्ठिर उवाच:
प्रशान्ताः समभूताश्च श्रिय़ं तानश्नुवीमहि ||
४२ ख
युधिष्ठिर उवाच:
तत्रैषा परमा काष्ठा रौद्रकर्मक्षय़ोदय़ा |
४३ क
युधिष्ठिर उवाच:
यद्वय़ं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ||
४३ ख
युधिष्ठिर उवाच:
ये पुनः स्युरसम्वद्धा अनार्याः कृष्ण शत्रवः |
४४ क
युधिष्ठिर उवाच:
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ||
४४ ख
युधिष्ठिर उवाच:
ज्ञातय़श्च हि भूय़िष्ठाः सहाय़ा गुरवश्च नः |
४५ क
युधिष्ठिर उवाच:
तेषां वधोऽतिपापीय़ान्किं नु युद्धेऽस्ति शोभनम् ||
४५ ख
युधिष्ठिर उवाच:
पापः क्षत्रिय़धर्मोऽय़ं वय़ं च क्षत्रवान्धवाः |
४६ क
युधिष्ठिर उवाच:
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ||
४६ ख
युधिष्ठिर उवाच:
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः |
४७ क
युधिष्ठिर उवाच:
वय़ं वधेन जीवामः कपालं व्राह्मणैर्वृतम् ||
४७ ख
युधिष्ठिर उवाच:
क्षत्रिय़ः क्षत्रिय़ं हन्ति मत्स्यो मत्स्येन जीवति |
४८ क
युधिष्ठिर उवाच:
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ||
४८ ख
युधिष्ठिर उवाच:
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संय़ुगे |
४९ क
युधिष्ठिर उवाच:
वलं तु नीतिमात्राय़ हठे जय़पराजय़ौ ||
४९ ख
युधिष्ठिर उवाच:
नात्मच्छन्देन भूतानां जीवितं मरणं तथा |
५० क
युधिष्ठिर उवाच:
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ||
५० ख