chevron_left अनुशासन पर्व अध्याय ७०
नाचिकेत उवाच:
गामप्येकां कपिलां सम्प्रदाय़; न्याय़ोपेतां कल्मषाद्विप्रमुच्येत् |
५० क
नाचिकेत उवाच:
गवां रसात्परमं नास्ति किं चि; द्गवां दानं सुमहत्तद्वदन्ति ||
५० ख
नाचिकेत उवाच:
गावो लोकान्धारय़न्ति क्षरन्त्यो; गावश्चान्नं सञ्जनय़न्ति लोके |
५१ क
नाचिकेत उवाच:
यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरय़ं पापचेताः ||
५१ ख
नाचिकेत उवाच:
यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः |
५२ क
नाचिकेत उवाच:
अप्येकां वा साधवे व्राह्मणाय़; सास्यामुष्मिन्पुण्यतीर्था नदी वै ||
५२ ख
नाचिकेत उवाच:
प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् |
५३ क
नाचिकेत उवाच:
शव्दश्चैकः सन्ततिश्चोपभोग; स्तस्माद्गोदः सूर्य इवाभिभाति ||
५३ ख
नाचिकेत उवाच:
गुरुं शिष्यो वरय़ेद्गोप्रदाने; स वै वक्ता निय़तं स्वर्गदाता |
५४ क
नाचिकेत उवाच:
विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधय़ः संश्रय़न्ति ||
५४ ख
नाचिकेत उवाच:
एतद्दानं न्याय़लव्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापय़ेथाः परीक्ष्य |
५५ क
नाचिकेत उवाच:
त्वय़्याशंसन्त्यमरा मानवाश्च; वय़ं चापि प्रसृते पुण्यशीलाः ||
५५ ख
नाचिकेत उवाच:
इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य |
५६ क
नाचिकेत उवाच:
अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् ||
५६ ख