chevron_left उद्योग पर्व अध्याय ७०
युधिष्ठिर उवाच:
एको ह्यपि वहून्हन्ति घ्नन्त्येकं वहवोऽप्युत |
५१ क
युधिष्ठिर उवाच:
शूरं कापुरुषो हन्ति अय़शस्वी यशस्विनम् ||
५१ ख
युधिष्ठिर उवाच:
जय़श्चैवोभय़ोर्दृष्ट उभय़ोश्च पराजय़ः |
५२ क
युधिष्ठिर उवाच:
तथैवापचय़ो दृष्टो व्यपय़ाने क्षय़व्ययौ ||
५२ ख
युधिष्ठिर उवाच:
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते |
५३ क
युधिष्ठिर उवाच:
हतस्य च हृषीकेश समौ जय़पराजय़ौ ||
५३ ख
युधिष्ठिर उवाच:
पराजय़श्च मरणान्मन्ये नैव विशिष्यते |
५४ क
युधिष्ठिर उवाच:
यस्य स्याद्विजय़ः कृष्ण तस्याप्यपचय़ो ध्रुवम् ||
५४ ख
युधिष्ठिर उवाच:
अन्ततो दय़ितं घ्नन्ति केचिदप्यपरे जनाः |
५५ क
युधिष्ठिर उवाच:
तस्याङ्ग वलहीनस्य पुत्रान्भ्रातॄनपश्यतः |
५५ ख
युधिष्ठिर उवाच:
निर्वेदो जीविते कृष्ण सर्वतश्चोपजाय़ते ||
५५ ग
युधिष्ठिर उवाच:
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः |
५६ क
युधिष्ठिर उवाच:
त एव युद्धे हन्यन्ते यवीय़ान्मुच्यते जनः ||
५६ ख
युधिष्ठिर उवाच:
हत्वाप्यनुशय़ो नित्यं परानपि जनार्दन |
५७ क
युधिष्ठिर उवाच:
अनुवन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ||
५७ ख
युधिष्ठिर उवाच:
शेषो हि वलमासाद्य न शेषमवशेषय़ेत् |
५८ क
युधिष्ठिर उवाच:
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सय़ा ||
५८ ख
युधिष्ठिर उवाच:
जय़ो वैरं प्रसृजति दुःखमास्ते पराजितः |
५९ क
युधिष्ठिर उवाच:
सुखं प्रशान्तः स्वपिति हित्वा जय़पराजय़ौ ||
५९ ख
युधिष्ठिर उवाच:
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा |
६० क
युधिष्ठिर उवाच:
अनिर्वृतेन मनसा ससर्प इव वेश्मनि ||
६० ख
युधिष्ठिर उवाच:
उत्सादय़ति यः सर्वं यशसा स विय़ुज्यते |
६१ क
युधिष्ठिर उवाच:
अकीर्तिं सर्वभूतेषु शाश्वतीं स निय़च्छति ||
६१ ख
युधिष्ठिर उवाच:
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि |
६२ क
युधिष्ठिर उवाच:
आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले ||
६२ ख
युधिष्ठिर उवाच:
न चापि वैरं वैरेण केशव व्युपशाम्यति |
६३ क
युधिष्ठिर उवाच:
हविषाग्निर्यथा कृष्ण भूय़ एवाभिवर्धते ||
६३ ख
युधिष्ठिर उवाच:
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः |
६४ क
युधिष्ठिर उवाच:
अन्तरं लिप्समानानामय़ं दोषो निरन्तरः ||
६४ ख
युधिष्ठिर उवाच:
पौरुषेय़ो हि वलवानाधिर्हृदय़वाधनः |
६५ क
युधिष्ठिर उवाच:
तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ||
६५ ख
युधिष्ठिर उवाच:
अथ वा मूलघातेन द्विषतां मधुसूदन |
६६ क
युधिष्ठिर उवाच:
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ||
६६ ख
युधिष्ठिर उवाच:
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः |
६७ क
युधिष्ठिर उवाच:
संशय़ाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ||
६७ ख
युधिष्ठिर उवाच:
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षय़म् |
६८ क
युधिष्ठिर उवाच:
अत्र या प्रणिपातेन शान्तिः सैव गरीय़सी ||
६८ ख
युधिष्ठिर उवाच:
सर्वथा यतमानानामय़ुद्धमभिकाङ्क्षताम् |
६९ क
युधिष्ठिर उवाच:
सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् ||
६९ ख
युधिष्ठिर उवाच:
प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते |
७० क
युधिष्ठिर उवाच:
तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ||
७० ख
युधिष्ठिर उवाच:
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् |
७१ क
युधिष्ठिर उवाच:
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ||
७१ ख
युधिष्ठिर उवाच:
तत्र यो वलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् |
७२ क
युधिष्ठिर उवाच:
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ||
७२ ख
युधिष्ठिर उवाच:
सर्वथा त्वेतदुचितं दुर्वलेषु वलीय़साम् |
७३ क
युधिष्ठिर उवाच:
अनादरो विरोधश्च प्रणिपाती हि दुर्वलः ||
७३ ख
युधिष्ठिर उवाच:
पिता राजा च वृद्धश्च सर्वथा मानमर्हति |
७४ क
युधिष्ठिर उवाच:
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ||
७४ ख
युधिष्ठिर उवाच:
पुत्रस्नेहस्तु वलवान्धृतराष्ट्रस्य माधव |
७५ क
युधिष्ठिर उवाच:
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ||
७५ ख
युधिष्ठिर उवाच:
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् |
७६ क
युधिष्ठिर उवाच:
कथमर्थाच्च धर्माच्च न हीय़ेमहि माधव ||
७६ ख
युधिष्ठिर उवाच:
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन |
७७ क
युधिष्ठिर उवाच:
उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम ||
७७ ख
युधिष्ठिर उवाच:
प्रिय़श्च प्रिय़कामश्च गतिज्ञः सर्वकर्मणाम् |
७८ क
युधिष्ठिर उवाच:
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चय़वित्सुहृत् ||
७८ ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः |
७९ क
वैशम्पाय़न उवाच:
उभय़ोरेव वामर्थे यास्यामि कुरुसंसदम् ||
७९ ख
वैशम्पाय़न उवाच:
शमं तत्र लभेय़ं चेद्युष्मदर्थमहापय़न् |
८० क
वैशम्पाय़न उवाच:
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ||
८० ख
वैशम्पाय़न उवाच:
मोचय़ेय़ं मृत्युपाशात्संरव्धान्कुरुसृञ्जय़ान् |
८१ क
वैशम्पाय़न उवाच:
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ||
८१ ख
युधिष्ठिर उवाच:
न ममैतन्मतं कृष्ण यत्त्वं याय़ाः कुरून्प्रति |
८२ क
युधिष्ठिर उवाच:
सुय़ोधनः सूक्तमपि न करिष्यति ते वचः ||
८२ ख
युधिष्ठिर उवाच:
समेतं पार्थिवं क्षत्रं सुय़ोधनवशानुगम् |
८३ क
युधिष्ठिर उवाच:
तेषां मध्यावतरणं तव कृष्ण न रोचय़े ||
८३ ख
युधिष्ठिर उवाच:
न हि नः प्रीणय़ेद्द्रव्यं न देवत्वं कुतः सुखम् |
८४ क
युधिष्ठिर उवाच:
न च सर्वामरैश्वर्यं तव रोधेन माधव ||
८४ ख
भगवानु उवाच:
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् |
८५ क
भगवानु उवाच:
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ||
८५ ख
भगवानु उवाच:
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |
८६ क
भगवानु उवाच:
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||
८६ ख
भगवानु उवाच:
अथ चेत्ते प्रवर्तेरन्मय़ि किञ्चिदसाम्प्रतम् |
८७ क
भगवानु उवाच:
निर्दहेय़ं कुरून्सर्वानिति मे धीय़ते मतिः ||
८७ ख
भगवानु उवाच:
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् |
८८ क
भगवानु उवाच:
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ||
८८ ख
युधिष्ठिर उवाच:
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् |
८९ क
युधिष्ठिर उवाच:
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ||
८९ ख
युधिष्ठिर उवाच:
विष्वक्सेन कुरून्गत्वा भारताञ्शमय़ेः प्रभो |
९० क
युधिष्ठिर उवाच:
यथा सर्वे सुमनसः सह स्यामः सुचेतसः ||
९० ख
युधिष्ठिर उवाच:
भ्राता चासि सखा चासि वीभत्सोर्मम च प्रिय़ः |
९१ क
युधिष्ठिर उवाच:
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतय़े ||
९१ ख
युधिष्ठिर उवाच:
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् |
९२ क
युधिष्ठिर उवाच:
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुय़ोधनः ||
९२ ख
युधिष्ठिर उवाच:
यद्यद्धर्मेण संय़ुक्तमुपपद्येद्धितं वचः |
९३ क
युधिष्ठिर उवाच:
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ||
९३ ख