वैशम्पाय़न उवाच:
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च |
१ क
वैशम्पाय़न उवाच:
भरतस्य कुरोः पूरोरजमीढस्य चान्वय़े ||
१ ख
वैशम्पाय़न उवाच:
यादवानामिमं वंशं पौरवाणां च सर्वशः |
२ क
वैशम्पाय़न उवाच:
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् |
२ ख
वैशम्पाय़न उवाच:
धन्यं यशस्यमाय़ुष्यं कीर्तय़िष्यामि तेऽनघ ||
२ ग
वैशम्पाय़न उवाच:
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः |
३ क
वैशम्पाय़न उवाच:
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः |
३ ख
वैशम्पाय़न उवाच:
मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ||
३ ग
वैशम्पाय़न उवाच:
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः |
४ क
वैशम्पाय़न उवाच:
सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ||
४ ख
वैशम्पाय़न उवाच:
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः |
५ क
वैशम्पाय़न उवाच:
आत्मतुल्यानजनय़त्सहस्रं संशितव्रतान् ||
५ ख
वैशम्पाय़न उवाच:
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः |
६ क
वैशम्पाय़न उवाच:
मोक्षमध्यापय़ामास साङ्ख्यज्ञानमनुत्तमम् ||
६ ख
वैशम्पाय़न उवाच:
ततः पञ्चाशतं कन्याः पुत्रिका अभिसन्दधे |
७ क
वैशम्पाय़न उवाच:
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय़ ||
७ ख
वैशम्पाय़न उवाच:
ददौ स दश धर्माय़ कश्यपाय़ त्रय़ोदश |
८ क
वैशम्पाय़न उवाच:
कालस्य नय़ने युक्ताः सप्तविंशतिमिन्दवे ||
८ ख
वैशम्पाय़न उवाच:
त्रय़ोदशानां पत्नीनां या तु दाक्षाय़णी वरा |
९ क
वैशम्पाय़न उवाच:
मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् |
९ ख
वैशम्पाय़न उवाच:
इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ||
९ ग
वैशम्पाय़न उवाच:
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः |
१० क
वैशम्पाय़न उवाच:
मार्तण्डश्च यमस्यापि पुत्रो राजन्नजाय़त ||
१० ख
वैशम्पाय़न उवाच:
मार्तण्डस्य मनुर्धीमानजाय़त सुतः प्रभुः |
११ क
वैशम्पाय़न उवाच:
मनोर्वंशो मानवानां ततोऽय़ं प्रथितोऽभवत् |
११ ख
वैशम्पाय़न उवाच:
व्रह्मक्षत्रादय़स्तस्मान्मनोर्जातास्तु मानवाः ||
११ ग
वैशम्पाय़न उवाच:
तत्राभवत्तदा राजन्व्रह्म क्षत्रेण सङ्गतम् |
१२ क
वैशम्पाय़न उवाच:
व्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ||
१२ ख
वैशम्पाय़न उवाच:
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च |
१३ क
वैशम्पाय़न उवाच:
करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ||
१३ ख
वैशम्पाय़न उवाच:
पृषध्रनवमानाहुः क्षत्रधर्मपराय़णान् |
१४ क
वैशम्पाय़न उवाच:
नाभागारिष्टदशमान्मनोः पुत्रान्महावलान् ||
१४ ख
वैशम्पाय़न उवाच:
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ |
१५ क
वैशम्पाय़न उवाच:
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ||
१५ ख
वैशम्पाय़न उवाच:
पुरूरवास्ततो विद्वानिलाय़ां समपद्यत |
१६ क
वैशम्पाय़न उवाच:
सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ||
१६ ख
वैशम्पाय़न उवाच:
त्रय़ोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः |
१७ क
वैशम्पाय़न उवाच:
अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महाय़शाः ||
१७ ख
वैशम्पाय़न उवाच:
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः |
१८ क
वैशम्पाय़न उवाच:
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ||
१८ ख
वैशम्पाय़न उवाच:
सनत्कुमारस्तं राजन्व्रह्मलोकादुपेत्य ह |
१९ क
वैशम्पाय़न उवाच:
अनुदर्शय़ां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ||
१९ ख
वैशम्पाय़न उवाच:
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत |
२० क
वैशम्पाय़न उवाच:
लोभान्वितो मदवलान्नष्टसञ्ज्ञो नराधिपः ||
२० ख
वैशम्पाय़न उवाच:
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् |
२१ क
वैशम्पाय़न उवाच:
आनिनाय़ क्रिय़ार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ||
२१ ख
वैशम्पाय़न उवाच:
षट्पुत्रा जज्ञिरेऽथैलादाय़ुर्धीमानमावसुः |
२२ क
वैशम्पाय़न उवाच:
दृढाय़ुश्च वनाय़ुश्च श्रुताय़ुश्चोर्वशीसुताः ||
२२ ख
वैशम्पाय़न उवाच:
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् |
२३ क
वैशम्पाय़न उवाच:
स्वर्भानवीसुतानेतानाय़ोः पुत्रान्प्रचक्षते ||
२३ ख
वैशम्पाय़न उवाच:
आय़ुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः |
२४ क
वैशम्पाय़न उवाच:
राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ||
२४ ख
वैशम्पाय़न उवाच:
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् |
२५ क
वैशम्पाय़न उवाच:
नहुषः पालय़ामास व्रह्मक्षत्रमथो विशः ||
२५ ख
वैशम्पाय़न उवाच:
स हत्वा दस्युसङ्घातानृषीन्करमदापय़त् |
२६ क
वैशम्पाय़न उवाच:
पशुवच्चैव तान्पृष्ठे वाहय़ामास वीर्यवान् ||
२६ ख
वैशम्पाय़न उवाच:
कारय़ामास चेन्द्रत्वमभिभूय़ दिवौकसः |
२७ क
वैशम्पाय़न उवाच:
तेजसा तपसा चैव विक्रमेणौजसा तथा ||
२७ ख
वैशम्पाय़न उवाच:
यतिं यय़ातिं संय़ातिमाय़ातिं पाञ्चमुद्धवम् |
२८ क
वैशम्पाय़न उवाच:
नहुषो जनय़ामास षट्पुत्रान्प्रिय़वाससि ||
२८ ख
वैशम्पाय़न उवाच:
यय़ातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः |
२९ क
वैशम्पाय़न उवाच:
स पालय़ामास महीमीजे च विविधैः सवैः ||
२९ ख
वैशम्पाय़न उवाच:
अतिशक्त्या पितृनर्चन्देवांश्च प्रय़तः सदा |
३० क
वैशम्पाय़न उवाच:
अन्वगृह्णात्प्रजाः सर्वा यय़ातिरपराजितः ||
३० ख
वैशम्पाय़न उवाच:
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः |
३१ क
वैशम्पाय़न उवाच:
देवय़ान्यां महाराज शर्मिष्ठाय़ां च जज्ञिरे ||
३१ ख
वैशम्पाय़न उवाच:
देवय़ान्यामजाय़ेतां यदुस्तुर्वसुरेव च |
३२ क
वैशम्पाय़न उवाच:
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठाय़ां प्रजज्ञिरे ||
३२ ख
वैशम्पाय़न उवाच:
स शाश्वतीः समा राजन्प्रजा धर्मेण पालय़न् |
३३ क
वैशम्पाय़न उवाच:
जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ||
३३ ख
वैशम्पाय़न उवाच:
जराभिभूतः पुत्रान्स राजा वचनमव्रवीत् |
३४ क
वैशम्पाय़न उवाच:
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ||
३४ ख
वैशम्पाय़न उवाच:
यौवनेन चरन्कामान्युवा युवतिभिः सह |
३५ क
वैशम्पाय़न उवाच:
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ||
३५ ख
वैशम्पाय़न उवाच:
तं पुत्रो देवय़ानेय़ः पूर्वजो यदुरव्रवीत् |
३६ क
वैशम्पाय़न उवाच:
किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ||
३६ ख
वैशम्पाय़न उवाच:
यय़ातिरव्रवीत्तं वै जरा मे प्रतिगृह्यताम् |
३७ क
वैशम्पाय़न उवाच:
यौवनेन त्वदीय़ेन चरेय़ं विषय़ानहम् ||
३७ ख
वैशम्पाय़न उवाच:
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः |
३८ क
वैशम्पाय़न उवाच:
कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ||
३८ ख
वैशम्पाय़न उवाच:
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः |
३९ क
वैशम्पाय़न उवाच:
अहं तन्वाभिनवय़ा युवा कामानवाप्नुय़ाम् ||
३९ ख
वैशम्पाय़न उवाच:
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतय़ो जराम् |
४० क
वैशम्पाय़न उवाच:
तमव्रवीत्ततः पूरुः कनीय़ान्सत्यविक्रमः ||
४० ख
वैशम्पाय़न उवाच:
राजंश्चराभिनवय़ा तन्वा यौवनगोचरः |
४१ क
वैशम्पाय़न उवाच:
अहं जरां समास्थाय़ राज्ये स्थास्यामि तेऽऽज्ञय़ा ||
४१ ख
वैशम्पाय़न उवाच:
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रय़ात् |
४२ क
वैशम्पाय़न उवाच:
सञ्चारय़ामास जरां तदा पुत्रे महात्मनि ||
४२ ख
वैशम्पाय़न उवाच:
पौरवेणाथ वय़सा राजा यौवनमास्थितः |
४३ क
वैशम्पाय़न उवाच:
याय़ातेनापि वय़सा राज्यं पूरुरकारय़त् ||
४३ ख
वैशम्पाय़न उवाच:
ततो वर्षसहस्रान्ते यय़ातिरपराजितः |
४४ क
वैशम्पाय़न उवाच:
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ||
४४ ख
वैशम्पाय़न उवाच:
त्वय़ा दाय़ादवानस्मि त्वं मे वंशकरः सुतः |
४५ क
वैशम्पाय़न उवाच:
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ||
४५ ख
वैशम्पाय़न उवाच:
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च |
४६ क
वैशम्पाय़न उवाच:
कालेन महता पश्चात्कालधर्ममुपेय़िवान् ||
४६ ख