chevron_left अनुशासन पर्व अध्याय ७०
युधिष्ठिर उवाच:
दत्तानां फलसम्प्राप्तिं गवां प्रव्रूहि मेऽनघ |
१ क
युधिष्ठिर उवाच:
विस्तरेण महावाहो न हि तृप्यामि कथ्यताम् ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभय़ोः ||
२ ख
भीष्म उवाच:
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् |
३ क
भीष्म उवाच:
त्वं मामुपचरस्वेति नाचिकेतमभाषत |
३ ख
भीष्म उवाच:
समाप्ते निय़मे तस्मिन्महर्षिः पुत्रमव्रवीत् ||
३ ग
भीष्म उवाच:
उपस्पर्शनसक्तस्य स्वाध्याय़निरतस्य च |
४ क
भीष्म उवाच:
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् |
४ ख
भीष्म उवाच:
विस्मृतं मे तदादाय़ नदीतीरादिहाव्रज ||
४ ग
भीष्म उवाच:
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् |
५ क
भीष्म उवाच:
न पश्यामि तदित्येवं पितरं सोऽव्रवीन्मुनिः ||
५ ख
भीष्म उवाच:
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा |
६ क
भीष्म उवाच:
यमं पश्येति तं पुत्रमशपत्स महातपाः ||
६ ख
भीष्म उवाच:
तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः |
७ क
भीष्म उवाच:
प्रसीदेति व्रुवन्नेव गतसत्त्वोऽपतद्भुवि ||
७ ख
भीष्म उवाच:
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः |
८ क
भीष्म उवाच:
किं मय़ा कृतमित्युक्त्वा निपपात महीतले ||
८ ख
भीष्म उवाच:
तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः |
९ क
भीष्म उवाच:
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ||
९ ख
भीष्म उवाच:
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह |
१० क
भीष्म उवाच:
प्रास्पन्दच्छय़ने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ||
१० ख
भीष्म उवाच:
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः |
११ क
भीष्म उवाच:
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ||
११ ख
भीष्म उवाच:
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा |
१२ क
भीष्म उवाच:
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ||
१२ ख
भीष्म उवाच:
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना |
१३ क
भीष्म उवाच:
अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदय़त् ||
१३ ख
भीष्म उवाच:
कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् |
१४ क
भीष्म उवाच:
वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् ||
१४ ख
भीष्म उवाच:
दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश |
१५ क
भीष्म उवाच:
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजय़ामास मां सः ||
१५ ख
भीष्म उवाच:
ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् |
१६ क
भीष्म उवाच:
प्राप्तोऽस्मि ते विषय़ं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व ||
१६ ख
भीष्म उवाच:
यमोऽव्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी |
१७ क
भीष्म उवाच:
पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् ||
१७ ख
भीष्म उवाच:
दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता |
१८ क
भीष्म उवाच:
ददामि किं चापि मनःप्रणीतं; प्रिय़ातिथे तव कामान्वृणीष्व ||
१८ ख
भीष्म उवाच:
तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषय़ं दुर्निवर्त्यम् |
१९ क
भीष्म उवाच:
इच्छाम्यहं पुण्यकृतां समृद्धाँ; ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ||
१९ ख
भीष्म उवाच:
यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् |
२० क
भीष्म उवाच:
सन्दर्शय़ामास तदा स्म लोका; न्सर्वांस्तदा पुण्यकृतां द्विजेन्द्र ||
२० ख
भीष्म उवाच:
अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् |
२१ क
भीष्म उवाच:
नानासंस्थानरूपाणि सर्वरत्नमय़ानि च ||
२१ ख
भीष्म उवाच:
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च |
२२ क
भीष्म उवाच:
अनेकशतभौमानि सान्तर्जलवनानि च ||
२२ ख
भीष्म उवाच:
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममय़ानि च |
२३ क
भीष्म उवाच:
तरुणादित्यवर्णानि स्थावराणि चराणि च ||
२३ ख
भीष्म उवाच:
भक्ष्यभोज्यमय़ाञ्शैलान्वासांसि शय़नानि च |
२४ क
भीष्म उवाच:
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ||
२४ ख
भीष्म उवाच:
नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः |
२५ क
भीष्म उवाच:
घोषवन्ति च यानानि युक्तान्येव सहस्रशः ||
२५ ख
भीष्म उवाच:
क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोय़म् |
२६ क
भीष्म उवाच:
वैवस्वतस्यानुमतांश्च देशा; नदृष्टपूर्वान्सुवहूनपश्यम् ||
२६ ख
भीष्म उवाच:
सर्वं दृष्ट्वा तदहं धर्मराज; मवोचं वै प्रभविष्णुं पुराणम् |
२७ क
भीष्म उवाच:
क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ||
२७ ख
भीष्म उवाच:
यमोऽव्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् |
२८ क
भीष्म उवाच:
अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् ||
२८ ख
भीष्म उवाच:
न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च |
२९ क
भीष्म उवाच:
ज्ञात्वा देय़ा विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ||
२९ ख
भीष्म उवाच:
स्वाध्याय़ाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो व्राह्मणः पात्रमासाम् |
३० क
भीष्म उवाच:
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ||
३० ख
भीष्म उवाच:
तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेय़ाः |
३१ क
भीष्म उवाच:
वत्सैः प्रीताः सुप्रजाः सोपचारा; स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ||
३१ ख
भीष्म उवाच:
दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलाय़िनीं च |
३२ क
भीष्म उवाच:
यावन्ति लोमानि भवन्ति तस्या; स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ||
३२ ख
भीष्म उवाच:
तथानड्वाहं व्राह्मणाय़ प्रदाय़; दान्तं धुर्यं वलवन्तं युवानम् |
३३ क
भीष्म उवाच:
कुलानुजीवं वीर्यवन्तं वृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य ||
३३ ख
भीष्म उवाच:
गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः |
३४ क
भीष्म उवाच:
वृत्तिग्लाने सम्भ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् ||
३४ ख
भीष्म उवाच:
गुर्वर्थे वा वालपुष्ट्याभिषङ्गा; द्गावो दातुं देशकालोऽविशिष्टः |
३५ क
भीष्म उवाच:
अन्तर्जाताः सुक्रय़ज्ञानलव्धाः; प्राणक्रीता निर्जिताश्चौदकाश्च ||
३५ ख
नाचिकेत उवाच:
श्रुत्वा वैवस्वतवचस्तमहं पुनरव्रुवम् |
३६ क
नाचिकेत उवाच:
अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ||
३६ ख
नाचिकेत उवाच:
ततो यमोऽव्रवीद्धीमान्गोप्रदाने परां गतिम् |
३७ क
नाचिकेत उवाच:
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ||
३७ ख
नाचिकेत उवाच:
अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः |
३८ क
नाचिकेत उवाच:
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ||
३८ ख
नाचिकेत उवाच:
घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः |
३९ क
नाचिकेत उवाच:
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ||
३९ ख
नाचिकेत उवाच:
तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः |
४० क
नाचिकेत उवाच:
स कामप्रवहां शीतां नदीमेतामुपाश्नुते ||
४० ख
नाचिकेत उवाच:
एवमादीनि मे तत्र धर्मराजो न्यदर्शय़त् |
४१ क
नाचिकेत उवाच:
दृष्ट्वा च परमं हर्षमवापमहमच्युत ||
४१ ख
नाचिकेत उवाच:
निवेदय़े चापि प्रिय़ं भवत्सु; क्रतुर्महानल्पधनप्रचारः |
४२ क
नाचिकेत उवाच:
प्राप्तो मय़ा तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः ||
४२ ख
नाचिकेत उवाच:
शापो ह्ययं भवतोऽनुग्रहाय़; प्राप्तो मय़ा यत्र दृष्टो यमो मे |
४३ क
नाचिकेत उवाच:
दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसन्दिग्धं दानधर्मांश्चरिष्ये ||
४३ ख
नाचिकेत उवाच:
इदं च मामव्रवीद्धर्मराजः; पुनः पुनः सम्प्रहृष्टो द्विजर्षे |
४४ क
नाचिकेत उवाच:
दानेन तात प्रय़तोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः ||
४४ ख
नाचिकेत उवाच:
शुद्धो ह्यर्थो नावमन्यः स्वधर्मा; त्पात्रे देय़ं देशकालोपपन्ने |
४५ क
नाचिकेत उवाच:
तस्माद्गावस्ते नित्यमेव प्रदेय़ा; मा भूच्च ते संशय़ः कश्चिदत्र ||
४५ ख
नाचिकेत उवाच:
एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः |
४६ क
नाचिकेत उवाच:
तपांस्युग्राण्यप्रतिशङ्कमाना; स्ते वै दानं प्रददुश्चापि शक्त्या ||
४६ ख
नाचिकेत उवाच:
काले शक्त्या मत्सरं वर्जय़ित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः |
४७ क
नाचिकेत उवाच:
दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके ||
४७ ख
नाचिकेत उवाच:
एतद्दानं न्याय़लव्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीय़ं परीक्ष्य |
४८ क
नाचिकेत उवाच:
काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा ||
४८ ख
नाचिकेत उवाच:
वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोय़ुगस्य प्रदाने |
४९ क
नाचिकेत उवाच:
तीर्थावाप्तिर्गोप्रय़ुक्तप्रदाने; पापोत्सर्गः कपिलाय़ाः प्रदाने ||
४९ ख