वैशम्पाय़न उवाच:
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः |
१ क
वैशम्पाय़न उवाच:
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षय़ा ||
१ ख
वैशम्पाय़न उवाच:
ते समेत्य यथान्याय़ं पाण्डवा वृष्णिभिः सह |
२ क
वैशम्पाय़न उवाच:
विविशुः सहिता राजन्पुरं वारणसाह्वय़म् ||
२ ख
वैशम्पाय़न उवाच:
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च |
३ क
वैशम्पाय़न उवाच:
द्यावापृथिव्यौ खं चैव शव्देनासीत्समावृतम् ||
३ ख
वैशम्पाय़न उवाच:
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा |
४ क
वैशम्पाय़न उवाच:
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ||
४ ख
वैशम्पाय़न उवाच:
ते समेत्य यथान्याय़ं धृतराष्ट्रं जनाधिपम् |
५ क
वैशम्पाय़न उवाच:
कीर्तय़न्तः स्वनामानि तस्य पादौ ववन्दिरे ||
५ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रादनु च ते गान्धारीं सुवलात्मजाम् |
६ क
वैशम्पाय़न उवाच:
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ||
६ ख
वैशम्पाय़न उवाच:
विदुरं पूजय़ित्वा च वैश्यापुत्रं समेत्य च |
७ क
वैशम्पाय़न उवाच:
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ||
७ ख
वैशम्पाय़न उवाच:
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् |
८ क
वैशम्पाय़न उवाच:
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ||
८ ख
वैशम्पाय़न उवाच:
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः |
९ क
वैशम्पाय़न उवाच:
पूजार्हं पूजय़ामासुः कृष्णं देवकिनन्दनम् ||
९ ख
वैशम्पाय़न उवाच:
ततः कतिपय़ाहस्य व्यासः सत्यवतीसुतः |
१० क
वैशम्पाय़न उवाच:
आजगाम महातेजा नगरं नागसाह्वय़म् ||
१० ख
वैशम्पाय़न उवाच:
तस्य सर्वे यथान्याय़ं पूजां चक्रुः कुरूद्वहाः |
११ क
वैशम्पाय़न उवाच:
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ||
११ ख
वैशम्पाय़न उवाच:
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै |
१२ क
वैशम्पाय़न उवाच:
युधिष्ठिरो धर्मसुतो व्यासं वचनमव्रवीत् ||
१२ ख
वैशम्पाय़न उवाच:
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् |
१३ क
वैशम्पाय़न उवाच:
उपय़ोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ||
१३ ख
वैशम्पाय़न उवाच:
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम |
१४ क
वैशम्पाय़न उवाच:
त्वदधीना वय़ं सर्वे कृष्णस्य च महात्मनः ||
१४ ख
व्यास उवाच:
अनुजानामि राजंस्त्वां क्रिय़तां यदनन्तरम् |
१५ क
व्यास उवाच:
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ||
१५ ख
व्यास उवाच:
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् |
१६ क
व्यास उवाच:
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशय़ः ||
१६ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः |
१७ क
वैशम्पाय़न उवाच:
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ||
१७ ख
वैशम्पाय़न उवाच:
समनुज्ञाप्य तु स तं कृष्णद्वैपाय़नं नृपः |
१८ क
वैशम्पाय़न उवाच:
वासुदेवमथामन्त्र्य वाग्मी वचनमव्रवीत् ||
१८ ख
वैशम्पाय़न उवाच:
देवकी सुप्रजा देवी त्वय़ा पुरुषसत्तम |
१९ क
वैशम्पाय़न उवाच:
यद्व्रूय़ां त्वां महावाहो तत्कृथास्त्वमिहाच्युत ||
१९ ख
वैशम्पाय़न उवाच:
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन |
२० क
वैशम्पाय़न उवाच:
पराक्रमेण वुद्ध्या च त्वय़ेय़ं निर्जिता मही ||
२० ख
वैशम्पाय़न उवाच:
दीक्षय़स्व त्वमात्मानं त्वं नः परमको गुरुः |
२१ क
वैशम्पाय़न उवाच:
त्वय़ीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो |
२१ ख
वैशम्पाय़न उवाच:
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ||
२१ ग
वासुदेव उवाच:
त्वमेवैतन्महावाहो वक्तुमर्हस्यरिन्दम |
२२ क
वासुदेव उवाच:
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ||
२२ ख
वासुदेव उवाच:
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे |
२३ क
वासुदेव उवाच:
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ||
२३ ख
वासुदेव उवाच:
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मय़ा |
२४ क
वासुदेव उवाच:
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत |
२४ ख
वासुदेव उवाच:
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ||
२४ ग
वासुदेव उवाच:
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ |
२५ क
वासुदेव उवाच:
इष्टवन्तो भविष्यन्ति त्वय़ीष्टवति भारत ||
२५ ख