वैशम्पाय़न उवाच:
भीष्मे तु सङ्ग्रामशिरो विहाय़; पलाय़माने धृतराष्ट्रपुत्रः |
१ क
वैशम्पाय़न उवाच:
उच्छ्रित्य केतुं विनदन्महात्मा; स्वय़ं विगृह्यार्जुनमाससाद ||
१ ख
वैशम्पाय़न उवाच:
स भीमधन्वानमुदग्रवीर्यं; धनञ्जय़ं शत्रुगणे चरन्तम् |
२ क
वैशम्पाय़न उवाच:
आकर्णपूर्णाय़तचोदितेन; भल्लेन विव्याध ललाटमध्ये ||
२ ख
वैशम्पाय़न उवाच:
स तेन वाणेन समर्पितेन; जाम्वूनदाभेन सुसंशितेन |
३ क
वैशम्पाय़न उवाच:
रराज राजन्महनीय़कर्मा; यथैकपर्वा रुचिरैकशृङ्गः ||
३ ख
वैशम्पाय़न उवाच:
अथास्य वाणेन विदारितस्य; प्रादुर्वभूवासृगजस्रमुष्णम् |
४ क
वैशम्पाय़न उवाच:
सा तस्य जाम्वूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म ||
४ ख
वैशम्पाय़न उवाच:
स तेन वाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः |
५ क
वैशम्पाय़न उवाच:
शरानुपादाय़ विषाग्निकल्पा; न्विव्याध राजानमदीनसत्त्वः ||
५ ख
वैशम्पाय़न उवाच:
दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः |
६ क
वैशम्पाय़न उवाच:
अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ ||
६ ख
वैशम्पाय़न उवाच:
ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः |
७ क
वैशम्पाय़न उवाच:
रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत् ||
७ ख
वैशम्पाय़न उवाच:
तमापतन्तं त्वरितं गजेन्द्रं; धनञ्जय़ः कुम्भविभागमध्ये |
८ क
वैशम्पाय़न उवाच:
आकर्णपूर्णेन दृढाय़सेन; वाणेन विव्याध महाजवेन ||
८ ख
वैशम्पाय़न उवाच:
पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम् |
९ क
वैशम्पाय़न उवाच:
विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः ||
९ ख
वैशम्पाय़न उवाच:
शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा |
१० क
वैशम्पाय़न उवाच:
संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य ||
१० ख
वैशम्पाय़न उवाच:
निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य |
११ क
वैशम्पाय़न उवाच:
तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह ||
११ ख
वैशम्पाय़न उवाच:
निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्वुदाभम् |
१२ क
वैशम्पाय़न उवाच:
तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्विभेद ||
१२ ख
वैशम्पाय़न उवाच:
ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे |
१३ क
वैशम्पाय़न उवाच:
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना; स्ते योधमुख्याः सहसापजग्मुः ||
१३ ख
वैशम्पाय़न उवाच:
दृष्ट्वैव वाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य |
१४ क
वैशम्पाय़न उवाच:
रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः ||
१४ ख
वैशम्पाय़न उवाच:
तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी |
१५ क
वैशम्पाय़न उवाच:
प्राक्ष्वेडय़द्योद्धुमनाः किरीटी; वाणेन विद्धं रुधिरं वमन्तम् ||
१५ ख
अर्जुन उवाच:
विहाय़ कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलाय़से किम् |
१६ क
अर्जुन उवाच:
न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे ||
१६ ख
अर्जुन उवाच:
युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीय़ो युधि च स्थिरोऽस्मि |
१७ क
अर्जुन उवाच:
तदर्थमावृत्य मुखं प्रय़च्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ||
१७ ख
अर्जुन उवाच:
मोघं तवेदं भुवि नामधेय़ं; दुर्योधनेतीह कृतं पुरस्तात् |
१८ क
अर्जुन उवाच:
न हीह दुर्योधनता तवास्ति; पलाय़मानस्य रणं विहाय़ ||
१८ ख
अर्जुन उवाच:
न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम् |
१९ क
अर्जुन उवाच:
परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रिय़ान्पाण्डवतोऽद्य रक्ष ||
१९ ख