chevron_left भीष्म पर्व अध्याय ७०
सञ्जय़ उवाच:
अथ राजन्महावाहुः सात्यकिर्युद्धदुर्मदः |
१ क
सञ्जय़ उवाच:
विकृष्य चापं समरे भारसाधनमुत्तमम् ||
१ ख
सञ्जय़ उवाच:
प्रामुञ्चत्पुङ्खसंय़ुक्ताञ्शरानाशीविषोपमान् |
२ क
सञ्जय़ उवाच:
प्रकाशं लघु चित्रं च दर्शय़न्नस्त्रलाघवम् ||
२ ख
सञ्जय़ उवाच:
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः |
३ क
सञ्जय़ उवाच:
आददानस्य भूय़श्च सन्दधानस्य चापरान् ||
३ ख
सञ्जय़ उवाच:
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः |
४ क
सञ्जय़ उवाच:
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ||
४ ख
सञ्जय़ उवाच:
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः |
५ क
सञ्जय़ उवाच:
रथानामय़ुतं तस्य प्रेषय़ामास भारत ||
५ ख
सञ्जय़ उवाच:
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः |
६ क
सञ्जय़ उवाच:
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ||
६ ख
सञ्जय़ उवाच:
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः |
७ क
सञ्जय़ उवाच:
आससाद ततो वीरो भूरिश्रवसमाहवे ||
७ ख
सञ्जय़ उवाच:
स हि सन्दृश्य सेनां तां युय़ुधानेन पातिताम् |
८ क
सञ्जय़ उवाच:
अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ||
८ ख
सञ्जय़ उवाच:
इन्द्राय़ुधसवर्णं तत्स विस्फार्य महद्धनुः |
९ क
सञ्जय़ उवाच:
व्यसृजद्वज्रसङ्काशाञ्शरानाशीविषोपमान् |
९ ख
सञ्जय़ उवाच:
सहस्रशो महाराज दर्शय़न्पाणिलाघवम् ||
९ ग
सञ्जय़ उवाच:
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः |
१० क
सञ्जय़ उवाच:
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः |
१० ख
सञ्जय़ उवाच:
विहाय़ समरे राजन्सात्यकिं युद्धदुर्मदम् ||
१० ग
सञ्जय़ उवाच:
तं दृष्ट्वा युय़ुधानस्य सुता दश महावलाः |
११ क
सञ्जय़ उवाच:
महारथाः समाख्याताश्चित्रवर्माय़ुधध्वजाः ||
११ ख
सञ्जय़ उवाच:
समासाद्य महेष्वासं भूरिश्रवसमाहवे |
१२ क
सञ्जय़ उवाच:
ऊचुः सर्वे सुसंरव्धा यूपकेतुं महारणे ||
१२ ख
सञ्जय़ उवाच:
भो भो कौरवदाय़ाद सहास्माभिर्महावल |
१३ क
सञ्जय़ उवाच:
एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ||
१३ ख
सञ्जय़ उवाच:
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संय़ुगे |
१४ क
सञ्जय़ उवाच:
वय़ं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ||
१४ ख
सञ्जय़ उवाच:
एवमुक्तस्तदा शूरैस्तानुवाच महावलः |
१५ क
सञ्जय़ उवाच:
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ||
१५ ख
सञ्जय़ उवाच:
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः |
१६ क
सञ्जय़ उवाच:
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ||
१६ ख
सञ्जय़ उवाच:
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः |
१७ क
सञ्जय़ उवाच:
महता शरवर्षेण अभ्यवर्षन्नरिन्दमम् ||
१७ ख
सञ्जय़ उवाच:
अपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् |
१८ क
सञ्जय़ उवाच:
एकस्य च वहूनां च समेतानां रणाजिरे ||
१८ ख
सञ्जय़ उवाच:
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् |
१९ क
सञ्जय़ उवाच:
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ||
१९ ख
सञ्जय़ उवाच:
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् |
२० क
सञ्जय़ उवाच:
असम्प्राप्तानसम्प्राप्तांश्चिच्छेदाशु महारथः ||
२० ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् |
२१ क
सञ्जय़ उवाच:
यदेको वहुभिर्युद्धे समसज्जदभीतवत् ||
२१ ख
सञ्जय़ उवाच:
विसृज्य शरवृष्टिं तां दश राजन्महारथाः |
२२ क
सञ्जय़ उवाच:
परिवार्य महावाहुं निहन्तुमुपचक्रमुः ||
२२ ख
सञ्जय़ उवाच:
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत |
२३ क
सञ्जय़ उवाच:
चिच्छेद दशभिर्वाणैर्निमेषेण महारथः ||
२३ ख
सञ्जय़ उवाच:
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः |
२४ क
सञ्जय़ उवाच:
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः |
२४ ख
सञ्जय़ उवाच:
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ||
२४ ग
सञ्जय़ उवाच:
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महावलान् |
२५ क
सञ्जय़ उवाच:
वार्ष्णेय़ो विनदन्राजन्भूरिश्रवसमभ्ययात् ||
२५ ख
सञ्जय़ उवाच:
रथं रथेन समरे पीडय़ित्वा महावलौ |
२६ क
सञ्जय़ उवाच:
तावन्योन्यस्य समरे निहत्य रथवाजिनः |
२६ ख
सञ्जय़ उवाच:
विरथावभिवल्गन्तौ समेय़ातां महारथौ ||
२६ ग
सञ्जय़ उवाच:
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ |
२७ क
सञ्जय़ उवाच:
शुशुभाते नरव्याघ्रौ युद्धाय़ समवस्थितौ ||
२७ ख
सञ्जय़ उवाच:
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् |
२८ क
सञ्जय़ उवाच:
भीमसेनस्त्वरन्राजन्रथमारोपय़त्तदा ||
२८ ख
सञ्जय़ उवाच:
तवापि तनय़ो राजन्भूरिश्रवसमाहवे |
२९ क
सञ्जय़ उवाच:
आरोपय़द्रथं तूर्णं पश्यतां सर्वधन्विनाम् ||
२९ ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् |
३० क
सञ्जय़ उवाच:
अय़ोधय़न्त संरव्धाः पाण्डवा भरतर्षभ ||
३० ख
सञ्जय़ उवाच:
लोहिताय़ति चादित्ये त्वरमाणो धनञ्जय़ः |
३१ क
सञ्जय़ उवाच:
पञ्चविंशतिसाहस्रान्निजघान महारथान् ||
३१ ख
सञ्जय़ उवाच:
ते हि दुर्योधनादिष्टास्तदा पार्थनिवर्हणे |
३२ क
सञ्जय़ उवाच:
सम्प्राप्यैव गता नाशं शलभा इव पावकम् ||
३२ ख
सञ्जय़ उवाच:
ततो मत्स्याः केकय़ाश्च धनुर्वेदविशारदाः |
३३ क
सञ्जय़ उवाच:
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ||
३३ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति |
३४ क
सञ्जय़ उवाच:
सर्वेषामेव सैन्यानां प्रमोहः समजाय़त ||
३४ ख
सञ्जय़ उवाच:
अवहारं ततश्चक्रे पिता देवव्रतस्तव |
३५ क
सञ्जय़ उवाच:
सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ||
३५ ख
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च परस्परसमागमे |
३६ क
सञ्जय़ उवाच:
ते सेने भृशसंविग्ने यय़तुः स्वं निवेशनम् ||
३६ ख
सञ्जय़ उवाच:
ततः स्वशिविरं गत्वा न्यविशंस्तत्र भारत |
३७ क
सञ्जय़ उवाच:
पाण्डवाः सृञ्जय़ैः सार्धं कुरवश्च यथाविधि ||
३७ ख