chevron_left द्रोण पर्व अध्याय ७०
सञ्जय़ उवाच:
प्रविष्टय़ोर्महाराज पार्थवार्ष्णेय़योस्तदा |
१ क
सञ्जय़ उवाच:
दुर्योधने प्रय़ाते च पृष्ठतः पुरुषर्षभे ||
१ ख
सञ्जय़ उवाच:
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च |
२ क
सञ्जय़ उवाच:
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ||
२ ख
सञ्जय़ उवाच:
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् |
३ क
सञ्जय़ उवाच:
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ||
३ ख
सञ्जय़ उवाच:
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् |
४ क
सञ्जय़ उवाच:
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ||
४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः |
५ क
सञ्जय़ उवाच:
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ||
५ ख
सञ्जय़ उवाच:
वय़ं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् |
६ क
सञ्जय़ उवाच:
पार्षतप्रमुखान्पार्थानभ्यवर्षाम साय़कैः ||
६ ख
सञ्जय़ उवाच:
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये |
७ क
सञ्जय़ उवाच:
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ||
७ ख
सञ्जय़ उवाच:
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् |
८ क
सञ्जय़ उवाच:
जाह्नवीय़मुने नद्यौ प्रावृषीवोल्वणोदके ||
८ ख
सञ्जय़ उवाच:
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः |
९ क
सञ्जय़ उवाच:
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ||
९ ख
सञ्जय़ उवाच:
भारद्वाजानिलोद्धूतः शरधारासहस्रवान् |
१० क
सञ्जय़ उवाच:
अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ||
१० ख
सञ्जय़ उवाच:
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः |
११ क
सञ्जय़ उवाच:
व्यक्षोभय़दनीकानि पाण्डवानां द्विजोत्तमः ||
११ ख
सञ्जय़ उवाच:
तेऽपि सर्वप्रय़त्नेन द्रोणमेव समाद्रवन् |
१२ क
सञ्जय़ उवाच:
विभित्सन्तो महासेतुं वार्योघाः प्रवला इव ||
१२ ख
सञ्जय़ उवाच:
वारय़ामास तान्द्रोणो जलौघानचलो यथा |
१३ क
सञ्जय़ उवाच:
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकय़ान् ||
१३ ख
सञ्जय़ उवाच:
अथापरेऽपि राजानः परावृत्य समन्ततः |
१४ क
सञ्जय़ उवाच:
महावला रणे शूराः पाञ्चालानन्ववारय़न् ||
१४ ख
सञ्जय़ उवाच:
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह |
१५ क
सञ्जय़ उवाच:
सञ्जघानासकृद्द्रोणं विभित्सुररिवाहिनीम् ||
१५ ख
सञ्जय़ उवाच:
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते |
१६ क
सञ्जय़ उवाच:
तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ||
१६ ख
सञ्जय़ उवाच:
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः |
१७ क
सञ्जय़ उवाच:
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नवलाहकः ||
१७ ख
सञ्जय़ उवाच:
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् |
१८ क
सञ्जय़ उवाच:
निघ्नन्रथवराश्वौघांश्छादय़ामास वाहिनीम् ||
१८ ख
सञ्जय़ उवाच:
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् |
१९ क
सञ्जय़ उवाच:
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ||
१९ ख
सञ्जय़ उवाच:
तथा तु यतमानस्य द्रोणस्य युधि भारत |
२० क
सञ्जय़ उवाच:
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ||
२० ख
सञ्जय़ उवाच:
भोजमेके न्यवर्तन्त जलसन्धमथापरे |
२१ क
सञ्जय़ उवाच:
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ||
२१ ख
सञ्जय़ उवाच:
सैन्यान्यघटय़द्यानि द्रोणस्तु रथिनां वरः |
२२ क
सञ्जय़ उवाच:
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ||
२२ ख
सञ्जय़ उवाच:
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जय़ैः |
२३ क
सञ्जय़ उवाच:
अगोपाः पशवोऽरण्ये वहुभिः श्वापदैरिव ||
२३ ख
सञ्जय़ उवाच:
कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान् |
२४ क
सञ्जय़ उवाच:
सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ||
२४ ख
सञ्जय़ उवाच:
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः |
२५ क
सञ्जय़ उवाच:
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ||
२५ ख
सञ्जय़ उवाच:
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च |
२६ क
सञ्जय़ उवाच:
चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ||
२६ ख
सञ्जय़ उवाच:
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः |
२७ क
सञ्जय़ उवाच:
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ||
२७ ख
सञ्जय़ उवाच:
मृद्नतस्तान्यनीकानि निघ्नतश्चापि साय़कैः |
२८ क
सञ्जय़ उवाच:
वभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ||
२८ ख
सञ्जय़ उवाच:
रथं नागं हय़ं चापि पत्तिनश्च विशां पते |
२९ क
सञ्जय़ उवाच:
एकैकेनेषुणा सङ्ख्ये निर्विभेद महारथः ||
२९ ख
सञ्जय़ उवाच:
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत |
३० क
सञ्जय़ उवाच:
दधार यो रणे वाणान्द्रोणचापच्युताञ्शितान् ||
३० ख
सञ्जय़ उवाच:
तत्पच्यमानमर्केण द्रोणसाय़कतापितम् |
३१ क
सञ्जय़ उवाच:
वभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ||
३१ ख
सञ्जय़ उवाच:
तथैव पार्षतेनापि काल्यमानं वलं तव |
३२ क
सञ्जय़ उवाच:
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ||
३२ ख
सञ्जय़ उवाच:
वध्यमानेषु सैन्येषु द्रोणपार्षतसाय़कैः |
३३ क
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्परं शक्त्या प्राय़ुध्यन्त स्म सैनिकाः ||
३३ ख
सञ्जय़ उवाच:
तावकानां परेषां च युध्यतां भरतर्षभ |
३४ क
सञ्जय़ उवाच:
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संय़ुगं भय़ात् ||
३४ ख
सञ्जय़ उवाच:
भीमसेनं तु कौन्तेय़ं सोदर्याः पर्यवारय़न् |
३५ क
सञ्जय़ उवाच:
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ||
३५ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् |
३६ क
सञ्जय़ उवाच:
त्रय़ाणां तव पुत्राणां त्रय़ एवानुय़ाय़िनः ||
३६ ख
सञ्जय़ उवाच:
वाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः |
३७ क
सञ्जय़ उवाच:
सहसेनः सहामात्यो द्रौपदेय़ानवारय़त् ||
३७ ख
सञ्जय़ उवाच:
शैव्यो गोवासनो राजा योधैर्दशशतावरैः |
३८ क
सञ्जय़ उवाच:
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारय़त् ||
३८ ख
सञ्जय़ उवाच:
अजातशत्रुं कौन्तेय़ं ज्वलन्तमिव पावकम् |
३९ क
सञ्जय़ उवाच:
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ||
३९ ख
सञ्जय़ उवाच:
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः |
४० क
सञ्जय़ उवाच:
सात्यकिं प्रय़यौ क्रुद्धः शूरो रथवरं युधि ||
४० ख
सञ्जय़ उवाच:
स्वकेनाहमनीकेन संनद्धकवचावृतः |
४१ क
सञ्जय़ उवाच:
चतुःशतैर्महेष्वासैश्चेकितानमवारय़म् ||
४१ ख
सञ्जय़ उवाच:
शकुनिस्तु सहानीको माद्रीपुत्रमवारय़त् |
४२ क
सञ्जय़ उवाच:
गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ||
४२ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् |
४३ क
सञ्जय़ उवाच:
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ||
४३ ख
सञ्जय़ उवाच:
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् |
४४ क
सञ्जय़ उवाच:
वाह्लिकः प्रतिसंय़त्तः पराक्रान्तमवारय़त् ||
४४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः |
४५ क
सञ्जय़ उवाच:
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारय़त् ||
४५ ख
सञ्जय़ उवाच:
घटोत्कचं तथा शूरं राक्षसं क्रूरय़ोधिनम् |
४६ क
सञ्जय़ उवाच:
अलाय़ुधोऽद्रवत्तूर्णं क्रुद्धमाय़ान्तमाहवे ||
४६ ख
सञ्जय़ उवाच:
अलम्वुसं राक्षसेन्द्रं कुन्तिभोजो महारथः |
४७ क
सञ्जय़ उवाच:
सैन्येन महता युक्तः क्रुद्धरूपमवारय़त् ||
४७ ख
सञ्जय़ उवाच:
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत |
४८ क
सञ्जय़ उवाच:
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ||
४८ ख
सञ्जय़ उवाच:
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य वृहत्तमौ |
४९ क
सञ्जय़ उवाच:
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ||
४९ ख
सञ्जय़ उवाच:
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः |
५० क
सञ्जय़ उवाच:
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जय़ः ||
५० ख