chevron_left आदि पर्व अध्याय ७१
शुक्र उवाच:
व्राह्मणं वर्जय़ित्वैकं तस्माद्विद्यामवाप्नुहि ||
४७ ख
शुक्र उवाच:
पुत्रो भूत्वा भावय़ भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात |
४८ क
शुक्र उवाच:
समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ||
४८ ख
वैशम्पाय़न उवाच:
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः |
४९ क
वैशम्पाय़न उवाच:
कचोऽभिरूपो दक्षिणं व्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ||
४९ ख
वैशम्पाय़न उवाच:
दृष्ट्वा च तं पतितं व्रह्मराशि; मुत्थापय़ामास मृतं कचोऽपि |
५० क
वैशम्पाय़न उवाच:
विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ||
५० ख
वैशम्पाय़न उवाच:
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वय़ानाम् |
५१ क
वैशम्पाय़न उवाच:
ये नाद्रिय़न्ते गुरुमर्चनीय़ं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ||
५१ ख
वैशम्पाय़न उवाच:
सुरापानाद्वञ्चनां प्रापय़ित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् |
५२ क
वैशम्पाय़न उवाच:
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरय़ा मोहितेन ||
५२ ख
वैशम्पाय़न उवाच:
समन्युरुत्थाय़ महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः |
५३ क
वैशम्पाय़न उवाच:
काव्यः स्वय़ं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ||
५३ ख
वैशम्पाय़न उवाच:
यो व्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दवुद्धिः |
५४ क
वैशम्पाय़न उवाच:
अपेतधर्मो व्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ||
५४ ख
वैशम्पाय़न उवाच:
मय़ा चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके |
५५ क
वैशम्पाय़न उवाच:
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ||
५५ ख
वैशम्पाय़न उवाच:
इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेय़ः |
५६ क
वैशम्पाय़न उवाच:
तान्दानवान्दैवविमूढवुद्धी; निदं समाहूय़ वचोऽभ्युवाच ||
५६ ख
वैशम्पाय़न उवाच:
आचक्षे वो दानवा वालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे |
५७ क
वैशम्पाय़न उवाच:
सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो व्रह्मणा व्रह्मभूतः ||
५७ ख
वैशम्पाय़न उवाच:
गुरोरुष्य सकाशे तु दश वर्षशतानि सः |
५८ क
वैशम्पाय़न उवाच:
अनुज्ञातः कचो गन्तुमिय़ेष त्रिदशालय़म् ||
५८ ख