जनमेजय़ उवाच:
यय़ातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः |
१ क
जनमेजय़ उवाच:
कथं स शुक्रतनय़ां लेभे परमदुर्लभाम् ||
१ ख
जनमेजय़ उवाच:
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम |
२ क
जनमेजय़ उवाच:
आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ||
२ ख
वैशम्पाय़न उवाच:
यय़ातिरासीद्राजर्षिर्देवराजसमद्युतिः |
३ क
वैशम्पाय़न उवाच:
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ||
३ ख
वैशम्पाय़न उवाच:
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय़ |
४ क
वैशम्पाय़न उवाच:
देवय़ान्याश्च संय़ोगं यय़ातेर्नाहुषस्य च ||
४ ख
वैशम्पाय़न उवाच:
सुराणामसुराणां च समजाय़त वै मिथः |
५ क
वैशम्पाय़न उवाच:
ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ||
५ ख
वैशम्पाय़न उवाच:
जिगीषय़ा ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् |
६ क
वैशम्पाय़न उवाच:
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे |
६ ख
वैशम्पाय़न उवाच:
व्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ||
६ ग
वैशम्पाय़न उवाच:
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् |
७ क
वैशम्पाय़न उवाच:
तान्पुनर्जीवय़ामास काव्यो विद्यावलाश्रय़ात् |
७ ख
वैशम्पाय़न उवाच:
ततस्ते पुनरुत्थाय़ योधय़ां चक्रिरे सुरान् ||
७ ग
वैशम्पाय़न उवाच:
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि |
८ क
वैशम्पाय़न उवाच:
न तान्सञ्जीवय़ामास वृहस्पतिरुदारधीः ||
८ ख
वैशम्पाय़न उवाच:
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् |
९ क
वैशम्पाय़न उवाच:
सञ्जीवनीं ततो देवा विषादमगमन्परम् ||
९ ख
वैशम्पाय़न उवाच:
ते तु देवा भय़ोद्विग्नाः काव्यादुशनसस्तदा |
१० क
वैशम्पाय़न उवाच:
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं वृहस्पतेः ||
१० ख
वैशम्पाय़न उवाच:
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् |
११ क
वैशम्पाय़न उवाच:
यासौ विद्या निवसति व्राह्मणेऽमिततेजसि |
११ ख
वैशम्पाय़न उवाच:
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ||
११ ग
वैशम्पाय़न उवाच:
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वय़ा द्विजः |
१२ क
वैशम्पाय़न उवाच:
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ||
१२ ख
वैशम्पाय़न उवाच:
तमाराधय़ितुं शक्तो भवान्पूर्ववय़ाः कविम् |
१३ क
वैशम्पाय़न उवाच:
देवय़ानीं च दय़ितां सुतां तस्य महात्मनः ||
१३ ख
वैशम्पाय़न उवाच:
त्वमाराधय़ितुं शक्तो नान्यः कश्चन विद्यते |
१४ क
वैशम्पाय़न उवाच:
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च |
१४ ख
वैशम्पाय़न उवाच:
देवय़ान्यां हि तुष्टाय़ां विद्यां तां प्राप्स्यसि ध्रुवम् ||
१४ ग
वैशम्पाय़न उवाच:
तथेत्युक्त्वा ततः प्राय़ाद्वृहस्पतिसुतः कचः |
१५ क
वैशम्पाय़न उवाच:
तदाभिपूजितो देवैः समीपं वृषपर्वणः ||
१५ ख
वैशम्पाय़न उवाच:
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः |
१६ क
वैशम्पाय़न उवाच:
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ||
१६ ख
वैशम्पाय़न उवाच:
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्वृहस्पतेः |
१७ क
वैशम्पाय़न उवाच:
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ||
१७ ख
वैशम्पाय़न उवाच:
व्रह्मचर्यं चरिष्यामि त्वय़्यहं परमं गुरौ |
१८ क
वैशम्पाय़न उवाच:
अनुमन्यस्व मां व्रह्मन्सहस्रं परिवत्सरान् ||
१८ ख
शुक्र उवाच:
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः |
१९ क
शुक्र उवाच:
अर्चय़िष्येऽहमर्च्यं त्वामर्चितोऽस्तु वृहस्पतिः ||
१९ ख
वैशम्पाय़न उवाच:
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् |
२० क
वैशम्पाय़न उवाच:
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वय़म् ||
२० ख
वैशम्पाय़न उवाच:
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत |
२१ क
वैशम्पाय़न उवाच:
आराधय़न्नुपाध्याय़ं देवय़ानीं च भारत ||
२१ ख
वैशम्पाय़न उवाच:
नित्यमाराधय़िष्यंस्तां युवा यौवनगोऽऽमुखे |
२२ क
वैशम्पाय़न उवाच:
गाय़न्नृत्यन्वादय़ंश्च देवय़ानीमतोषय़त् ||
२२ ख
वैशम्पाय़न उवाच:
संशीलय़न्देवय़ानीं कन्यां सम्प्राप्तय़ौवनाम् |
२३ क
वैशम्पाय़न उवाच:
पुष्पैः फलैः प्रेषणैश्च तोषय़ामास भारत ||
२३ ख
वैशम्पाय़न उवाच:
देवय़ान्यपि तं विप्रं निय़मव्रतचारिणम् |
२४ क
वैशम्पाय़न उवाच:
अनुगाय़माना ललना रहः पर्यचरत्तदा ||
२४ ख
वैशम्पाय़न उवाच:
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् |
२५ क
वैशम्पाय़न उवाच:
तत्रातीय़ुरथो वुद्ध्वा दानवास्तं ततः कचम् ||
२५ ख
वैशम्पाय़न उवाच:
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः |
२६ क
वैशम्पाय़न उवाच:
जघ्नुर्वृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च |
२६ ख
वैशम्पाय़न उवाच:
हत्वा शालावृकेभ्यश्च प्राय़च्छंस्तिलशः कृतम् ||
२६ ग
वैशम्पाय़न उवाच:
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् |
२७ क
वैशम्पाय़न उवाच:
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् |
२७ ख
वैशम्पाय़न उवाच:
उवाच वचनं काले देवय़ान्यथ भारत ||
२७ ग
वैशम्पाय़न उवाच:
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो |
२८ क
वैशम्पाय़न उवाच:
अगोपाश्चागता गावः कचस्तात न दृश्यते ||
२८ ख
वैशम्पाय़न उवाच:
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति |
२९ क
वैशम्पाय़न उवाच:
तं विना न च जीवेय़ं कचं सत्यं व्रवीमि ते ||
२९ ख
शुक्र उवाच:
अय़मेहीति शव्देन मृतं सञ्जीवय़ाम्यहम् |
३० क
वैशम्पाय़न उवाच:
ततः सञ्जीवनीं विद्यां प्रय़ुज्य कचमाह्वय़त् |
३१ क
वैशम्पाय़न उवाच:
आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया |
३१ ख
वैशम्पाय़न उवाच:
हतोऽहमिति चाचख्यौ पृष्टो व्राह्मणकन्यया ||
३१ ग
वैशम्पाय़न उवाच:
स पुनर्देवय़ान्योक्तः पुष्पाहारो यदृच्छय़ा |
३२ क
वैशम्पाय़न उवाच:
वनं यय़ौ ततो विप्रो ददृशुर्दानवाश्च तम् ||
३२ ख
वैशम्पाय़न उवाच:
ततो द्वितीय़ं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः |
३३ क
वैशम्पाय़न उवाच:
प्राय़च्छन्व्राह्मणाय़ैव सुराय़ामसुरास्तदा ||
३३ ख
वैशम्पाय़न उवाच:
देवय़ान्यथ भूय़ोऽपि वाक्यं पितरमव्रवीत् |
३४ क
वैशम्पाय़न उवाच:
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ||
३४ ख
शुक्र उवाच:
वृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः |
३५ क
शुक्र उवाच:
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ||
३५ ख
शुक्र उवाच:
मैवं शुचो मा रुद देवय़ानि; न त्वादृशी मर्त्यमनुप्रशोचेत् |
३६ क
शुक्र उवाच:
सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ||
३६ ख
देवय़ान्यु उवाच:
यस्याङ्गिरा वृद्धतमः पितामहो; वृहस्पतिश्चापि पिता तपोधनः |
३७ क
देवय़ान्यु उवाच:
ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेय़महं न रुद्याम् ||
३७ ख
देवय़ान्यु उवाच:
स व्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः |
३८ क
देवय़ान्यु उवाच:
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रिय़ो हि मे तात कचोऽभिरूपः ||
३८ ख
शुक्र उवाच:
असंशय़ं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदय़न्ति |
३९ क
शुक्र उवाच:
अव्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि |
३९ ख
शुक्र उवाच:
अप्यस्य पापस्य भवेदिहान्तः; कं व्रह्महत्या न दहेदपीन्द्रम् ||
३९ ग
वैशम्पाय़न उवाच:
सञ्चोदितो देवय़ान्या महर्षिः पुनराह्वय़त् |
४० क
वैशम्पाय़न उवाच:
संरम्भेणैव काव्यो हि वृहस्पतिसुतं कचम् ||
४० ख
वैशम्पाय़न उवाच:
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार |
४१ क
वैशम्पाय़न उवाच:
तमव्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि व्रूहि विप्र ||
४१ ख
कच उवाच:
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् |
४२ क
कच उवाच:
न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ||
४२ ख
कच उवाच:
असुरैः सुराय़ां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णय़ित्वा च काव्य |
४३ क
कच उवाच:
व्राह्मीं माय़ामासुरी चैव माय़ा; त्वय़ि स्थिते कथमेवातिवर्तेत् ||
४३ ख
शुक्र उवाच:
किं ते प्रिय़ं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य |
४४ क
शुक्र उवाच:
नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवय़ानि ||
४४ ख
देवय़ान्यु उवाच:
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः |
४५ क
देवय़ान्यु उवाच:
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ||
४५ ख
शुक्र उवाच:
संसिद्धरूपोऽसि वृहस्पतेः सुत; यत्त्वां भक्तं भजते देवय़ानी |
४६ क
शुक्र उवाच:
विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ||
४६ ख
शुक्र उवाच:
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् |
४७ क