युधिष्ठिर उवाच:
उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति |
१ क
युधिष्ठिर उवाच:
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ||
१ ख
युधिष्ठिर उवाच:
नृगेण च यथा दुःखमनुभूतं महात्मना |
२ क
युधिष्ठिर उवाच:
एकापराधादज्ञानात्पितामह महामते ||
२ ख
युधिष्ठिर उवाच:
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः |
३ क
युधिष्ठिर उवाच:
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मय़ा ||
३ ख
युधिष्ठिर उवाच:
किं त्वस्ति मम सन्देहो गवां लोकं प्रति प्रभो |
४ क
युधिष्ठिर उवाच:
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ||
४ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
५ क
भीष्म उवाच:
यथापृच्छत्पद्मय़ोनिमेतदेव शतक्रतुः ||
५ ख
शक्र उवाच:
स्वर्लोकवासिनां लक्ष्मीमभिभूय़ स्वय़ा त्विषा |
६ क
शक्र उवाच:
गोलोकवासिनः पश्ये व्रजतः संशय़ोऽत्र मे ||
६ ख
शक्र उवाच:
कीदृशा भगवँल्लोका गवां तद्व्रूहि मेऽनघ |
७ क
शक्र उवाच:
यानावसन्ति दातार एतदिच्छामि वेदितुम् ||
७ ख
शक्र उवाच:
कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः |
८ क
शक्र उवाच:
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ||
८ ख
शक्र उवाच:
किय़त्कालं प्रदानस्य दाता च फलमश्नुते |
९ क
शक्र उवाच:
कथं वहुविधं दानं स्यादल्पमपि वा कथम् ||
९ ख
शक्र उवाच:
वह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् |
१० क
शक्र उवाच:
अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ||
१० ख
शक्र उवाच:
कथं च वहुदाता स्यादल्पदात्रा समः प्रभो |
११ क
शक्र उवाच:
अल्पप्रदाता वहुदः कथं च स्यादिहेश्वर ||
११ ख
शक्र उवाच:
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते |
१२ क
शक्र उवाच:
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ||
१२ ख