chevron_left आश्वमेधिक पर्व अध्याय ७१
वैशम्पाय़न उवाच:
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
व्यासमामन्त्र्य मेधावी ततो वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
यथा कालं भवान्वेत्ति हय़मेधस्य तत्त्वतः |
२ क
वैशम्पाय़न उवाच:
दीक्षय़स्व तदा मा त्वं त्वय़्याय़त्तो हि मे क्रतुः ||
२ ख
व्यास उवाच:
अहं पैलोऽथ कौन्तेय़ याज्ञवल्क्यस्तथैव च |
३ क
व्यास उवाच:
विधानं यद्यथाकालं तत्कर्तारो न संशय़ः ||
३ ख
व्यास उवाच:
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति |
४ क
व्यास उवाच:
सम्भाराः सम्भ्रिय़न्तां ते यज्ञार्थं पुरुषर्षभ ||
४ ख
व्यास उवाच:
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः |
५ क
व्यास उवाच:
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धय़े ||
५ ख
व्यास उवाच:
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्वराम् |
६ क
व्यास उवाच:
स पर्येतु यशो नाम्ना तव पार्थिव वर्धय़न् ||
६ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः |
७ क
वैशम्पाय़न उवाच:
चकार सर्वं राजेन्द्र यथोक्तं व्रह्मवादिना |
७ ख
वैशम्पाय़न उवाच:
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् ||
७ ग
वैशम्पाय़न उवाच:
स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा |
८ क
वैशम्पाय़न उवाच:
न्यवेदय़दमेय़ात्मा कृष्णद्वैपाय़नाय़ वै ||
८ ख
वैशम्पाय़न उवाच:
ततोऽव्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् |
९ क
वैशम्पाय़न उवाच:
यथाकालं यथाय़ोगं सज्जाः स्म तव दीक्षणे ||
९ ख
वैशम्पाय़न उवाच:
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव |
१० क
वैशम्पाय़न उवाच:
तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रिय़तामिति ||
१० ख
वैशम्पाय़न उवाच:
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् |
११ क
वैशम्पाय़न उवाच:
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर ||
११ ख
युधिष्ठिर उवाच:
अय़मश्वो मय़ा व्रह्मन्नुत्सृष्टः पृथिवीमिमाम् |
१२ क
युधिष्ठिर उवाच:
चरिष्यति यथाकामं तत्र वै संविधीय़ताम् ||
१२ ख
युधिष्ठिर उवाच:
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् |
१३ क
युधिष्ठिर उवाच:
कः पालय़ेदिति मुने तद्भवान्वक्तुमर्हति ||
१३ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपाय़नोऽव्रवीत् |
१४ क
वैशम्पाय़न उवाच:
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ||
१४ ख
वैशम्पाय़न उवाच:
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालय़िष्यति |
१५ क
वैशम्पाय़न उवाच:
शक्तः स हि महीं जेतुं निवातकवचान्तकः ||
१५ ख
वैशम्पाय़न उवाच:
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा |
१६ क
वैशम्पाय़न उवाच:
दिव्यं धनुश्चेषुधी च स एनमनुय़ास्यति ||
१६ ख
वैशम्पाय़न उवाच:
स हि धर्मार्थकुशलः सर्वविद्याविशारदः |
१७ क
वैशम्पाय़न उवाच:
यथाशास्त्रं नृपश्रेष्ठ चारय़िष्यति ते हय़म् ||
१७ ख
वैशम्पाय़न उवाच:
राजपुत्रो महावाहुः श्यामो राजीवलोचनः |
१८ क
वैशम्पाय़न उवाच:
अभिमन्योः पिता वीरः स एनमनुय़ास्यति ||
१८ ख
वैशम्पाय़न उवाच:
भीमसेनोऽपि तेजस्वी कौन्तेय़ोऽमितविक्रमः |
१९ क
वैशम्पाय़न उवाच:
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते ||
१९ ख
वैशम्पाय़न उवाच:
सहदेवस्तु कौरव्य समाधास्यति वुद्धिमान् |
२० क
वैशम्पाय़न उवाच:
कुटुम्वतन्त्रं विधिवत्सर्वमेव महाय़शाः ||
२० ख
वैशम्पाय़न उवाच:
तत्तु सर्वं यथान्याय़मुक्तं कुरुकुलोद्वहः |
२१ क
वैशम्पाय़न उवाच:
चकार फल्गुनं चापि सन्दिदेश हय़ं प्रति ||
२१ ख
युधिष्ठिर उवाच:
एह्यर्जुन त्वय़ा वीर हय़ोऽय़ं परिपाल्यताम् |
२२ क
युधिष्ठिर उवाच:
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ||
२२ ख
युधिष्ठिर उवाच:
ये चापि त्वां महावाहो प्रत्युदीय़ुर्नराधिपाः |
२३ क
युधिष्ठिर उवाच:
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वय़ानघ ||
२३ ख
युधिष्ठिर उवाच:
आख्यातव्यश्च भवता यज्ञोऽय़ं मम सर्वशः |
२४ क
युधिष्ठिर उवाच:
पार्थिवेभ्यो महावाहो समय़े गम्यतामिति ||
२४ ख
युधिष्ठिर उवाच:
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् |
२५ क
युधिष्ठिर उवाच:
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ||
२५ ख
युधिष्ठिर उवाच:
कुटुम्वतन्त्रे च तथा सहदेवं युधां पतिम् |
२६ क
युधिष्ठिर उवाच:
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ||
२६ ख